________________
परिच्छेदः ]
sarveer व्याख्या समेतः ।
२०९
इति च प्रकृतनिषेधो बोद्धव्यः ।
भाषितान्तः सान्द्रो निविडोsसौ अङ्कश्चन्द्रलक्ष्म तदिव भाम यस्य सोऽसावच्युतः श्रीपतिस्तेन भासितमन्तर्मध्यभागो यस्य तादृश: । फणीन्द्रः शेषः । शयितः । इन्द्रवज्रोपेन्द्रवज्रयोरुपजातिश्छन्दः ॥ १३२ ॥ '
›
इति । च । प्रकृंतनिषेधः प्रकृतापह्नवपूर्वकोपमानारोपात्मिकाऽपह्नुतिरिति भावः । बोद्धव्यः । इयं चार्थी, निषेधस्यार्थतो लभ्यमानत्वात्, 'नेद' मिति तु शाब्दीशब्देनोपात्तत्वात् । इदमवधेयम् - अपह्नुतिस्तावत् प्रकृतापह्नव - पूर्वकप्रकृता रोपात्मिका प्रकृतारोपपूर्वकप्रकृतापहवात्मिका चेति द्विविधा, एषाऽपि शाब्दी आर्थी चेति द्विविधेति चतुर्विधत्वमेतस्याः । अत्र शाब्दी द्विविधाप्युदाहता, आर्थी तु पूर्वैव । परां यथा मम - 'कमलं वदनच्छलतो लावण्ये क्षीरपूरसम्पूर्णे । विकसदिदं तत् सुभगे दर्शदर्श मुधाजनाच किताः ॥ ' इति । इयमेव कैतवापह्नुतिरित्यपि गीयते । इयं च हेतुर्निर्देशं केंद्रे त्वपह्नुतिरिति व्यपदिश्यते, यथा-श्यामं सितं च सुदृशो न दृशोः स्वरूपं, किन्तु स्फुटं गरलमेतदथामृतं च । नो चेत् कथं निपतनादनयोस्तदैव मोहं मुदं च नितरां दधते युवानः ॥' इति । एतदुभयात्मिकाSप्येषा - 'वदने विनिवेशिता भुजङ्गी पिशुनानां रसनामिषेण धात्रा । अनया कथमन्यथाऽवलीढा नहि जीवन्ति जना मनागमन्त्राः ॥' इति । इयं चोत्प्रेक्षासङ्कीर्णाऽपि यथा अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये ! कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥ ' इति । इयं मालारूपाऽपि यथा - 'क्वापि क्षीरनिधिच्छलात् क्वचिदपि प्रोत्फुल्लकुन्दच्छलात्, कुत्रापीन्द्रगजच्छलात्, क्वचिदपि प्रालेयर रिमच्छलात् । कुत्रापि स्मरवैरिदेह मिषतः, कुत्रापि शेषच्छलात् त्रैलोक्यं हिमतुल्य कीर्त्तिरटति श्रीवाजचन्द्रप्रभोः ॥' अत्र क्षीरनिधिप्रभृतीन् निषिध्यैकस्याः कीर्त्तस्तेषु बहुष्वारोपः । क्वाप्येषा - एकापह्नवपूर्वकबहारोपात्मिका दृश्यते, यथा- 'नारीणामनुरञ्जनानुनयनात् पञ्चाशुगस्याशुगान् शत्रूणामवधीरणापकरणव्यापारतः पाण्डवान् । कामानामनुपूरणात् सुरतरून् भीतार्त्तसञ्जीवनात् प्राणान् पाणिरयं बिभर्त्ति नृपतेः पञ्चाङ्गुलीव्याजतः ॥' अत्र वाजचन्द्रनृपतेरङ्गुलिनिषेधपूर्वकं बहूनां कामबाणादीनामारोपः । अथ ध्वन्यमाना यथैषा - 'दयिते ! रदनत्विषां मिषादयि तेऽमी विलसन्ति फेसराः । अपि चालकवेषधारिणो मकरन्दस्पृहयालवोऽलयः ॥' इति । अत्र हि - 'नेमा रदनत्विषः, किं तु किञ्जल्कपरम्पराः, न चामी अलकाः, किन्तु अलय:' इति पूर्वोत्तरभागाभ्यामपहुतिद्वयं स्फुटं तेन च 'नत्वं सुदती युवती, किन्तु पद्मिनी' इति तृतीयाऽपह्नुतिः प्राधान्येन ध्वन्यते । इति । चित्रमीमांसाकारास्तु- 'त्वदालेख्ये कौतूहलतरलतन्वीविरचिते विधायका चक्रं विलिखति सुपर्णीसुतमपि । अपि विद्यत्पाणिस्त्वरितमपसृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति ॥ इत्यपह्नुतिध्वनिरुदाहृतः । अत्र 'अयं न साधारणः कश्चित् पुरुषः, किन्तु नारायणः, इति चक्रादिलेखनद्वारा कयाचिद् व्यञ्जितम् । अन्यथा पुनः तस्यापि एतादृशं रूपं न सम्भवतीत्यभिप्रायेण 'नायं नारायणोऽपि, किन्तु कामदेव ' इति तदुभयमपमृज्य पुष्पचापमकरध्वज लेखनमुखेन ध्वनितम्। अत्र गङ्गाधरकृत:'अपह्नुतेद्वौ भागौ, उपमेयनिषेधः, उपमानारोपश्चेति, तयोस्तावदुपमानारोपभागः 'पुण्डरीकाक्षोऽय' मित्याकारश्चकसुपर्णलेखनेन अभिव्यङ्क्तुं शक्यः, चक्रसुपर्णयोस्तत्सम्बन्धित्वात् । नतु नायं साधारणः पुरुषः' इत्युपमेयनिषेधभागोऽपि । व्यञ्जकस्यारोपमात्रन्यञ्जनसमर्थस्य तादृशनिषेधव्यञ्जने सामर्थ्याभावात् । नाप्यनुभवसिद्धः सः, येन तद्व्यञ्जनोपायो गवेष्येत । नापि गवेष्यमाणोऽपि तद्व्यञ्जनोपायः शब्दोऽर्थो वोपलभ्यते । येनानुभवकलहोऽपि स्यात् । न च साधारणपुरुषनिषेधमन्तरेण पुण्डरीकाक्षतादात्म्यारोपो दुर्घट इति सोऽपि व्यज्यत इति वाच्यम् । रूपकोच्छेदापत्तेः । 'मुखं चन्द्र' इत्यादौ मुखनिषेधमन्तरेण चन्द्रत्वं दुरारोपमित्यस्यापि सुवचत्वात् । तत्रापि मुखनिषेधावगमे जितमपह्नुत्या । अथ 'मुखं चन्द्र' इति रूपके मुखत्वसामानाधिकरण्येन चन्द्रताद्रूपस्यारोप्यमाणतया न मुखनिषेधापेक्षेति चेत्, प्रकृतेऽपि तर्हि तादृशसाधारणपुरुषत्व सामानाधिकरण्येन पुण्डरीकाक्षतादात्म्यारोपरूपमसौ राजा पुण्डरीकाक्ष इत्याकाररूपकमेव भवितुमष्टे, नापह्नुतिः । यदपि च उच्यते 'नायं पुण्डरीकाक्षः, अपि तु मन्मथः ' इत्यादि । तत्र यद्यपि चक्रसुपर्ण दूरी - करणेन' नायं पुण्डरीकाक्ष' इति निषेधः पुष्पचापध्वजगत मकरयोर्लेखनेन च ' मन्मथोऽय' मित्युपमानारोपश्च व्यङ्गयो भवितुमर्हति । तथाऽपि नासावपहुति: । 'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम् ।' इति स्वत्कृतलक्षणस्याप्यत्रासत्वात् । अत्र हि निषेध्यस्य भगवतः पुण्डरीकाक्षस्यावर्ण्यत्वेना प्रकृततया प्रकृतनिषेधाभावात् । नहि पूर्वारोपिततामात्रेण प्रकृतत्वं
२७