________________
साहित्यदर्पणः। . . . दशमः - अस्वरसोत्थापिता भ्रान्ति यमलङ्कारः, यथा-'शुक्तिकायां रजतम्' इति । न चासादृश्य
मूला, यथा
'सङ्गमविरहविकल्पे वरमिह विरहो, न सङ्गमस्तस्याः। सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ॥ १२६ ॥' ११४ क्वचिद्भेदाद् ग्रहीतृणां विषयाणां तथा क्वचित् ।
एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते ॥ ९० ॥
ज्यते । मुक्ताफलाकाक्षया एतानि-मुक्ताफलानीति निश्चीय तानि प्रहीतुमिच्छया। कर्कन्धूफलं बदरीफलानि । जातावेकत्वोक्तिः । उच्चिनोति सञ्चिनुते । सान्द्रा निबिडा सर्वतो बाढं व्याप्तेति यावत् । चन्द्रमसः। चन्द्रिका ज्योतिः। कस्य । चित्तभ्रमम । न । कुरुते अपि तु सर्वस्यैव करोति इति भावः । शार्दूलविक्रीडितं वृत्तम् ॥१२५॥
एवमुदाहृत्य 'प्रतिभोत्थिते' त्यस्य सार्थक्यं दर्शयति-अस्वेत्यादिना। स्पष्टम् । नहि शुक्तिकायां जाताऽपि रजतबुद्धिरलङ्कारतां धत्ते । 'साम्या' दित्यस्य प्रकारान्तरेण सार्थक्यं दर्शयितुमाह-नचेत्यादि । स्पष्टम् । उदाहृत्य दर्शयति-यथा-'समेत्यादिना।
'तस्या मनसा विषयीक्रियमाणायाः प्रियतमाया इति भावः । इह । सङमविरहविकल्पे सङ्गमविरहयो। विकल्पः कल्पनाविशेषः तस्मिन् । विरहः । वरं साम्प्रतम् । सङ्गमः । न । 'वर' मिति पूर्वतोऽनुषज्यते। हेतुं निर्दिशति-सड़े सङ्गमे । सा। एव। तथा । एका। यद्वा-सा तथा तथाभूता एका एवेति योज्यम् । विरहे। त्रिभुवनम् । अपि । तन्मय प्रियारूपम् । आया॑छन्दः । अत्र भ्रान्तेर्भावनातिशयज़न्यत्वेन न सादृश्यमूलत्वम् । अतोऽस्याः प्रतिभोत्थापितत्वेऽपि नालङ्कारोपस्कारकत्वम् ॥ १२६ ॥'
इदमवधेयम्-कयोश्चित् सादृश्यमादाय कविना यदि स्वप्रतिभोन्मेषेणान्यस्मिन् अन्यबुद्धिः कल्प्येत तदाऽसौ भ्रान्तिमानिति व्यपदिश्यते। व्यपदेशश्चायमौपचारिकः, तथोक्तम्-'प्रमात्रन्तरधीर्धान्तिरूपा यस्मिन्ननूद्यते । स भ्रान्तिमानिति ख्यातोऽलङ्कारे त्वौपचारिकः ॥' इति । तत्र-सादृश्यमादायेत्यनेन 'सङ्गम' इत्यादौ अतिप्रसङ्गो निवारितः । अत एव-'अकरुणहृदय ! प्रियतम ! मुञ्चामि त्वामितः परं नाहम् । इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ॥' इत्यादेरप्यस्य व्यवच्छेदः । अत्र हि-उन्मादोत्था तथा बुद्धिः । प्रतिभोन्मेषेणान्यस्मिन्नन्यबुद्धिः कल्प्यमाना स्वरसोत्थापितेति व्यपदेशान्तराश्रयभूता भवतीत्यत एवोक्तम्, अस्वरसोत्थापितेत्यादि। यत्त्वाहुः-लक्षणे च अत्रैकत्वं विवक्षितम् , अन्यथा वक्ष्यमाणानेकग्रहीतृकानेकप्रकारकैकविशेष्यकभ्रान्तिसमुदायात्मन्युल्लेखेऽतिप्रसङ्गापत्तेः।' इति । तत् न किञ्चित् , अत्रैकत्वानिवेशेऽपि उल्लेखेऽतिप्रसङ्गानापत्तेः, तस्यानेकप्रकारकोल्लेख एव सम्भवातू, नच तत्र साम्यमपि विवक्षितम् । अन्यथा नरैर्वरगतिप्रदेत्यथ सुरैः स्वकीयापगेत्युदारतरसिद्धिदेत्यखिलसिद्धसधैरपि । हरेस्तनुरिति श्रिता मुनिभिरस्तसङ्गैरियं तनोतु मम शं तनोः सपदि शन्तनोरङ्गना ॥' इत्यादावुदाहरिष्यमाणेऽपि तस्या व्याप्तिः । नत्वत्र साम्यम्, किन्तु ग्रहीतृणां केवलं भावनाभेदः । ध्वन्यमानोयं यथा-'कनकद्रवकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया । परिफुल्लपतत्रपल्लवैर्मुमुदे चातकपोतकैर्वने ॥' अत्र हि चकोराणां वारिददर्शने आमोदस्वाभाव्याद्रामदर्शनमात्रेणामोदाभिधाने भगवतो रामस्य वारिदसाम्यस्य प्रसिद्धत्वात् तद्दर्शने तदर्शनप्रत्ययस्यार्थिकत्वाभान्तिलन्यते । इति।
उल्लेखं लक्षयति-११४ क्वचिद् यत्रतत्र । ग्रहीतृणां बोधकानाम् । तथा। विषयाणां प्राह्याणां बोध्याना. मिति यावत् । क्वचित् । भेदात् । एकस्य 'यस्यकस्यचि' दिति शेषः। यः। अनेकधाऽनेकप्रकारेण । उल्लेख
उद्भाव्याभिमननम् । सः। उल्लेखस्तन्नामाऽलङ्कारः । उच्यते । अयम्भाव:-एकस्य वस्तुनोऽनेकधोल्लेख उल्लेखाख्योऽ. लङ्कारः, अनेकधोल्लेखश्चोल्लेखकानामुल्लेखनीयानां वा भेदात् (अनक्यात् ) एव विवक्षितः। अतोऽस्य द्वैविध्यम् । द्विविधोऽप्ययम्, काचित्कः, क्वचिदित्यनेन 'देवदत्तं देवदत्ता पति, दैवदत्तिः पितरं, दैवदत्तिजः पितामहं मनुते' इत्यादेव्यवच्छेदः ॥ ९० ॥