________________
साहित्यदर्पणः ।
[ दशम:
पादानानुपादानाभ्यां द्वात्रिंशद्भेदा इति मिलित्वा षट्पञ्चाशद्भेदा वाच्योत्प्रेक्षायाः । तत्र निमित्त स्योपादानं यथा पूर्वोदाहृते 'नातीव' इत्युत्प्रेक्षायां निमित्तं पातकित्वमुपात्तम् । अनुपादाने यथा'चन्द्र इवापर' इत्यत्र तथाविधसौन्दर्य्याद्यतिशयो नोपात्तः । हेतुफलयोस्तु नियमेन निमित्तस्योपादानमेव । तथा हि- 'विश्लेषदुःखादिव' इत्यत्र यन्निमित्तं बद्धमौनत्वम् । 'आख्यातुमिव' इत्यत्र च भूप्रवेशस्तयोरनुपादानेऽसङ्गतमेव वाक्यं स्यात् । प्रतीयमानायाः षोडशसु भेदेषु विशेषमाह१२२ प्रतीयमानाभेदाश्च प्रत्येकं फलहेतुगाः ॥ ९७ ॥
२१८
यथोदाहते 'तन्वङ्गयाः स्तनयुग्मेन' इत्यत्र 'लज्जयेवे 'ति हेतुरुत्प्रेक्षितः । अस्यामपि निमित्त - स्यानुपादानं न सम्भवति । इवाद्यनुपादाने निमित्तस्य वाकीर्त्तने उत्प्रेक्षणस्य प्रमातुर्निश्वेतुमशक्यत्वात् । स्वरूपोत्प्रेक्षाऽप्यत्र न सम्भवति, धर्मान्तरतादात्म्यनिबन्धनायामस्यामिवाद्यप्रयोगे विशेषणयोगे सत्यतिशयोक्तेरभ्युपगमात् । यथा - 'अयं राजाऽपरः पाकशासनः' इति ।
I
दिङ्मात्रमुदाहरति-तत्रेत्यादिना । स्पष्टम् । नन्वेवं हेतुफलोत्प्रेक्षास्वपि निमित्तस्योक्तानुक्तत्वं कुतो नेत्याहहेतुफलयोर्हेतुत्प्रेक्षायां फलोत्प्रेक्षायां चेत्यर्थः । जात्यभिप्रायेणैकत्वम् । तु । नियमेनाव्यभिचारेण । निमि. तस्य । उपादानमुक्तिः । एव, 'हेतूत्प्रेक्षायां फलरूपस्य निमित्तस्य फलोत्प्रेक्षायां हेतुरूपस्य चावश्यवाच्यत्वा' दिति शेषः । तदेवोपपादयति- तथाहि । 'विश्लेषदुःखादिव' इत्यत्र 'हेतूत्प्रेक्षाया 'मिति शेषः । यत् । बद्धमौनत्वम् | निमित्तम् । 'आख्यातुमिव' इत्यत्र 'फलोत्प्रेक्षाया' मिति शेषः । च । भूप्रवेशः । 'यन्निमित्त' मिति पूर्वनुषज्यते । तयोद्धमौनत्व पातालप्रवेशरूपयोर्निमित्तयोरिति भावः । अनुपादानेऽनुक्तौ । सत्यर्थे सप्तमीयम् । वाक्यम् | अखङ्गतम् । एव । स्यात् । 'अन्वय वैकल्यापत्ते' रिति शेषः ।
एवं वाच्यत्प्रेक्षां निरूप्य प्रतीयमानोत्प्रेक्षां विशिष्य लक्षयितुमाह-प्रतीयमानायाः षोडशसु । भेदेषु । विशेषं भेदम् । आह- १२२ प्रतीयेत्यादिना ।
१२२ प्रतीयमानाभेदाः प्रतीयमानोत्प्रेक्षायाः प्रभेदाः । च । प्रत्येकं भेदभेदं प्रतीति भावः । फलहेतुगाः फलगा हेतुगाश्चेति द्विधा भिद्यमाना द्वात्रिंशद्भेदाः सम्पद्यन्ते । तत्राया यथा- 'राहुणा ग्रस्यते पूर्णः पान्थहिंस्रः कलानिधिः । दीनेष्वार्येण मार्गेण वर्तितव्यं सुघोषितुम् ॥' इति, अत्र हीवाद्यभावात्प्रतीयमाना 'सुघोषितु 'मिति ग्रसनस्य च फलमिति फलरूपा च ॥ ९७ ॥
I
अन्त्यां स्वयं निर्दिशति यथेत्यादिना । स्पष्टम् । अस्या अनुक्तनिमित्तात्वाभावमुपपादयति-अस्यां प्रतीयमानायां फलाद्युत्प्रेक्षायाम् । अपि । 'न केवलं वाच्याया 'मिति शेषः । निमित्तस्य। अनुपादानमुपादानाभावः । न । सम्भवति । हेतुं निर्दिशति - इवाद्यनुपादाने इवादेरनुपादानं तस्मिन् सतीति भावः । निमित्तस्य । वा । भकीर्त्तने । 'सती'ति शेषः । उत्प्रेक्षणस्य सम्भावनायाः । सम्बन्धसामान्य विवक्षयेयं षष्ठी । प्रमातुः । निश्चे. तुम्। अशक्यत्वात् । अयम्भावः - यत्रैवादेरनुपादानं तत्र यदि निमित्तस्याप्यनुपादानं स्यात् तर्हि उत्प्रेक्ष्यमाणस्यार्थस्य प्रमातृजनहृदयङ्गमत्वं नोपपयेत, प्रमातृजनहृदयङ्गमो ह्युत्प्रेक्ष्यमाणोऽर्थः असौ एव प्रतीयमानायां निमित्त. स्वनावस्थितः अथास्यानुपादाने स्वतः प्रमातृजनहृदयङ्गमत्वाभावः । अत एव प्रागपि हेतुफलयोस्तु - 'नियमने निमितस्योपादानमेव' इत्युपदिष्टम् । इति । ननु प्रतीयमानायाः स्वरूपगात्वं कुत इत्याशङ्कयाह- अत्रास्यां प्रतीयमानायाम् । स्वरूपोत्प्रेक्षा । अपि । 'न केवलमनुपात्तनिमित्ते' ति शेषः । न । सम्भवति । हेतुं निर्दिशति-धर्मान्तरता. दाम्यनिबन्धनायां धर्मान्तरंमन्यो धर्मस्तेन तस्य वा तादात्म्यमभेद: तन्निबन्धनं कारणं यस्यास्तस्यां तथाभूतायाम् । प्रकृतधर्मापेक्षयाऽप्रकृतधर्म्मो धर्म्मान्तरमिति प्रकृतस्याप्रकृततादात्म्यापादाने धर्मान्तरतादात्म्यनिबन्धनं व्यक्तमिति बोध्यम् । 'धन्तरतादात्म्यनिबन्धतायामिति पाठान्तरं स्पष्टार्थम् । अस्यामुत्प्रेक्षायाम् । इवाद्यप्रयोगे । 'सती'ति शेषः । विशेषणयोगे विशेषणस्यासम्भवित्वेऽपि सम्भवित्वेन सम्भावकस्य धर्मस्य योगस्तस्मिन् । सति । अतिशयोक्तेस्तदाख्यस्यालङ्कारस्य । अभ्युपगमात् स्त्रीकारात् । उदाहरति-यथा'अयम् । राजा । अपरो द्वितीयः । पाकशासन इन्द्रः । इति । इदमुक्तम् - इवाद्यभावे हि 'अयं राजाऽ