Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 788
________________ २१० . साहित्यदर्पणः । [दशमः११६ गोपनीयं कमप्यर्थ द्योतयित्वा कथञ्चन ॥ ९१ ॥ ____ यदि श्लेषेणान्यथा वाऽन्यथयेत् साऽप्यपद्भुतिः ॥ श्लेषेण यथा-'काले धारिधराणामपतितया नैव शक्यते स्थातुम् ।। उत्कण्ठिताऽसि तरले नहिनहि सखि ! पिच्छिलः पन्थाः ॥ १३३ ॥' वक्तं शक्यम् । प्रकृतपदस्यारोपविषयपरतया निषिध्य विषयमित्यादिना क्वा'प्रत्ययफलं ब्रुवता भवतैव तत्र स्फुटीकरणात् । काव्यप्रकाशकृताऽपि 'प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपह्नुतिः । इति सूत्रं व्याचक्षाणेन 'उपमेयमसत्यं कृत्वा'इत्यादिना प्रकृतपदस्योपमेयपरतयैव व्याख्यानाच्च । प्राचीनमतसिद्धेयमपहृतिय॑ङ्गायत्वेनास्माभिरिहोच्यत इत्यपि कुशकाशावलम्बनमात्रम् । 'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम् ।' इति लक्षणं कुर्वता भवतैव तस्या बहिःकरणात् । एवमपि उक्तपद्ये कोऽलङ्कारो व्यङ्ग इति चेत् ! विच्छित्तिवैलक्षण्येऽतिरिक्तः (रूपकाख्यः) । अन्यथा त्वपह्नुति. रेवास्तु, लक्षणं तु तदा-'प्रसक्तयत्किञ्चिद्वस्तुनिषेधसामानाधिकरण्येन क्रियमाणवस्त्वन्तरारोपमेवापहृतित्वम् । 'इति प्राहुः, कौस्तुभकारास्तु-'वस्तुतस्तु-'मुख चन्द्र'इत्यादौ मुखत्वं धर्मितावच्छेदकीकृत्य चन्द्रतादात्म्यारोपस्यानुभवसाक्षिकत्वादभ्युपगमेऽपि प्रकृते पुण्डरीकाक्षभेदव्याप्यचक्राद्यभावस्य साधारणपुरुषधर्मस्य च चक्रादिभिरपसारणे साधारणपुरुष. निषेधमन्तरेण पुण्डरीकाक्षतादात्म्यस्य व्यञ्जयितुमशक्यत्वात तनिषेध आवश्यक इति दीक्षिताशयः ।' इत्याहुः । मर्मप्रकाशकाराः पुन:-'अत्रेदं चिन्त्यम्-दीक्षितैर्हि 'दण्डी तु अपहृतेः साधर्म्यमूलत्वनियममनादृत्य 'अपङतिरपगुत्य किञ्चिदन्यार्थसूचनम् । इति लक्षयित्वोदाजहार'न पञ्चेषुः स्मरस्तस्य सहस्र पत्रिणां यतः । चन्दनं चन्द्रिका मन्दो गन्धवाहश्च दक्षिणः ॥' इत्याद्युपक्रम्य त्वदालेख्ये'इत्यायुक्तमिति तदनुसारेणैव तत्रापहृतिध्वनिरुदाहृत इति न कञ्चिदहृदयङ्गमम् । प्रकाशविरोधोऽपि न, तत्रोपमेयपदस्य पदार्थोपलक्षणपरत्वात् । अन्यथा-'केसेसु बलामोडिअ तेण अ समरम्मि जअसिरी गहिआ। जह कंदराहिं विहरा तस्स दढं कंठअम्मि संठविआ ॥'इत्यत्र स्वयं न प्रपलाय्य गतास्तद्वैरिणोऽपि तु ततः पराभवं सम्भाव्य तान कन्दरा न त्यजन्तीत्यपहृतिय॑ज्यते'इति प्रकाशग्रन्थासङ्गतिः स्यादिति बोध्यम् ।' इति समादधते । इति । , प्रकरान्तरेणैनां लक्षयति-११६ कमपि । गोपनीयमप्रकाश्यम् । अर्थ प्रयोजनम् । कथश्चन प्रमादादिवशात् । द्योतयित्वा प्रकाश्य। यदि 'अथ कस्यचिद् भीत्ये'ति शेषः । श्लेषेण । अन्यथा प्रकारान्तरेणाश्लेषेणेति यावत् । वा । अन्यथयेत् अभिप्रायान्तरेणासङ्गमयेत् । 'प्रथयेत् ।' इति पाठान्तरम् । सा। अपि । अपहुतिः। अयम्भाव:-यं कमपि खभावतो गोपनीयमप्यर्थ यदि प्रमादादिवशात् गोपायितुं न शक्नुयात्, तं प्रकाश्यापि श्लेषमहिना कारणान्तरपरतया सङ्गमय्य परकर्तकतत्कर्मकप्रबोधपरायणतामपह्लवीत सा द्वितीयप्रकाराऽपह्नुतिः । इति ॥ ९१॥ एवं द्विविधाऽप्येषा तत्राद्या तावदुदाहियते-श्लेषेण । यथा-'वारिधराणां मेघानाम् । काले समये । वर्षासमय इति फलितोऽर्थः ।' अपतितया न पतिर्मदनज्वालाप्रशमितृतया रक्षको यस्यास्तस्या भावस्तत्ता तया । स्थातुमवस्थातुम् । नैव । शक्यते । मदनोद्दीपकस्याऽस्य समयस्य सहाय्येन प्रचण्डतरतां प्रतिपन्नेन स्वभावतो वियोगिनीजनान्तकेन मदनेन पीड्यमानाऽहमिति पत्युश्च परदेशगततया तथाभूतस्यान्यस्य कस्यचित्तरुणवर आश्रयमन्तरा न मम जीवनास्था सम्भवति इति भावः । एवं प्रस्फुटमर्थ बुद्धा तत्सखी पृच्छति-हे तरले चञ्चले पातिव्रत्यतो भ्रश्यमानचित्ते इति यावत् । उत्कण्ठिता 'परसङ्गस्येति शेषः । उत्कण्ठिताऽभिलाषिणी । भसि (अत्र काकुः, अत:-'कि'मित्यर्थो लभ्यते) एवं सख्या ज्ञातमपि तथ्यं भावमपह्नोतुमाह-नहिनहि (सम्भ्रमे द्विरुक्तिरियम् ) हे सखि ! 'यथा तयाऽऽशङ्कयते तथा न, किन्त्वि'ति भावः । पन्थाः । पिच्छिल: 'कर्दमातिशया'दिति शेषः । अतः-'अपतितया' इत्यस्य पतितत्वमन्तरेति भावः । अत्र 'अपतितयेति श्लिष्टम् । आाछन्दः ॥ १३३॥ १ 'केशेषु बलात्कारेण तेन च समरे जयश्रीहीता। यथा कन्दराभिर्विधुरास्तस्य टुढं कण्ठे संस्थापिताः ॥' इति संस्कृतम्।

Loading...

Page Navigation
1 ... 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910