Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 786
________________ २०८ साहित्यदर्पणः । ( दशम:११५ प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपद्रुतिः। इयं द्विधा, क्वचिद्धयपह्नवपूर्वक आरोपः, क्वचिच्चारोपपूर्वकोऽपह्नव इति । क्रमेणोदाहरणम् 'नेदं नभो,मण्डलमम्बुराशि, ताश्च तारा,नवफेगभङ्गाः।। नायं शशी,कुण्डलितः फणीन्द्रो,नासौ कलङ्कः शयितो मुरारिः ॥ १३० ॥' 'एतद्विभातिचरमाचलचूडचुम्बि हिण्डीरपिण्डरुचि शीतमरीचिबिम्वम् । उज्ज्वालितस्य रजनी मदनानलस्य धूमं दधत्मकटलाञ्छनकैतवेन ॥ १३१ ॥ इदम्मम । एवम्-विराजति व्योमवपुः पयोधिस्तारामयास्तत्र च फेनभङ्गाः। सुधांशुमूर्तिः शयितः फणीन्द्रः सान्द्राङ्कभामाच्युतभासितान्तः ॥ १३२ ॥ 'भानुरग्निर्यमो वाऽयं बलिः कर्णोऽथवा शिबिः । प्रत्यर्थिनश्चार्थिनश्च विकल्पन्त इति त्वयि ॥' अत्र प्रथमद्वितीयपादप्रतिपाद्ययोः प्रत्येकं संशयत्वम् । अयं फलोल्लेखो यथा-'अर्थिनो दातुमेवेति,त्रातुमेवेति कातराः । जातोऽयं हन्तुमेवेति बीरास्त्वां देव जानते ॥' हेतूलेखो यथा-'हरिचरणनखरसङ्गादेके हरमूर्धसंस्थितेरन्ये । त्वां प्राहः पुण्यतमामपरे सुरतटिनि वस्तुमाहात्म्यात् ॥' अयं ध्वन्यमानो यथा-'अनल्पतापाः कृतकोटिपापा गदैकशीर्णा भवदुःखजीर्णाः । विलोक्य गङ्गां विचलत्तरङ्गाममी समस्ताः सुखिनो भवन्ति ॥' अत्र हि-पूर्वार्धोक्तानां सुखित्वोक्त्या तापपापरोगभवनाशकत्वप्रकारकाणि ग्रहणान्याक्षिप्यन्ते । अयं च शुद्धस्य ध्वनिः । सङ्कीर्णस्य यथा-'स्मयमानाननां तत्र तां विलोक्य विलासि नीम् । चकोराश्चञ्चरीकाश्च मुदं परतरां ययुः ॥' अत्र हि ध्वन्यमानयकैकप्रणरूपया भ्रान्त्या तदुभयसमुदायात्मोल्लेखः । यथा वा-'भासयति व्योमगता जगदखिलं, कुमुदिनीर्विकासयति। कीर्तिस्तव धरणिगता सगरसुतायाः समफलतां नयते ॥' अत्र ह्यधिकरणभेदप्रयुक्तमेकस्यामेव कीत्तौ चन्द्रिकाचन्द्रिकात्वाद्यनेकधोल्लेखो रूपसङ्कीर्णो ध्वन्यते। अपह्नुतिं लक्षयति-११५ प्रकृतमुपमेयम् । प्रतिषिध्य निषिध्य । अन्यस्थापनमन्यस्योपमानस्य स्थापनम् । अपहतिः। स्यात । तथा च-उपमेयनिषेधपूर्वकमुपमानस्योपमेयतादात्म्येनोपपादनमपद्धतिरिति फलितोऽर्थः । अस्यां चोपमेयस्य निषेधादुपमेयोपमानयोर्विरोधः, रूपके तु सामानाधिकरण्यम् ; इत्यनयोर्भेदः । अस्या द्वैविध्यमाह-इयमपहुतिः । द्विधा । हि यतः । क्वचित् कस्याञ्चिदपह्लत्याम् । अपहवपूर्वकः । 