Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 787
________________ परिच्छेदः ] sarveer व्याख्या समेतः । २०९ इति च प्रकृतनिषेधो बोद्धव्यः । भाषितान्तः सान्द्रो निविडोsसौ अङ्कश्चन्द्रलक्ष्म तदिव भाम यस्य सोऽसावच्युतः श्रीपतिस्तेन भासितमन्तर्मध्यभागो यस्य तादृश: । फणीन्द्रः शेषः । शयितः । इन्द्रवज्रोपेन्द्रवज्रयोरुपजातिश्छन्दः ॥ १३२ ॥ ' › इति । च । प्रकृंतनिषेधः प्रकृतापह्नवपूर्वकोपमानारोपात्मिकाऽपह्नुतिरिति भावः । बोद्धव्यः । इयं चार्थी, निषेधस्यार्थतो लभ्यमानत्वात्, 'नेद' मिति तु शाब्दीशब्देनोपात्तत्वात् । इदमवधेयम् - अपह्नुतिस्तावत् प्रकृतापह्नव - पूर्वकप्रकृता रोपात्मिका प्रकृतारोपपूर्वकप्रकृतापहवात्मिका चेति द्विविधा, एषाऽपि शाब्दी आर्थी चेति द्विविधेति चतुर्विधत्वमेतस्याः । अत्र शाब्दी द्विविधाप्युदाहता, आर्थी तु पूर्वैव । परां यथा मम - 'कमलं वदनच्छलतो लावण्ये क्षीरपूरसम्पूर्णे । विकसदिदं तत् सुभगे दर्शदर्श मुधाजनाच किताः ॥ ' इति । इयमेव कैतवापह्नुतिरित्यपि गीयते । इयं च हेतुर्निर्देशं केंद्रे त्वपह्नुतिरिति व्यपदिश्यते, यथा-श्यामं सितं च सुदृशो न दृशोः स्वरूपं, किन्तु स्फुटं गरलमेतदथामृतं च । नो चेत् कथं निपतनादनयोस्तदैव मोहं मुदं च नितरां दधते युवानः ॥' इति । एतदुभयात्मिकाSप्येषा - 'वदने विनिवेशिता भुजङ्गी पिशुनानां रसनामिषेण धात्रा । अनया कथमन्यथाऽवलीढा नहि जीवन्ति जना मनागमन्त्राः ॥' इति । इयं चोत्प्रेक्षासङ्कीर्णाऽपि यथा अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये ! कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥ ' इति । इयं मालारूपाऽपि यथा - 'क्वापि क्षीरनिधिच्छलात् क्वचिदपि प्रोत्फुल्लकुन्दच्छलात्, कुत्रापीन्द्रगजच्छलात्, क्वचिदपि प्रालेयर रिमच्छलात् । कुत्रापि स्मरवैरिदेह मिषतः, कुत्रापि शेषच्छलात् त्रैलोक्यं हिमतुल्य कीर्त्तिरटति श्रीवाजचन्द्रप्रभोः ॥' अत्र क्षीरनिधिप्रभृतीन् निषिध्यैकस्याः कीर्त्तस्तेषु बहुष्वारोपः । क्वाप्येषा - एकापह्नवपूर्वकबहारोपात्मिका दृश्यते, यथा- 'नारीणामनुरञ्जनानुनयनात् पञ्चाशुगस्याशुगान् शत्रूणामवधीरणापकरणव्यापारतः पाण्डवान् । कामानामनुपूरणात् सुरतरून् भीतार्त्तसञ्जीवनात् प्राणान् पाणिरयं बिभर्त्ति नृपतेः पञ्चाङ्गुलीव्याजतः ॥' अत्र वाजचन्द्रनृपतेरङ्गुलिनिषेधपूर्वकं बहूनां कामबाणादीनामारोपः । अथ ध्वन्यमाना यथैषा - 'दयिते ! रदनत्विषां मिषादयि तेऽमी विलसन्ति फेसराः । अपि चालकवेषधारिणो मकरन्दस्पृहयालवोऽलयः ॥' इति । अत्र