________________
२०५
परिच्छेदः ] . चिराख्यया व्याख्यया समेतः । क्रमेणोदाहरणम्-'प्रिय इति गोपवधूभिः, शिशुरिति वृद्धैरधीश इति देवैः।।
नारायण इति भक्त, ब्रह्मेत्यग्राहि योगिभिर्देवः ॥ १२७ ॥' अत्र एकस्यापि भगवतस्तत्तहणयोगादनेकत्वोल्लेखे गोपवधूप्रभृतीनां रुच्यादयो यथायोगं प्रयोजकाः । यदाहुः
'यथारुचि यथाऽर्थित्वं यथाव्युत्पत्ति भिद्यते ।
आभासोऽप्यर्थ एकस्मिन्ननुसन्धानसाधितः ॥ इत्यत्र भगवतः प्रियत्वादीनां वास्तवत्वाद्, ग्रहीतभेदाच्च न मालारूपकम् , न च भ्रान्तिमान् । न चायमभेदे भेदः इत्येवंरूपाऽतिशयोक्तिः । तथा हि
'अन्यदेवाङ्गलावण्यमन्याः सौरभसम्पदः । तस्याः पद्मपलाशाक्ष्याः सरसत्वमलौकिकम्॥१२८॥' - उदाहर्तुमुपक्रान्तः प्राह-क्रमेणेत्यादि । स्पष्टम् । प्रिय इत्यादि ।
'देवः श्रीकृष्णचन्द्रः । गोपवधूभिर्गोपीभिः । प्रियः। इति । वृद्धैनन्दाद्यैर्वसुदेवायैर्वा । शिशुर्बालकः । इति । देवैरिन्द्रादिभिः । अधीशः। इति । भक्तरुद्धवादिभिः । नारायणः । इति । योगिभिर्गर्गादिभिः । ब्रह्म । इति । अग्राहि अज्ञायि । आउछन्दः ॥ १२७ ॥'
नन्वेकस्यानेकधोल्लेखः किनिमित्तक इत्याशङ्कयाह-अत्रोदाहृते पद्ये इत्यर्थः । एकस्य । अपि । भगवतः । तत्तहणयोगात् तस्यतस्य प्रियत्वादेर्गुणस्य सम्बन्धात् । अनेकत्वोल्लेखेऽनेकत्वेनोल्लेखस्तस्मिंस्तथोक्ते । गोपव. धूप्रभृतीनाम् । प्रभृतिपदेन वृद्धादेर्ग्रहणम् । रुच्यादयः । आदिपदेनार्थित्वव्युत्पत्त्योहणम् । यथायोगं यथासम्भवम् । प्रयोजकाः कारणानि । भगवति यावद्णसत्त्वेऽपि तस्यतस्य ग्राहकस्य रुच्यादिभेदे विविधप्रकारेणैव स्फुरणमिति बोध्यम् । प्राचां संवादेनोक्तमर्थ सिद्धान्तयति-यत् । आहः । 'यथारुचि रुचिमभिलाषमनतिक्रम्य । यथाऽ र्थित्वमर्थित्वमर्थः प्रयोजनापेक्षाऽस्यास्तीति तस्य भावस्तत्त्वं, तदनतिक्रम्य । यथाव्युत्पत्ति व्युत्पत्तिर्भावना तामनतिक्रम्य । 'यथाऽसादृश्ये ।' २।१।७ इति सूत्रेणाव्ययीभावः । एकस्मिन् । अपि 'किं पुनरनेकविधे इत्यर्थतोऽवगम्यते । अर्थे पदार्थे । आभासः प्रत्ययविशेषः । अपि (इदमुभयत्रानुयोगि)। अनुसन्धानसाधितोऽनुसन्धानं भावना तेन साधितः सम्पादितः । भिद्यते । एकस्मिन्नपि विषये व्यक्तिभेदेन विविधप्रकारकभाबनासम्पत्तौ तत्तद्विशेषणकप्रत्ययविशेषसहकृतं रुच्यादिकं कारणमिति भावः ॥ इति । अतः-अत्र । भगवतः । प्रियत्वादीनाम् । वास्तवत्वात् आरोपितत्वाभावात् । ग्रहीतृभेदात्प्रत्येतृणां नानात्वात् । च । न । मालारूपकम् । तथा च-पिता प्रजानां, शमनो रिपूणां, वनीपकानाममरद्रुमश्च । कविः कवीनां, सुहृदां सुधांशुः, सतां गुरुभूमिपतिः प्रतीतः ॥' 'यमः खलु महीभृतां हुतवहोऽसि तन्नीवृतां सतां प्रति 'युधिष्ठिरो धनपतिर्धनाकाक्षिणाम् । गृहं शरणमिच्छतां कुटिलकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥' इत्यादौ पितृत्वादीनां यमत्वादीनां च वास्तवत्वे सति ग्रहीतृभेदादेव न मालारूपकमित्यपि सूचितं वेदितव्यम् । न । च । भ्रान्तिमान् । 'कपाले मार्जारः पय इति कराँल्लेढि शशिनस्तरुच्छिद्रप्रोतान् बिसमिति करी सङ्कलयति । रतान्ते तल्पस्थान् हरति वनिताऽप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ॥' इत्यादौ तु भ्रान्तिमानेव, तत्तद्रूपतायाः सादृश्यमूलकत्वात , कराणां चानेकत्वात्तेषु जात्यभिप्रायेणैकत्वारोपेऽपिः श्वेतत्वैक्येन भेदमूलकताया अनुपपत्तेश्चेत्यपि बोध्यम् । ननु तदयमभेदाध्यवसायिकायामतिशयोक्तावन्तर्भाव्यतामित्याशङ्कयाह-न। च। अयं निरुक्तलक्षण उल्लेखः । अभेदे । भेदः । इत्येवंरूपाऽतिशयोक्तिः । ननु कथं नेत्याशङ्कय-उपपादयति, तथाहि । 'तस्याः। पद्मपलाशाक्ष्याः पद्मस्य पलाशे ते इव विशाले चारुणी चाक्षिणी नेत्रे यस्यास्तस्यास्तथाभूतायाः । अलावण्यमङ्गस्य शरीरस्याङ्गानां मुखादीनां वा लावण्यं सौन्दर्यविशेषः । अन्यत् लोकेऽनुभूयमानेभ्यः पृथक् । एव । सौरभसम्पदः सौरभस्य सौगन्ध्यस्य सम्पदः सम्पत्तयः । अन्याः 'एवेति पूर्वतोऽनुषज्यते । तथासरसत्वं रसिकत्वं शृङ्गारपात्रत्वं वेति भावः । अलौकिकम् । न लोके सम्भवीति भावः ॥ १२८ ॥