'उपमेयस्येति शेषः । आरोपः। उपमानस्थे ति शेषः । क्वचित् कस्याञ्चिदपद्भुतौ । च । आरोपपूर्वक 'उपमामस्ये ति शेषः । अपहव 'उपमेयस्येति शेषः । इति 'द्विधा'इत्यनेन सम्बन्धः । तथा च-उपमेयापहवपूर्वकोपमानारोपात्मिका, उपमानारोपपूर्वकोपमेयापहवात्मिका चेति द्विविधापह्नुतिरलङ्कार इति निष्कृष्टम् । ___उदाहरति-क्रमेण । उदाहरणम् । 'इदम् । नभोमण्डलमाकाशम् । न । किन्तु-अम्बुराशिः समुद्रः क्षीरसमुद्र इति यावत् । एताः । ताराः । च । न । किन्तु-नवफेनभङ्गा नवाश्च ते फेनभङ्गा इति तथोक्ताः । अयम् । शशी चन्द्रः । न । किन्तु-कुण्डलितः कुण्डलाकारेणावस्थितः । फणीन्द्रः शेषः । असौ। कलङ्कः । न । किन्तु-शयितः । मुरारिर्लक्ष्मीपतिर्भगवान् । एवं च-उच्छलत्फेने क्षीरसमुद्रे शेषपर्य्यङ्कस्थः श्रीपतिरिव तारासङ्कुलिते नभोमण्डले लाञ्छनश्रियं बिभ्रच्चन्द्रमा इत्युपमा ध्वन्यते इति बोध्यम् । अत्र नभआदीनामुपमेयानां निषेधपूर्वकमम्बुराश्यादीनामपमानानामारोपः । अत उपमेयापह्नवपूर्वकोपमानारोपात्मिकेयम् । इन्द्रवज्रावृत्तम् ॥ १३० ॥ 'एतत । प्रकटलाउछनकैतवेन प्रकटं यत् लाञ्छनं कलङ्कस्तस्य कैतवं छलस्तेन । रजनी रात्रिं याप्य । नैरन्तये द्वितीया। उज्ज्वालितस्योद्गता ज्वालेत्युज्ज्वाला, सा जाताऽस्य, तादृशस्य । मदनानलस्य कामरूप. स्याग्नेः । धूमम् । दधत् । चरमाचलचूडचुम्बि चरमाचलस्यास्ताचलस्य चूडचूडा शिखरमिति यावत् तं चुम्बतीत्येवंशीलम् । हिण्डीरपिण्डरुचि हिण्डीराः फेनास्तेषां पिण्डं तस्येव रुचिर्यस्य तथोक्तम् । 'हिण्डीरोऽब्धिकफ: फेन' इत्यमरः शीतमरीचिबिम्बं शीताः शीतला मरीचयः किरणा यस्य तस्य (चन्द्रस्य) विम्बम् । विभाति । अत्र धूमत्वारोपपूर्वकमुपमेयभूतस्य लाञ्छनस्यापह्नव इत्यारोपपूर्वापहवात्मिकेयम् । वसन्ततिलकं वृत्तम् ॥ १३१ ॥ इदं पद्यं च कविराजानां कृतिः । अतः स्वयमेवाहः-इदम् । मम । नेयं शाब्येव, किन्वार्थ्यपि सम्भवतीति ध्वनयमाह-एवम् 'व्योमवयोमाकाशं तदेव वपुर्यस्य तादृशः । पयोधिः क्षीरोदः । विराजति विराजते। तत्र तस्मिनू अयोधौ । च । तारामयाः। फेनभङ्गाः फेनखण्डाः । सुधांशुमूर्तिः सुधांशोर्मूर्तिः । तथा-सान्द्राङ्कभामाच्युत.

Loading...

Page Navigation
1 ... 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910