हि - 'नेमा रदनत्विषः, किं तु किञ्जल्कपरम्पराः, न चामी अलकाः, किन्तु अलय:' इति पूर्वोत्तरभागाभ्यामपहुतिद्वयं स्फुटं तेन च 'नत्वं सुदती युवती, किन्तु पद्मिनी' इति तृतीयाऽपह्नुतिः प्राधान्येन ध्वन्यते । इति । चित्रमीमांसाकारास्तु- 'त्वदालेख्ये कौतूहलतरलतन्वीविरचिते विधायका चक्रं विलिखति सुपर्णीसुतमपि । अपि विद्यत्पाणिस्त्वरितमपसृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति ॥ इत्यपह्नुतिध्वनिरुदाहृतः । अत्र 'अयं न साधारणः कश्चित् पुरुषः, किन्तु नारायणः, इति चक्रादिलेखनद्वारा कयाचिद् व्यञ्जितम् । अन्यथा पुनः तस्यापि एतादृशं रूपं न सम्भवतीत्यभिप्रायेण 'नायं नारायणोऽपि, किन्तु कामदेव ' इति तदुभयमपमृज्य पुष्पचापमकरध्वज लेखनमुखेन ध्वनितम्। अत्र गङ्गाधरकृत:'अपह्नुतेद्वौ भागौ, उपमेयनिषेधः, उपमानारोपश्चेति, तयोस्तावदुपमानारोपभागः 'पुण्डरीकाक्षोऽय' मित्याकारश्चकसुपर्णलेखनेन अभिव्यङ्क्तुं शक्यः, चक्रसुपर्णयोस्तत्सम्बन्धित्वात् । नतु नायं साधारणः पुरुषः' इत्युपमेयनिषेधभागोऽपि । व्यञ्जकस्यारोपमात्रन्यञ्जनसमर्थस्य तादृशनिषेधव्यञ्जने सामर्थ्याभावात् । नाप्यनुभवसिद्धः सः, येन तद्व्यञ्जनोपायो गवेष्येत । नापि गवेष्यमाणोऽपि तद्व्यञ्जनोपायः शब्दोऽर्थो वोपलभ्यते । येनानुभवकलहोऽपि स्यात् । न च साधारणपुरुषनिषेधमन्तरेण पुण्डरीकाक्षतादात्म्यारोपो दुर्घट इति सोऽपि व्यज्यत इति वाच्यम् । रूपकोच्छेदापत्तेः । 'मुखं चन्द्र' इत्यादौ मुखनिषेधमन्तरेण चन्द्रत्वं दुरारोपमित्यस्यापि सुवचत्वात् । तत्रापि मुखनिषेधावगमे जितमपह्नुत्या । अथ 'मुखं चन्द्र' इति रूपके मुखत्वसामानाधिकरण्येन चन्द्रताद्रूपस्यारोप्यमाणतया न मुखनिषेधापेक्षेति चेत्, प्रकृतेऽपि तर्हि तादृशसाधारणपुरुषत्व सामानाधिकरण्येन पुण्डरीकाक्षतादात्म्यारोपरूपमसौ राजा पुण्डरीकाक्ष इत्याकाररूपकमेव भवितुमष्टे, नापह्नुतिः । यदपि च उच्यते 'नायं पुण्डरीकाक्षः, अपि तु मन्मथः ' इत्यादि । तत्र यद्यपि चक्रसुपर्ण दूरी - करणेन' नायं पुण्डरीकाक्ष' इति निषेधः पुष्पचापध्वजगत मकरयोर्लेखनेन च ' मन्मथोऽय' मित्युपमानारोपश्च व्यङ्गयो भवितुमर्हति । तथाऽपि नासावपहुति: । 'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम् ।' इति स्वत्कृतलक्षणस्याप्यत्रासत्वात् । अत्र हि निषेध्यस्य भगवतः पुण्डरीकाक्षस्यावर्ण्यत्वेना प्रकृततया प्रकृतनिषेधाभावात् । नहि पूर्वारोपिततामात्रेण प्रकृतत्वं २७

Loading...

Page Navigation
1 ... 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910