________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
आरोप्यमाणस्यारोप विषयात्मतय' परिणमनात् परिणामः । यथा
'स्मितेनोपायनं दूरादागतस्य कृतं मम । स्तनोपपीडमाश्लेषः कृतो द्यूते पणस्तया ॥ ११९ ॥' अन्यत्र उपाय पणौ वसनाभरणादिभावेनोपयुज्येते, अत्र तु नायकसम्भावनद्यूतयोः स्मिता श्लेषतया । प्रथमाधे वैषधिकरण्येन प्रयोगः, द्वितीये सामानाधिकरण्येन । रूपके' मुखचन्द्रं पश्यामि' इत्यादावारोप्यमाणचन्द्रादेरुपरकतामात्रम्, नतु प्रकृते दर्शनादावुपयोगः । इह तूपायनादेर्विषयेण तादात्म्यं प्रकृते च नायकसम्भावनादावुपयोगः । अत एव रूप के आरोप्यस्यावच्छेद
१९९
I
अस्यान्वर्थं नामेत्याह-आरोप्यमाणस्येत्यादिना । स्पष्टोऽर्थः । इदमभिहितम् - यत्र खलूपमानं स्वतः प्रकृतेऽनुपयुज्यमानं सदुपमेयात्मतया परिणमत् प्रकृत उपयुज्यते स परिणामः, रूपके तु उपमेयस्योपमानात्मतया परिणमनम्, न त्वत्रेवोपमानस्योपमेयात्मतया, अत एवानयोर्भेदः । किञ्च रूपके उपमानेनोपमेयस्योपादेयत्वम्, अत्र पुनस्तद्वैपरीत्यम् । तथा च- 'मुखं चन्द्रो राजते' इत्यत्रेव 'चन्द्रो मुखं राजते' इत्यत्रापि रूपकम् | 'मुखेन चन्द्रेण चुम्ब्यते' इत्यत्रेव ' चन्द्रेण मुखन चुम्ब्यते' इत्यत्रापि परिणामः पूर्वत्रोपमानस्य चन्द्रस्य आत्मतया परिणतं मुखरूपमुपमेयं राजनोपयोगितां धत्ते, परत्र तूपमेयस्य मुखस्यात्मतया परिणतं चन्द्ररूपमानं चुम्बनोपयोगितां धत्ते । ननु तर्हि 'मुखं चन्द्रं पश्यामि', 'मुखचन्द्रं पश्यामि' 'चन्द्रं मुखं पश्यामि' 'चन्द्रमुखं पश्यामि' इत्यादौ रूपकं परिणामो वा, दर्शनकम्र्मोपयोगितायामुभयो: सामान्येन परिणतत्वात् इति चेत्, रूपकमेव ' मुखं चन्द्र:' 'मुखचंद्र' इत्यादेः श्रवणानन्तरं रूपकावगाहिन्या विच्छित्तेस्तत्र कर्म्म ताssपादनपुरःसरं 'पश्यामी' त्यादिना दर्शनादिक्रिययाऽन्वयोपपादनेऽपि विरूपत्वानापत्तेः उपमानस्य प्राधान्येनोपयो - गिताभावाच्च एतेनात्र रूपक परिणामयोः सन्देहसङ्करं स्वीकुर्वन्तः प्रत्युक्ताः । अयं च परिणामोऽलङ्कारः सामानाधिकरण्ये वैयधिकरण्ये च सम्भवतीति द्विविधः । इति ।
सौकयैकत्रैव तद्भेदद्वयमुदाहर्तुमाह-यथा-तया सौन्दर्यादिना प्रसिद्धया नायिकयेति भावः । दूरात् । तस्य । मम । स्मितेन मृदुहसितेन । अभेदे तृतीया । उपायनमुपहारः । कृतम् । द्यूते द्यूतजये । स्तनोपपीडम् | क्रियाविशेषणमिदम् । आश्लेषः आलिङ्गनदानम् । पणः । कृतः । सखायं प्रति कस्यचित् स्वनायिका सौजन्यवर्णनपरोक्तिरियम् ॥ ११९ ॥
अत्र युक्त्या परिणामं समर्थयमानस्तद्वैविध्यं निर्दिशति - अन्यत्र नायकसम्भावनद्यूताभ्यां भिन्नस्थले । उपायनपणौ उपहारसमर्पणं पणनिधानं च । वस्त्राभरणादिभावेन । उपयुज्येते । अत्र । तु। नायकसम्भावन द्यूतयोः । स्मिताश्लेषतया 'उपहारपणावुपयुज्येते' इति शेषः । प्रथमार्धे वैयधिकरण्येव विभिन्नविभक्तिकत्वेन । प्रयोगः । द्वितीये उत्तरार्द्ध इत्यर्थः । सामानाधिकरण्येन समानविभक्तिकत्वेन 'प्रयोग' इति पूर्वतोऽन्वेति । तस्मात् क्रमाद्वयधिकरणस्समानाधिकरणश्च अत्र परिणाम इति भावः । यथा वा- 'अपारे संसारे विषमविषयारण्यसरणौ मम भ्रामं भ्राम विगलितविरामं जडमतेः । परिश्रान्तस्यायं तरणितनयातीर निलयः समन्तात्सन्तापं हरिनवतमालस्तिरयतु ॥ ' इति, अत्र हि उपमानभूतस्य तमाल स्योपमेयभूतभगवदात्मतयैव संसारतापतिरस्करण कर्तृत्वोपपत्तिरिति समानाधिकरणो ऽयम् । 'अहीनचन्द्रा लसताऽऽननेन ज्योत्स्नावती चापि शुचिस्मितेन । एषा हि योषा सितपक्षदोषा तोषाय केषां न महीतले स्यात् ॥' इति, अत्र चोपमेयभूताननस्मितयोरुपमानभूत चन्द्रज्योत्स्नयोश्च समानविभक्तिकत्वाभावात् परिणामो व्यधिकरणः । रूपकादस्य भेदमुपपादयति- 'मुखचन्द्रं पश्यामि' इत्यादौ । रूपके । आरोप्यमाणचन्द्रादेरारोप्यमाण उपमानभूतोऽसौ चन्द्रादिस्तस्य । उपमेये उपमानस्यैवारोपः कल्प्यते, न तूपमाने उपमेयस्येति बोध्यम् । उपरञ्जकतामात्रमुपमेयोत्कृष्टताद्योतकत्वमात्रम् । मात्रपदेनोपमेयतया परिणमनस्य व्यवच्छेदः । अत एवाह-न तु । प्रकृते 'मुखचन्द्रं पश्यामि इत्यादौ दर्शनाद्दौ उपमानस्योपमेयतया परिणतत्वावगम के दर्शनादिव्यापाराश्रयत्वे । उपयोगः । एवं रूपके उपमानोपमेययोरभंदारोपेऽपि उपमेयत उपमाने प्रकर्षस्थिति दर्शयित्वा परिणामे तद्वैपरीत्यं दर्शयति- वह परिणामे 'स्मितेने ' त्यादौ । तु । उपायनादेरुपायनभूतस्येति भावः । विषयेणोपमेयेन । तादात्म्यं तत्तया परिणत्वम् । एव प्रकृते उपमेयभूते । नायकसम्भावनादौ । उपयोगस्तत्तया परिणतत्वद्योतनम् । च । एवमुभयोर्भेदं दर्शयित्वाऽपि बोधसौलभ्याय फलितं निर्दिशति - अतः । एव । रूपके । आरोप्यस्योपमानस्य । अवच्छेदकत्वमा