________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।
२०७ 'वस्तुतस्तु-'अम्बरविवरम्'इत्यादौ भ्रान्तिमानेव, न रूपकं भेदप्रतीतिपुरःसरस्यैवारोपस्य गौणीमूलरूपकादिप्रयोजकत्वात् । यदाहुः-शारीरकमीमांसाभाष्यव्याख्याने श्रीवाचस्पतिमिश्राः'अपि च-परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्तते, इति यत्र प्रयोक्तृप्रतिपत्रोः सम्प्रतिपत्तिः स गौणः, स च भेदप्रत्ययपुरःसरः।'इति । इह तु वातिकानां श्रीकण्ठजनपदवर्णने भ्रान्ति कृत एवाम्बरविवराद्यारोपः । अत्रैव च तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः' इत्यादौ परिणामालङ्कारयोगः । इति च परे।
'गाम्भीर्येण समुद्रोऽसि गौरवेणासि पर्वतः । कामदत्वाच्च लोकानामसि त्वं कल्पपादपः ॥ १२९ ॥' इत्यत्र अनेकधोल्लेखे गाम्भीर्यादिविषयभेदः प्रयोजकः । अत्र च रूपकयोगः ।
'गुरुर्वचसि, पृथुरुरसि, अर्जुनो यशसि'इत्यादिषु चास्य रूपकाद् विविक्तो विषयः । अत्र श्लेषमूलातिशयोक्तियोगः। ' भावः ।' इति । एवं केषाश्चिन्मतं दर्शयित्वाऽत्रापि परमतं दर्शयति-'वस्तुतस्तु यद्यपि केचित्तथा प्राहुः-किन्तु सिद्धान्तनयेन इति भावः । 'अम्बरविवरम् ।'इत्यादौ । भ्रान्तिमान् । एव । न । रूपकम् । 'भ्रान्तिमन्तमेवेच्छन्ति, न रूपकम् इति पाठे'ऽस्मदादय'इति शेषः, स्पष्टमन्यत् । हेतुं निर्दिशति-भेदप्रतीतिपुरःसरस्य । एव'न त्वभेदप्रतीतिपुरःसरस्थे' ति शेषः । आरोपस्य । गौणीमूलरूपकादिप्रयोजकत्वात् । आदिपदेन परिणामादेर्ग्रहणम् । अत्राप्तवाक्यं प्रमाणमिति निर्दिशति-यत् । शारीरकमीमांसाभाज्यव्याख्याने वेदान्तसूत्राणां श्रीशङ्कराचार्यभगवत्पादैः कृतं भाष्यं शारीरकभाष्यं तस्य व्याख्यानं व्याख्या तत्रेति तथोक्ते । 'अथातो ब्रह्मजिज्ञासा' इति प्रथमसूत्रस्य भाष्यव्याख्यानावसर इति भावः । श्रीवाचस्पतिमिश्राः । आहुः । अपि । च । परशब्द: यथा-'एतत्तैलम्'इत्यादौ तिलभवस्नेहवाचकस्तैलशब्द इति भावः । परत्र एतत्पदवाच्ये सार्षपादिस्नेहे । । गुणयोगेन लक्ष्यमाणो गुणो घृतादिभिन्नद्रवत्वरूपस्तस्य योगस्तेन । वर्त्तते । इति अस्मात् हेतोः । यत्र । प्रयोक्तप्रतिपत्रोः 'एतत्तैलम्'इत्यादेरुचरिता प्रयोक्ता, तद्वाक्यार्थाभिज्ञः प्रतिपत्ता चेति तयोः । सम्प्रतिपत्तिनिश्चयः । सः। गौणो गौणीलक्षणाविषयः । सः। च । भेदप्रत्ययपुरःसरः।' अयम्भावः-गौणीलक्षणा हि सादृश्यमूला भवति, सादृश्यं च सति भेद एवेति एतत्तैल'मित्यादौ तैलादिशब्दाः एतदादिषु लक्ष्यमाणगुणसम्बन्धेन वर्तन्ते, तादृशी च सम्प्रतिपत्तिस्तत्तद्वक्तृबोद्धव्ययोरवतिष्ठते । रूपकं च गौणीमूलम् 'अम्बरविवरमित्यगृह्यते'त्यादौ भेदप्रत्ययाभावादभेदप्रत्ययस्य मिथ्यात्वेन भ्रमरूपत्वादत्र भ्रान्तिमानेव । इति । तदेव विशदयन्नाह-इह । तु । वातिकानाम् । श्रीकण्ठजनपदवर्णने श्रीकण्ठजनपदान्तर्गतस्थाण्वीश्वरजनपदवर्णनप्रसङ्गे । भ्रान्तिकृतः । एव । अम्बरविवराद्यारोपः । अम्बरविवराद्यभेदाध्यवसायः । अत्रास्मिन् प्रस्तावे । एव । च । तपोवनम् । इति । मुनिभिः। कामायतनम् । इति । वेश्याभिः। 'योऽगृह्यते'ति शेषः ।' इत्यादौ । परिणामालङ्कारयोगः परिणामसङ्कीर्णोल्लेख इति भावः । इदमभिहितम्-अम्बरविवरत्वेनाभिमतोऽपि स्थाण्वीश्वरजनपदो न तथा परिणत इति तत्र भ्रान्तिरेख, तदौचित्यं च वातिकानाम्, अतस्तत्र भ्रान्तिमानेव । तपोवनत्वादिना तु स तथा क्रियोपयोगितया परिणत इति परिणामः । उल्लेखस्त्वेकस्मिन् जनपदे अनेकधोल्लेखनमूल: । इति ।' इति । च । परे। 'आहुरिति शेषः । ।
द्वितीयमुदाहरति-'गाम्भीर्येण । त्वम्-समुद्रः । असि । गौरवेण । पर्वतः। असि । लोकानाम् । कामदत्वात् कामपूरकत्वात् । च । कल्पपादपः कल्पवृक्षः । त्वम् । असि। अत्र हि गाम्भीर्यादिविषय. भेदेनैकस्य राज्ञोऽनेकधोल्लेखनादुल्लखः ॥ १२९ ॥'
लक्ष्यं स्पष्टार्थयति-इत्यत्रेत्यादिना । स्पष्टम। अत्रापि केषाञ्चिन्मतं निर्दिशति-अत्रचेत्यादिना । स्पष्टम । नन्वेवं 'गुरुर्वचसि'इत्यादावपि रूपकं किमित्याशङ्कयाह-'वचसि । गुरुर्ब्रहस्पतिर्गरीयांश्च । उरसि । पृथुर्वैन्यः पृथुलश्च । यशसि । अर्जुनः सहस्रवाहुर्धवणश्चेत्यर्थः । इत्यादिषु । च । अस्योल्लेखस्य । रूपकात् । विविक्तः पृथग्भूतः । विषयः । अत्र । श्लेषमूलातिशयोक्तियोगः। 'उल्लेखस्येति शेषः । इति । अयं संशयसङ्कीर्णः