________________
२०८ साहित्यदर्पणः ।
( दशम:११५ प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपद्रुतिः। इयं द्विधा, क्वचिद्धयपह्नवपूर्वक आरोपः, क्वचिच्चारोपपूर्वकोऽपह्नव इति । क्रमेणोदाहरणम्
'नेदं नभो,मण्डलमम्बुराशि, ताश्च तारा,नवफेगभङ्गाः।।
नायं शशी,कुण्डलितः फणीन्द्रो,नासौ कलङ्कः शयितो मुरारिः ॥ १३० ॥' 'एतद्विभातिचरमाचलचूडचुम्बि हिण्डीरपिण्डरुचि शीतमरीचिबिम्वम् । उज्ज्वालितस्य रजनी मदनानलस्य धूमं दधत्मकटलाञ्छनकैतवेन ॥ १३१ ॥ इदम्मम । एवम्-विराजति व्योमवपुः पयोधिस्तारामयास्तत्र च फेनभङ्गाः।
सुधांशुमूर्तिः शयितः फणीन्द्रः सान्द्राङ्कभामाच्युतभासितान्तः ॥ १३२ ॥ 'भानुरग्निर्यमो वाऽयं बलिः कर्णोऽथवा शिबिः । प्रत्यर्थिनश्चार्थिनश्च विकल्पन्त इति त्वयि ॥' अत्र प्रथमद्वितीयपादप्रतिपाद्ययोः प्रत्येकं संशयत्वम् । अयं फलोल्लेखो यथा-'अर्थिनो दातुमेवेति,त्रातुमेवेति कातराः । जातोऽयं हन्तुमेवेति बीरास्त्वां देव जानते ॥' हेतूलेखो यथा-'हरिचरणनखरसङ्गादेके हरमूर्धसंस्थितेरन्ये । त्वां प्राहः पुण्यतमामपरे सुरतटिनि वस्तुमाहात्म्यात् ॥' अयं ध्वन्यमानो यथा-'अनल्पतापाः कृतकोटिपापा गदैकशीर्णा भवदुःखजीर्णाः । विलोक्य गङ्गां विचलत्तरङ्गाममी समस्ताः सुखिनो भवन्ति ॥' अत्र हि-पूर्वार्धोक्तानां सुखित्वोक्त्या तापपापरोगभवनाशकत्वप्रकारकाणि ग्रहणान्याक्षिप्यन्ते । अयं च शुद्धस्य ध्वनिः । सङ्कीर्णस्य यथा-'स्मयमानाननां तत्र तां विलोक्य विलासि नीम् । चकोराश्चञ्चरीकाश्च मुदं परतरां ययुः ॥' अत्र हि ध्वन्यमानयकैकप्रणरूपया भ्रान्त्या तदुभयसमुदायात्मोल्लेखः । यथा वा-'भासयति व्योमगता जगदखिलं, कुमुदिनीर्विकासयति। कीर्तिस्तव धरणिगता सगरसुतायाः समफलतां नयते ॥' अत्र ह्यधिकरणभेदप्रयुक्तमेकस्यामेव कीत्तौ चन्द्रिकाचन्द्रिकात्वाद्यनेकधोल्लेखो रूपसङ्कीर्णो ध्वन्यते।
अपह्नुतिं लक्षयति-११५ प्रकृतमुपमेयम् । प्रतिषिध्य निषिध्य । अन्यस्थापनमन्यस्योपमानस्य स्थापनम् । अपहतिः। स्यात । तथा च-उपमेयनिषेधपूर्वकमुपमानस्योपमेयतादात्म्येनोपपादनमपद्धतिरिति फलितोऽर्थः । अस्यां चोपमेयस्य निषेधादुपमेयोपमानयोर्विरोधः, रूपके तु सामानाधिकरण्यम् ; इत्यनयोर्भेदः ।
