________________
२०६
साहित्यदर्पणः ।
[ दशम:
इत्यादौ लावण्यादेर्विषयस्य पृथक्त्वेनाध्यवसानम् । न चेह भगवति गोपवधूप्रभृतिभिः प्रियवादि अध्यवसीयते । प्रियत्वादेर्भगवति तत्काले तात्त्विकत्वात् ।
केचिदाहुः - 'अयमलङ्कारो नियमेनालङ्कारान्तरविच्छित्तिमूलः । उक्तोदाहरणे च शिशुत्वादीनां नियमाभिप्रायात् प्रियत्वादीनां भिन्नत्वाध्यवसाय इत्यतिशयोक्तिरस्ति, तत्सद्भावेऽपि प्रत्येतृभेदेन नानात्वप्रतीतिरूपो विच्छित्तिविशेष उल्लेखभिन्नालङ्कारप्रयोजकः । श्रीकण्ठजनपदवर्णने 'वज्रपञ्जरमिति शरणागतैः, विटगोष्ठीति विदग्धैः सुकृतपरिणाम इति पथिकैः, अम्बरविघरमिति वातिकैः । ' इत्यादिश्चातिशयोक्तेर्विविक्तो विषयः । इह च रूपकालङ्कारयोगः । इति ।
strict | लावण्यादेस्तद्रूपस्य । विषयस्य । पृथक्त्वेन 'अन्यदेवे' त्यादिनिर्दिष्टेनासाधारणत्वेनेति भाव: । अध्यवसानं निश्चित्य प्रतिपादनम् । नं च । इहोदाहृते पद्ये । भगवति । गोपवधूप्रभृतिभिः । प्रयत्वादि । अध्यवसीयते । हेतुं निर्दिशति - प्रियत्वादेः । भगवति श्रीकृष्णे । तत्काले तदानीम् । तात्त्विकत्वात् स्वत एव वर्त्तमानत्वात् । अयम्भावः तत्रातिशयोक्तौ तावत् 'अन्यदेवाङ्गलावण्यम्' इत्यादौ युव त्यामन्यत्वेन ( पृथक्त्वेन ) अवर्त्तमानमपि लावण्यादि पृथक्त्वेन निश्चाय्यते, उल्लेखे तु 'प्रिय' इत्यादौ प्रियत्वादिवर्त्त - मान मुख्यते नतु अस्मादन्यत्वेन प्रत्याय्यते । इदमनयोर्भेदप्रयोजकम् । भ्रान्तौ 'मुग्धा दुग्धधिया' इत्यादौ 'कपाले मार्जार' इत्यादौ वा चन्द्रकिरणादौ वर्त्तमानस्य चैत्यस्य साम्यमादाय दुग्धत्वादिप्रत्ययः, अत्र तु न साम्यमादाय किञ्चित् प्रयत्वादि भगवति आवेद्यते किन्तु तेषु सत्सु कियतां ग्रहीतृभेदेनावेदनम् । नच 'यमः खलु' इत्यादौ राजनि साम्यमादाय यमत्वाद्यादेद्यते, यत्स्यानान्तिः किन्तु 'अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निमितो नृपः ।' इत्यादिमानवादिनिदेशमादायैव । इत्यनयोरपि भेदः । मालारूपके च - ' मनोजराजस्य सितातपत्रम्' इत्यादौ न ग्रहीतृभेदः, न वा विषयभेदः । इत्यनयोर्भेदः । इति ।
मतान्तरं निर्दिशति केचित् । आहुः | 'अयमुलेखनामा । अलङ्कारः । नियमेनाव्यभिचारेण । अलङ्कारान्तरविच्छित्तिमूलोऽलङ्कारान्तरस्य विच्छित्तिरुपस्कार कत्वमलङ्कारत्व बीजभूत चमत्कारविशेष इति यावत् मूलं यस्य तादृशः । अलङ्कारान्तरस्य बीजभूतां चमत्कृतिमुपादायैवायं सम्भवतीति भावः । कथमित्याह - उक्तोदाहरणे 'प्रिय इति' इत्यादौ । च । शिशुत्वादीनाम् । आदिपदेन 'प्रियत्वादीनां ग्रहणम् । नियमाभिप्रायात् व्यवच्छेदतात्पर्य्यमङ्गीकृत्येति भावः । प्रियत्वादीनाम् । आदिना 'शिशुत्वा 'दीनां ग्रहणम् । भिन्नत्वाध्यवसायः शिशुत्वादिभेदप्रत्ययः । इति । अतिशयोक्तिः । अस्ति । अयम्भावः - 'प्रिय' इत्यादौ गोपीवृद्धदेवभक्तयो गि• जनानां क्रमेण प्रियशिशुस्वामिनारायणब्रह्मत्वैः प्रत्ययाभिधानात् तदन्यतमस्यैतदन्यतमत्वप्रत्यये क्रमनैयत्यमिति 'गोपवधूभिः प्रियः एव देवैरधीश एवेत्येवं प्रतीतत्वे वर्ण्यमाने तदन्यतमस्यैतदन्यतर भिन्नत्वाध्यवसायः स्फुट:, स्फुटं चेत्थमेतस्यातिशयोक्तिसम्भिन्नत्वम् । इति । ननु एवमतिशयोक्तिरेवमङ्गीक्रियताम्, किमेतेनेत्याशङ्कयाह - तत्सद्भावे तस्याः सद्भावे । अपि । प्रत्येतृभेदेन प्रत्येतॄणां ग्रहीतृणां भेदो नानात्वं तेन । नानात्वप्रतीतिरूपः प्रियशिशुत्वादिनाऽनेकत्वज्ञानात्मा । विच्छित्तिविशेष: । उल्लेखभिन्नालङ्कारप्रयोजक उल्लेखेन भिन्नः सङ्कीर्णोऽसावलङ्कारोऽतिशयोक्त्यलङ्कारस्तस्य प्रयोजकः प्रत्यायकः । यद्वा - उल्लेख एव भिन्नालङ्कारोऽतिशयोक्तीतरालङ्कारस्तस्य प्रयोजक इति पूर्ववत् । न चैवमयम तिशयोक्त्यैव सङ्कीर्ण इति दर्शयन्नाह - श्रीकण्ठ जनपदवर्णने वाकविना रचिते हर्षचरिते श्रीकण्ठाख्यस्य जनपदस्य वर्णने क्रियमाणे स्थाण्वीश्वरनामधेयस्य जनपदस्य वर्णनप्रसङ्ग इति भावः । ' तृतीय उच्छ्रास' इति शेषः । ' वज्रपञ्जरं वज्रमिन्द्रायुधं तदेव पञ्जरं निलीय स्थातुं योग्यं स्थानमिति तथोक्तम् । वज्रस्य पञ्जरमिति समासेऽप्ययमेव भावः । अमोघत्वेनाप्रतिहतत्वेन स्थानस्य वज्रपञ्जरत्वेनाभिधानम् । इति । शरणागतैः । विटगोष्ठी चतुरसमाज इति भावः । इति । विदग्धैश्वतुरैः । सुकृतपरिणामः पुण्यफलम् । इति । पथिकैः । अम्बरविवरमम्बरस्य गुहारूपं स्थानम् । इति । वातिकैर्वातप्रभूतैर्देवयोनिविशेषैः । ' योऽगृह्यते 'ति शेषः ।' इत्यादिः । च । अतिशयोक्तः । विविक्तः संपर्कविहीनः । विषयः । इह 'वज्रपञ्जर' इत्यादौ । च । रूपकालङ्कारयोगः । नतु उल्लेख एवेति