________________
२०३
- साहित्यदर्पणः।
(दशम:
'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति पुनः
समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः ॥ १२२॥' अत्र मध्ये मार्तण्डाद्यभावनिश्चयो राजनिश्चये द्वितीयसंशयोत्थानासम्भवात् । यत्रादौ संशयः, अन्ते च निश्चयः स निश्चयान्तः । यथा
'किं तावत् सरसि सरोजमेतदारादाहो स्विन्मुखमवभासते तरुण्याः। संशय्य क्षणमिति निश्चिकाय कश्चिद्विव्वोकैर्वकसहवासिनां परोक्षैः ॥ १२३ ॥'
उदाहरति-यथा-'अयम् । मार्तण्डः सूर्यः । किम् ? ननु नायं मार्तण्डः, यतः-सः मार्तण्डः । खल। सप्तभिः । तुरगैरश्वैः । इतो युक्तः। अतो नायं मार्तण्ड इति भावः । कृशानुरग्निः। किम् ? 'अय'मित्यनुषज्यते । नायमग्निरपि यतः-एष कृशानुः । नियतं खलु । क्रियाविशेषणमिदम् । सर्वाः। दिशः । नैरन्तयें द्वितीयेयम् । न प्रसरति, ऊर्द्धप्रसरणस्यैव निश्चितत्वात् । अतो नायं कृशानुरिति भावः । कृतान्तो यमः । साक्षात् । किम् ? 'अय'मित्यनुषज्यते । ननु नायं कृतान्तो यतः-असौ कृतान्तः । महिषवहनो महिषवाहनः । अतो नायं यम इति भावः । इति । त्वाम् । आजौ सङ्ग्रामे । 'आजौ स्त्री समभूमौ सङ्ग्रामे' इति मेदिनी। समालोक्य । प्रतिभटाः प्रतियोद्धारः शत्रुसैनिकाः । पुनः । विकल्पान् नानासम्भावनाः। विदधति । शिखरिणीवृत्तम् ॥ १२२ ॥'
नन कथमयं निश्चयगर्भः सन्देह इत्याशङ्कथाह-अत्रोदाहृते पद्य इति भावः । मध्ये। मार्तण्डाद्यभावनिश्चयः। नच राजनिश्चय इत्याह-राजनिश्चये। द्वितीयसंशयोत्थानासम्भवात् द्वितीयोऽसौ संशयस्तस्योस्थानं तस्यासम्भवस्तस्मात् । अयम्भावः-अत्र जायमानस्य संशयस्य निराकरणपरायामपि शेमुष्यामन्ततोऽनिवृत्तिरित्यस्य सन्देहोपस्कारकत्वम् । इति । निश्चयान्तं लक्षयति-यत्रेत्यादिना । स्पष्टम् ।
उदाहरति-यथा-'आरात्समीपे पुरोवर्ति इति यावत् । 'आराद्दरसमीपयोः ।' इत्यमरः । एतव । सरसि। 'विकस'दिति शेषः । किम् । तावत् । सरोजम् ? आहो अथवा । 'आहो उताहो किमुत विकल्पे किं किमत च ।' इत्यमरः। स्वित किम् । 'स्वित्प्रइने च वितर्के च' इत्यमरः। तरुण्याः । मुखम् । अवभासते स्फुरति। इति इत्थम् । क्ष क्षणावधि । संशय्य । कश्चित् । वकसहवासिनां वकानां सहवासीति तेषाम्, सरोजानामिति भावः । परोक्षरगोचरैः । विवोकैर्विलासविशेषैः । निश्चिकाय निश्चितं कृतवान् । 'इदं मुखम् , इदं च सरोजम्' इति ज्ञातवानिति भावः । प्रहर्षिणीवृत्तम् । शिशुपालवधस्येदं पद्यम् ॥ १२३ ॥
इदम्बोध्यम्-अत्र संशयस्य जनविशेषनिष्ठस्यान्ते कविना निराकृतौ हेतुनिर्देशं निर्दिष्टायामपि चमत्कारित्वानपायात् सन्देहोपस्कारकत्वम् । यथा वा-'चपला जलंदाच्युता लता वा तरुमुख्यादिति संशये निमग्नः । गुरुनिःश्वसितैः कविमनीषी निरणैषीदथ तां वियोगिनीति ॥' अयं लक्ष्यो व्यङ्गयोऽपि च सम्भवति, क्रमेण यथा-'साम्राज्यलक्ष्मीरियमध्यकेतोः सौन्दर्यसृष्टेरधिदेवता वा। रामस्य रामामवलोक्य लोकरिति स्म दोलाऽऽरुरुहे तदानीम्॥', 'तीरे तरुण्यां वदनं सहास नीरे सरोजं च मिलविकासम् । आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धाऽऽलिकिशोरमाला ॥' इति । संशयश्च क्वचिदनाहार्यः, क्वचिदाहायः । स हि यत्र परनिष्ठस्तत्र प्रायशोऽनाहार्यः, यत्र च स्वनिष्ठ एव तत्रा. हार्यः । अत्राद्यो यथा-'किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी'त्यादौ संशयानस्य निर्णयाभावात् । 'अयं किम्' इत्यादौ पुनरन्त्यः, अत्र वक्तस्तत्त्वज्ञत्वात् । एवं च -'किमिन्दुः' इत्यादावनाहायं एव । 'गगनाद्गलितो गमस्तिमानुत वाऽयं शिशिरो विभावसुः । मुनिरेवमरुन्धतीपतिः सकलज्ञः समशेत राघवे ॥' इत्यादावाहार्य एव मुनेधशिष्ठस्य सकलज्ञत्वात् । अयं परम्परितोऽपि सम्भवति यथा-'विद्वदैन्यतमस्त्रिमूर्तिरथवा वैरीन्द्रवंशाटवीदावाग्निः किमहो महोज्वलयश:शीतांशुदुग्धाम्बुधिः । किं वाऽनङ्गभुजङ्गदष्टवनिताजीवातुरेवं नृणां केषामेष नराधिपो न जनयत्यल्पेतराः कल्पनाः ॥' इति दिक् ।