अस्या द्वैविध्यमाह-इयमपहुतिः । द्विधा । हि यतः । क्वचित् कस्याञ्चिदपह्लत्याम् । अपहवपूर्वकः । 'उपमेयस्येति शेषः । आरोपः। उपमानस्थे ति शेषः । क्वचित् कस्याञ्चिदपद्भुतौ । च । आरोपपूर्वक 'उपमामस्ये ति शेषः । अपहव 'उपमेयस्येति शेषः । इति 'द्विधा'इत्यनेन सम्बन्धः । तथा च-उपमेयापहवपूर्वकोपमानारोपात्मिका, उपमानारोपपूर्वकोपमेयापहवात्मिका चेति द्विविधापह्नुतिरलङ्कार इति निष्कृष्टम् ।
___उदाहरति-क्रमेण । उदाहरणम् । 'इदम् । नभोमण्डलमाकाशम् । न । किन्तु-अम्बुराशिः समुद्रः क्षीरसमुद्र इति यावत् । एताः । ताराः । च । न । किन्तु-नवफेनभङ्गा नवाश्च ते फेनभङ्गा इति तथोक्ताः । अयम् । शशी चन्द्रः । न । किन्तु-कुण्डलितः कुण्डलाकारेणावस्थितः । फणीन्द्रः शेषः । असौ। कलङ्कः । न । किन्तु-शयितः । मुरारिर्लक्ष्मीपतिर्भगवान् । एवं च-उच्छलत्फेने क्षीरसमुद्रे शेषपर्य्यङ्कस्थः श्रीपतिरिव तारासङ्कुलिते नभोमण्डले लाञ्छनश्रियं बिभ्रच्चन्द्रमा इत्युपमा ध्वन्यते इति बोध्यम् । अत्र नभआदीनामुपमेयानां निषेधपूर्वकमम्बुराश्यादीनामपमानानामारोपः । अत उपमेयापह्नवपूर्वकोपमानारोपात्मिकेयम् । इन्द्रवज्रावृत्तम् ॥ १३० ॥
'एतत । प्रकटलाउछनकैतवेन प्रकटं यत् लाञ्छनं कलङ्कस्तस्य कैतवं छलस्तेन । रजनी रात्रिं याप्य । नैरन्तये द्वितीया। उज्ज्वालितस्योद्गता ज्वालेत्युज्ज्वाला, सा जाताऽस्य, तादृशस्य । मदनानलस्य कामरूप. स्याग्नेः । धूमम् । दधत् । चरमाचलचूडचुम्बि चरमाचलस्यास्ताचलस्य चूडचूडा शिखरमिति यावत् तं चुम्बतीत्येवंशीलम् । हिण्डीरपिण्डरुचि हिण्डीराः फेनास्तेषां पिण्डं तस्येव रुचिर्यस्य तथोक्तम् । 'हिण्डीरोऽब्धिकफ: फेन' इत्यमरः शीतमरीचिबिम्बं शीताः शीतला मरीचयः किरणा यस्य तस्य (चन्द्रस्य) विम्बम् । विभाति । अत्र धूमत्वारोपपूर्वकमुपमेयभूतस्य लाञ्छनस्यापह्नव इत्यारोपपूर्वापहवात्मिकेयम् । वसन्ततिलकं वृत्तम् ॥ १३१ ॥
इदं पद्यं च कविराजानां कृतिः । अतः स्वयमेवाहः-इदम् । मम । नेयं शाब्येव, किन्वार्थ्यपि सम्भवतीति ध्वनयमाह-एवम्
'व्योमवयोमाकाशं तदेव वपुर्यस्य तादृशः । पयोधिः क्षीरोदः । विराजति विराजते। तत्र तस्मिनू अयोधौ । च । तारामयाः। फेनभङ्गाः फेनखण्डाः । सुधांशुमूर्तिः सुधांशोर्मूर्तिः । तथा-सान्द्राङ्कभामाच्युत.