________________
२१० . साहित्यदर्पणः ।
[दशमः११६ गोपनीयं कमप्यर्थ द्योतयित्वा कथञ्चन ॥ ९१ ॥
____ यदि श्लेषेणान्यथा वाऽन्यथयेत् साऽप्यपद्भुतिः ॥ श्लेषेण यथा-'काले धारिधराणामपतितया नैव शक्यते स्थातुम् ।।
उत्कण्ठिताऽसि तरले नहिनहि सखि ! पिच्छिलः पन्थाः ॥ १३३ ॥'
वक्तं शक्यम् । प्रकृतपदस्यारोपविषयपरतया निषिध्य विषयमित्यादिना क्वा'प्रत्ययफलं ब्रुवता भवतैव तत्र स्फुटीकरणात् । काव्यप्रकाशकृताऽपि 'प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपह्नुतिः । इति सूत्रं व्याचक्षाणेन 'उपमेयमसत्यं कृत्वा'इत्यादिना प्रकृतपदस्योपमेयपरतयैव व्याख्यानाच्च । प्राचीनमतसिद्धेयमपहृतिय॑ङ्गायत्वेनास्माभिरिहोच्यत इत्यपि कुशकाशावलम्बनमात्रम् । 'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम् ।' इति लक्षणं कुर्वता भवतैव तस्या बहिःकरणात् । एवमपि उक्तपद्ये कोऽलङ्कारो व्यङ्ग इति चेत् ! विच्छित्तिवैलक्षण्येऽतिरिक्तः (रूपकाख्यः) । अन्यथा त्वपह्नुति. रेवास्तु, लक्षणं तु तदा-'प्रसक्तयत्किञ्चिद्वस्तुनिषेधसामानाधिकरण्येन क्रियमाणवस्त्वन्तरारोपमेवापहृतित्वम् । 'इति प्राहुः, कौस्तुभकारास्तु-'वस्तुतस्तु-'मुख चन्द्र'इत्यादौ मुखत्वं धर्मितावच्छेदकीकृत्य चन्द्रतादात्म्यारोपस्यानुभवसाक्षिकत्वादभ्युपगमेऽपि प्रकृते पुण्डरीकाक्षभेदव्याप्यचक्राद्यभावस्य साधारणपुरुषधर्मस्य च चक्रादिभिरपसारणे साधारणपुरुष. निषेधमन्तरेण पुण्डरीकाक्षतादात्म्यस्य व्यञ्जयितुमशक्यत्वात तनिषेध आवश्यक इति दीक्षिताशयः ।' इत्याहुः । मर्मप्रकाशकाराः पुन:-'अत्रेदं चिन्त्यम्-दीक्षितैर्हि 'दण्डी तु अपहृतेः साधर्म्यमूलत्वनियममनादृत्य 'अपङतिरपगुत्य किञ्चिदन्यार्थसूचनम् । इति लक्षयित्वोदाजहार'न पञ्चेषुः स्मरस्तस्य सहस्र पत्रिणां यतः । चन्दनं चन्द्रिका मन्दो गन्धवाहश्च दक्षिणः ॥' इत्याद्युपक्रम्य त्वदालेख्ये'इत्यायुक्तमिति तदनुसारेणैव तत्रापहृतिध्वनिरुदाहृत इति न कञ्चिदहृदयङ्गमम् । प्रकाशविरोधोऽपि न, तत्रोपमेयपदस्य पदार्थोपलक्षणपरत्वात् । अन्यथा-'केसेसु बलामोडिअ तेण अ समरम्मि जअसिरी गहिआ। जह कंदराहिं विहरा तस्स दढं कंठअम्मि संठविआ ॥'इत्यत्र स्वयं न प्रपलाय्य गतास्तद्वैरिणोऽपि तु ततः पराभवं सम्भाव्य तान कन्दरा न त्यजन्तीत्यपहृतिय॑ज्यते'इति प्रकाशग्रन्थासङ्गतिः स्यादिति बोध्यम् ।' इति समादधते । इति ।
, प्रकरान्तरेणैनां लक्षयति-११६ कमपि । गोपनीयमप्रकाश्यम् । अर्थ प्रयोजनम् । कथश्चन प्रमादादिवशात् । द्योतयित्वा प्रकाश्य। यदि 'अथ कस्यचिद् भीत्ये'ति शेषः । श्लेषेण । अन्यथा प्रकारान्तरेणाश्लेषेणेति यावत् । वा । अन्यथयेत् अभिप्रायान्तरेणासङ्गमयेत् । 'प्रथयेत् ।' इति पाठान्तरम् । सा। अपि । अपहुतिः। अयम्भाव:-यं कमपि खभावतो गोपनीयमप्यर्थ यदि प्रमादादिवशात् गोपायितुं न शक्नुयात्, तं प्रकाश्यापि श्लेषमहिना कारणान्तरपरतया सङ्गमय्य परकर्तकतत्कर्मकप्रबोधपरायणतामपह्लवीत सा द्वितीयप्रकाराऽपह्नुतिः । इति ॥ ९१॥
एवं द्विविधाऽप्येषा तत्राद्या तावदुदाहियते-श्लेषेण । यथा-'वारिधराणां मेघानाम् । काले समये । वर्षासमय इति फलितोऽर्थः ।' अपतितया न पतिर्मदनज्वालाप्रशमितृतया रक्षको यस्यास्तस्या भावस्तत्ता तया । स्थातुमवस्थातुम् । नैव । शक्यते । मदनोद्दीपकस्याऽस्य समयस्य सहाय्येन प्रचण्डतरतां प्रतिपन्नेन स्वभावतो वियोगिनीजनान्तकेन मदनेन पीड्यमानाऽहमिति पत्युश्च परदेशगततया तथाभूतस्यान्यस्य कस्यचित्तरुणवर आश्रयमन्तरा न मम जीवनास्था सम्भवति इति भावः । एवं प्रस्फुटमर्थ बुद्धा तत्सखी पृच्छति-हे तरले चञ्चले पातिव्रत्यतो भ्रश्यमानचित्ते इति यावत् । उत्कण्ठिता 'परसङ्गस्येति शेषः । उत्कण्ठिताऽभिलाषिणी । भसि (अत्र काकुः, अत:-'कि'मित्यर्थो लभ्यते) एवं सख्या ज्ञातमपि तथ्यं भावमपह्नोतुमाह-नहिनहि (सम्भ्रमे द्विरुक्तिरियम् ) हे सखि ! 'यथा तयाऽऽशङ्कयते तथा न, किन्त्वि'ति भावः । पन्थाः । पिच्छिल: 'कर्दमातिशया'दिति शेषः । अतः-'अपतितया' इत्यस्य पतितत्वमन्तरेति भावः । अत्र 'अपतितयेति श्लिष्टम् । आाछन्दः ॥ १३३॥
१ 'केशेषु बलात्कारेण तेन च समरे जयश्रीहीता। यथा कन्दराभिर्विधुरास्तस्य टुढं कण्ठे संस्थापिताः ॥' इति संस्कृतम्।