________________
परिच्छेदः ]
रुचिराख्ययों व्याख्यया समेतः ।
२०१ ।
११२ शुद्धो निश्चयगर्भोऽसौ निश्चयान्त इति त्रिधा। यत्र संशये एव पर्यवसानं स शुद्धः। यथा
किं तारुण्यतरोरिय रखभरोद्भिन्ना नवा वल्लरी, वेलामोच्छलितस्प किं लहरिका लावण्यवारान्निधेः । उद्गाढोत्कलिकावतां स्वसमयोपन्यासविश्रम्भिणः
किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः ॥ १२१ ॥ यत्रादावन्ते च संशय एष मध्ये निश्चयः स निश्चयमध्यः । यथा
संशयस्तर्हि स सन्देह इति व्यपदिश्यते । उपमेयोपमानयोः संशयो भेदस्य किञ्चित् प्रतीयमानत्व एव सम्भवति, स च क्वचि. दुच्यते, क्वचिच्च न । अत एवोक्तम्-'ससन्देहस्तु भेदोक्तौ तदनुक्तौ च संशयः ।' इति प्रकाशकृता । उपमेयोपमानयोश्च संशयहेतुको भेदः सादृश्यमूलो भवति, सादृश्यं हि तद्भिन्नत्वे सति तगतभूयोधर्मवत्त्वम् । उपमेयोपमानयोः संशयः सन्देह इत्युक्त्या--'इतो गता सा व गता न जाने, गेहं गता, मे हृदयं गता वा।' इत्यादेर्व्यवच्छेदः । संशयस्य प्रतिभोत्थापितत्वे सन्देहाङ्गीकारेण वस्तुस्वभावसिद्धस्य निरासः । अत एव वक्ष्यते 'स्थाणुर्वा पुरुषो वा इत्यादौ न सन्देहालङ्कार इति । 'पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः ।' इत्यादौ उपमेये उपमानस्य सर्वथाऽभेदावगमप्राधान्ये संशयतिरोभावाच्च नातिप्रसङ्गः । उत्प्रेक्षायां च सम्भावनाप्राधान्यान्नातिपातः । तथोक्तम्-'उपमानोपमेयकोटिकस्य संशयस्याभावानोत्प्रेक्षायामस्यातिप्रसङ्गः, तत्र सम्भावनाया एव वैशिष्टयम्' इति । एवम्-'तदोजसस्तदयशसः स्थिताविमौ वृथेति चित्ते कुरुते यदायदा ।' इत्यादेः सुतरां व्युदासः । इति दिक् ॥ ८८॥
अस्य भेदत्रयं निर्दिशति-११२असौ निरुक्तलक्षणः सन्देहः । शुद्धः । निश्चयगी निश्चयो गर्भेऽन्तयत्र स तथोक्तः । तथा-निश्चयान्तो निश्चयोऽन्ते यत्र तथोक्तः । इति । विधा । अतएवोक्त पण्डितराजैः 'सादृश्यहेतुका निश्चयसम्भावनान्यतरभिन्ना धी रमणीया संशया ( सन्देहा) लङ्कृतिः । सा च-शुद्धा, निश्चयगर्भा निश्चयान्ता चेति त्रिविधा।' इति। शुद्धं लक्षयति-यत्र यस्मिन् सन्देहे । संशये। एव । पर्य्यवसाममन्ततो बुद्धिः । सः। शद्धस्तत्प्रभेदकः सन्देह इत्यर्थः । अयम्भाव:-आदावन्ते मध्ये च संशय एव प्रतिभयोत्थाप्यमानो यत्र स्यात् स शुद्धसन्देहा. लङ्कारः। एवकारेण भेदान्तरतोऽस्य व्यवच्छेदः । इति ।
. उदाहरति-यथा-'इयं पुरतो दृश्यमाना नायिकेति भावः । तारुण्यतरोस्तारुण्यं यौवनमेव तरुस्तस्य । रसभरोद्भिन्ना रसभरेण रसभारेण रसातिशयेनेवि यावत् उद्भिन्ना पूर्णा । नवाऽभिनवाऽम्लाना । वल्लरी मञ्जरी । किम् । वेलामोच्छलितस्य वेलासु तटप्रदेशेषु प्रोच्छलितोऽत्यन्तमुत्थितस्तस्य । लावण्यवारान्निधेर्लावण्या, न्येव वारीणि जलानि तेषां निधिस्तस्य । यद्वा-लावण्यस्य वारानिधिस्तस्येति । लहरिका लहरी । किम । 'इय'मित्यनुषज्यते। अथवा । उद्राढोत्कलिकावतामुगाढाऽत्युत्कटा योत्कलिकोत्कण्ठा कान्ताविषयिण्युत्सुकतेति यावत्. सैषामस्तीति तेषां, तथाभूतानां कामुकानामिति भावः । स्वसमयोपन्यासविश्रम्भिणः स्वेषां समयः सिद्धान्त स्तस्योपन्यासो ज्ञापनं तत्र विश्रम्भोऽस्यास्तीति तस्य तथाभूतस्य । शृङ्गारिणः प्रशस्तशृङ्गारस्य तत्प्रधानस्येति यावत् । देवस्य कामदेवस्य । साक्षात् मूर्तिमती। उपदेशयष्टिरुपदेशस्य (सूचिका ) यष्टिः । किम् । 'इय'मित्यनुषज्यते। अत्रोपमेयभूतायां कस्याञ्चिन्नायिकायामुपमानभूतानां वल्लादीनामनैकान्त्यम् । शार्दूलविक्रीडितं वृत्तम् । भृङ्गारतिलकस्येदम् ॥ १२१ ॥'
यथा वा-'किमिन्दुः ? किं पनं किमु मुकुरबिम्बं? किमु मुखं ? किमब्जे? किं मीनौ? किमु मदनबाणौ ? किम दृशौ ?। खगौ वा? गुच्छौ वा ? कनककलशौ वा? किमु कुचौ ? तडिद्वा ? तारा वा? ललितलतिका वा? किम. बला?॥' इति । निश्चयगर्भ इत्यन्वर्थेयं सझेति द्योतयन्नाह-यत्रेत्यादि। स्पष्टम् ।