________________
परिच्छेदः ]
afararer व्याख्या समेतः ।
अप्रतिभोत्थापिते तु 'स्थाणुर्वा पुरुषो वा' इत्यादिसंशये नायमलङ्कारः । 'मध्यं तव सरोजाक्षि ! पयोधरभरार्दितम् ।
अस्ति नास्तीति सन्देहः कस्य चित्ते न जायते ॥ १२४ ॥ ' इत्यत्रातिशयोक्तिरेव, उपमेय उपमानसंशयस्यैव एतदलङ्कारविषयत्वात् । ११३ साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान् प्रतिभोत्थिता ॥ ८९ ॥ यथा- 'मुग्धा दुग्धधिया गवां विदधते कुम्भानधो बल्लवाः, कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि । कर्कन्धूफलमुच्चिनोति शवरी मुक्ताफलाकाङ्क्षया,
सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका ॥ १२५ ॥'
२०३
अथालङ्कारान्तरतोऽस्य व्यावृत्तिं दर्शयितुमाह-अप्रतीत्यादि । स्पष्टम् ।
उदाहरति- 'हे सरोजाक्षि ! पयोधरभरादितं पयोधरयोर्भरो भारस्तेनार्दितं पीडितम् । तव । मध्यमुदरम् । अस्ति । न 'वे'ति शेषः । अस्ति । इति इत्येवम् । सन्देहः । कस्य । चित्ते । न । जायते सम्भवति । अपि तु सर्वस्यैवेति भावः ॥ १२४ ॥
अत्र लक्ष्यं निर्दिशति- इत्यत्रोदाहृते पचे इत्यर्थः । अतिश्योक्तिः । एव । 'नतु सन्देहः' इति शेषः । कुत इत्याह-उपमेये । उपमानसंशयस्य । एव । एतदलङ्कारविषयत्वात्सन्देहालङ्कारजीवातुत्वात् । अत्र च तदभा वान्नायमिति भावः । अत्रेदम्बोध्यम्- 'सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः । ' इति सूत्रं 'प्रकृते उपमेयेऽन्यस्योपमानस्ये'त्यनुसङ्गमय्य 'उपमेयोपमानसंशयस्यैव' इत्यु 'पमेये उपमानसंशयस्यैवे 'ति तु व्याख्यानं नोपयुक्तम्, 'आहो खिन्मुखमवभासते तरुण्या' इत्युदाहृतो ग्रन्थकृतोऽभिप्रायाननुकूलत्वात् । अत एवाहुर्नवालङ्कारसूत्रकारा: "ये तु उपमेये धर्मिण्युपमानसंशयं सन्देहालङ्कारं वदन्तः 'किं तावत्... ॥' इति निश्चयान्तसन्देहस्योदाहरणमाहुः । तेषां कथं न पूर्वापरविरोध इति त एव । अत्र खलु एकस्मिन् धर्मिण्युपमानमुपमेयं चालम्ब्य संशयो वर्णितः । न त्वयमुपमेये धर्मिण्युपमानसंशयः । न ह्येककोटिकः संशयो भवति ।" इति । यच्चामी अपि - 'उपमानस्योपमेये संशयः सन्देहः' इति सूत्रयित्वा 'किमिन्दुः, किं पद्म, किमु मुकुरबिम्बं किमु मुखम् इत्युदाहृतवन्त इति 'किमु मुखम्' इत्यादौ उपमेये उपमानसं - - शयाभावात् स्वयं प्रष्टव्याः । एतेन - 'प्रकृते तदन्यविषया सादृश्यज्ञानजन्या या बुद्धिर्निश्चयभिन्ना तामाचख्युः ससन्देहम् ॥' इत्युक्त्वा 'उपमेये उपमानविषयकः संशयः ससन्देह इत्यर्थः । इत्याचक्षाणा अपि दत्तोत्तराः । संशयश्चात्र निश्चयानवगाहिनी बुद्धि:, नतु नानाकोटिका बुद्धिः 'किं तावत्...' इत्युदाहरणासङ्गतेः । न चास्त्विति वाच्यम्, प्राचां सिद्धाततोऽनेकत्र विरोधापत्तेः । अत एव 'बुद्धिर्निश्चयभिन्ना' इत्यलङ्कारकौस्तुभकारा अपि संशयपदार्थमभिहितवन्तः । इति दिक् ।
भ्रान्तिमन्तं लक्षयति - ११३ साम्यात् सादृश्यात् । अतस्मिन्न तदिति तस्मिंस्तथोक्ते । प्रतिभोत्थिता प्रतिभोत्थापिता कविप्रौढोक्तिसिद्धेति यावत् । तद्बुद्धिस्तस्य बुद्धिर्निश्चय इति तथोक्ता । भ्रान्तिमान्। अयम्भावः-कमले कमलबुद्धिस्तस्मिंस्तद्बुद्धिः, वदने कमलबुद्धिरतस्मिंस्तद्बुद्धिः, एषैव भ्रमः । संशयस्तु उभयत्रानिश्चितबुद्धयाकारो भवति । अत एव - सन्देहभ्रान्तिमतोर्भेदः । भ्रमापरपर्य्याया चातस्मिंस्तद्बुद्धिरियं यदि प्रतिभोत्थापिता स्यात्तदा भ्रान्तिमान् । नच रूपकेऽतिशयोक्तौ वाऽतिव्याप्तिः, तयोरभेदस्याहार्थ्यरूपत्वात् भ्रमस्य चाहाभिन्नत्वात् । नहि तत्र साम्यादतस्मिंस्तद्बुद्धिर्भवति, किन्तु - कविनैवाभेदेन तथा वर्ण्यते । इति ॥ ८९ ॥
उदाहरति-यथा-'मुग्धा अप्रौढाः । बल्लवा गोपाः । दुग्धधिया दुग्धमिदमिति निश्चयेन । गवाम् । अधः । कुम्भान् दोहनपात्राणि । विदधते कुर्वन्ति । कान्ताः । अपि 'मुधा' इति पूर्वतोऽनुषज्यते । कैरवशङ्कया कैरव (कुमुद) मिदमिति भ्रमेण । 'सिते कुमुदकैरवे' इत्यमरः । कुवलयं नीलाब्जम् । 'श्यामं शिति - कण्ठनीलं कुवलयमिन्दीवरं च नीलाब्जम् ।' इति नाममाला । कर्णे । कुर्वन्ति । शवरी भिल्ली । 'मुग्धा' इत्यनुष