________________
साहित्यदर्पणः।
.[ दशमःकत्वमात्रेणान्वयः । अवतु तादात्म्येन । 'दासे कृतागसी'त्यादौ रूपकमेव, नतु परिणामः, आरोप्यमाणकण्टकस्य पादभेदनकार्य्यस्य अप्रस्तुतत्वात् । न खलु तत् कस्यचिदपि प्रस्तुतकार्य्यस्य घटनार्थमनुसन्धीयते। अयमपि रूपकवदधिकारूढवैशिष्टयो दृश्यते, यथा
'वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥ १२०॥' अत्र प्रदीपानामौषध्यात्मतया प्रकृते मुरतोपयोगिन्यन्धकारनाशे उपयोगः । अतैलपूरत्वेनाधिकारूढवैशिष्टयम्।
१११ सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः ॥ ८८ ॥
त्रेण विशेषकत्वमात्रेण । अन्वयः । अत्र परिणामे । तु । तादात्म्येनोपमेयाभिन्नत्वेन । 'अन्वयः' इत्यनुषज्यते। , 'दासे कृतागति' इत्यादौ । रूपकम् । एव । न तु । परिणामः । ननु 'यत् खिद्यते' इत्यग्रिमग्रन्थस्वारस्येन पादभेदन कार्य्यस्य प्रस्तुतत्वे कथं न परिणामः, प्रतिज्ञामात्रेण कार्य्यस्यासिद्धः; इत्याशङ्कय हेतुनिर्देशेन उक्तमेवार्थमुपपादयति-आरोप्यमाणकण्टकस्योपमानभूतस्य कण्टकस्य । पादभेदनकाय॑स्य । अप्रस्तुतत्वात् प्रस्तुतातिरिक्तस्वात् । 'मानभङ्गस्यैव प्रस्तुतत्वाच्चे'ति शेषः । अयम्भावः-'दासे कृतागसी'त्यादौ उपमानभूताः कण्टकाः, उपमेयभूताश्च पुलकाङ्कुरा इति उपमानस्योपमेयतया प्रकृते परिणामस्वीकारे पादभेदनकाय॑ प्रस्तुतं न वक्तुं शक्यम् । तस्य कार्यस्य उपमेयस्यैवोपमानतया परिणामे उपपत्तेः । पुलकाङ्कुरा हि नायकस्य नायिकायामनुरागसत्त्वे एव सम्भवन्तीति सुविदितचरं रसिकानाम् । अतः-पुलकाङ्कुराणां कार्य्यमनुनयावेदनम्, तद् यदि कण्टककार्यत्वेनाभिहितमभपिष्यत् तर्हि प्रस्तुतमिति व्यपदिष्टमपि, न च तथा; स्फुट तत् 'दासे कृतागसी'त्यादौ रूपकमेव नतु परिणामः । इति । ननु प्रस्तुतघटकस्यापि कार्य्यस्योपचारेण प्रस्तुतत्वोपपत्तौ पादभेदनस्यापि प्रस्तुतत्वमङ्गीक्रियतां को दोष इत्याशङ्कयाह-न । खल। तत् कण्टकानां पादभेदनकार्यम् । कस्पचित । अपि 'किं पुनः सर्वप्रकारस्य'ति शेषः । प्रस्तुतकार्यस्य । घटनार्थमुपपादनाय । अनुसन्धीयते प्रतीयते । इदमुक्तम्-प्रस्तुतकार्य ह्यनुनयनम् , तस्य घटकं न पादभेदनमित्यस्याप्रस्तुतत्वमेव । इति । अस्य भेदान्तरं निर्दिशति-अयमित्यादिना । स्पष्टम् ।
उदाहरति-यथा-'यत्र यस्मिन् हिमालये इति यावत् । रजन्यां निशायाम् । दरीगृहोत्सङ्गनिषक्तभासो दर्यो गर्ता एव गृहास्तेषामुत्सङ्गालक्षणयाऽभ्यन्तरभागास्तेषु निषक्ता नितान्तमासक्ता भासः प्रकाशा यासां तास्तथा. भूताः । 'दरी तु कन्दरो वा स्त्री' 'गृहाः पुंसि च भूमन्योव' इति चामरः । ओषधयः। वनितासखानां वनिता एव सखायो येषां ते तथोक्ताः । वनेचराणाम् । अतैलपूर। न तैलपूरो यत्र तथोक्तास्तैलमन्तरैव ज्वलनशीलाः । सुरतप्रदीपाः। भवन्ति । स हिमालय' इति पूर्वेणान्वयः। कुमारसम्भवस्येदं पद्यम्। उपेन्द्रवज्राछन्दः ॥ १२०॥'
लक्षणीय निर्दिशति-अबेत्यादिना । स्पष्टम् । अयं च ध्वन्यमानोऽपि सम्भवति । तत्र शब्दशक्तिमूलो यथा'पान्थ ! मन्दमते ! किं वा सन्तापमनुविन्दसि । पयोधरं समाशास्त्र येन शान्तिमवाप्नुयाः ॥' अत्र 'पयोधर' शब्दमूलः पयोधरे पयोधरतया तापशमनकार्योपयोगिता पयोधरशब्दशक्तिमूला ध्वन्यते । अर्थशक्तिमूलो यथा-'इन्दुना परसौन्दर्य. सिन्धुना बन्धुना विना । ममायं विषमस्ताप: केन वा शमयिष्यते ॥' अत्र वक्तुः प्रियया विरहितत्वेन प्रियावदनाभिन्नत्वेनेन्दुरभिव्यज्यतेऽभिप्रेतः ।
एवं परिणाम लक्षयित्वा सन्देहं लक्षयति-१११प्रकत उपमेये उपमाने वा । अन्यस्याप्रकृतस्योपमेयस्योपमानस्य वेति यावत् । प्रतिभोत्थितः प्रतिभया विलक्षणया बुद्धयोपचारात्तामुपपद्य कवेरुदभूतया प्रौढोक्त्योत्थित उत्थापित इति तथोक्तः। णिजोऽन्तर्भावे रूपमिदम् । संशयोऽनिश्चयश्च । सन्देहः सन्देहोऽस्मिन्नस्तीति तथोक्तः। अत एवास्य 'ससन्देह' इति संज्ञाऽन्तरम् । इदं तत्त्वम्-कविना यदि स्वप्रौढोक्स्योत्थापित उपमेये उपमानस्य उपमाने उपमेयस्य वा