Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 781
________________ परिच्छेदः ] afararer व्याख्या समेतः । अप्रतिभोत्थापिते तु 'स्थाणुर्वा पुरुषो वा' इत्यादिसंशये नायमलङ्कारः । 'मध्यं तव सरोजाक्षि ! पयोधरभरार्दितम् । अस्ति नास्तीति सन्देहः कस्य चित्ते न जायते ॥ १२४ ॥ ' इत्यत्रातिशयोक्तिरेव, उपमेय उपमानसंशयस्यैव एतदलङ्कारविषयत्वात् । ११३ साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान् प्रतिभोत्थिता ॥ ८९ ॥ यथा- 'मुग्धा दुग्धधिया गवां विदधते कुम्भानधो बल्लवाः, कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि । कर्कन्धूफलमुच्चिनोति शवरी मुक्ताफलाकाङ्क्षया, सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका ॥ १२५ ॥' २०३ अथालङ्कारान्तरतोऽस्य व्यावृत्तिं दर्शयितुमाह-अप्रतीत्यादि । स्पष्टम् । उदाहरति- 'हे सरोजाक्षि ! पयोधरभरादितं पयोधरयोर्भरो भारस्तेनार्दितं पीडितम् । तव । मध्यमुदरम् । अस्ति । न 'वे'ति शेषः । अस्ति । इति इत्येवम् । सन्देहः । कस्य । चित्ते । न । जायते सम्भवति । अपि तु सर्वस्यैवेति भावः ॥ १२४ ॥ अत्र लक्ष्यं निर्दिशति- इत्यत्रोदाहृते पचे इत्यर्थः । अतिश्योक्तिः । एव । 'नतु सन्देहः' इति शेषः । कुत इत्याह-उपमेये । उपमानसंशयस्य । एव । एतदलङ्कारविषयत्वात्सन्देहालङ्कारजीवातुत्वात् । अत्र च तदभा वान्नायमिति भावः । अत्रेदम्बोध्यम्- 'सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थितः । ' इति सूत्रं 'प्रकृते उपमेयेऽन्यस्योपमानस्ये'त्यनुसङ्गमय्य 'उपमेयोपमानसंशयस्यैव' इत्यु 'पमेये उपमानसंशयस्यैवे 'ति तु व्याख्यानं नोपयुक्तम्, 'आहो खिन्मुखमवभासते तरुण्या' इत्युदाहृतो ग्रन्थकृतोऽभिप्रायाननुकूलत्वात् । अत एवाहुर्नवालङ्कारसूत्रकारा: "ये तु उपमेये धर्मिण्युपमानसंशयं सन्देहालङ्कारं वदन्तः 'किं तावत्... ॥' इति निश्चयान्तसन्देहस्योदाहरणमाहुः । तेषां कथं न पूर्वापरविरोध इति त एव । अत्र खलु एकस्मिन् धर्मिण्युपमानमुपमेयं चालम्ब्य संशयो वर्णितः । न त्वयमुपमेये धर्मिण्युपमानसंशयः । न ह्येककोटिकः संशयो भवति ।" इति । यच्चामी अपि - 'उपमानस्योपमेये संशयः सन्देहः' इति सूत्रयित्वा 'किमिन्दुः, किं पद्म, किमु मुकुरबिम्बं किमु मुखम् इत्युदाहृतवन्त इति 'किमु मुखम्' इत्यादौ उपमेये उपमानसं - - शयाभावात् स्वयं प्रष्टव्याः । एतेन - 'प्रकृते तदन्यविषया सादृश्यज्ञानजन्या या बुद्धिर्निश्चयभिन्ना तामाचख्युः ससन्देहम् ॥' इत्युक्त्वा 'उपमेये उपमानविषयकः संशयः ससन्देह इत्यर्थः । इत्याचक्षाणा अपि दत्तोत्तराः । संशयश्चात्र निश्चयानवगाहिनी बुद्धि:, नतु नानाकोटिका बुद्धिः 'किं तावत्...' इत्युदाहरणासङ्गतेः । न चास्त्विति वाच्यम्, प्राचां सिद्धाततोऽनेकत्र विरोधापत्तेः । अत एव 'बुद्धिर्निश्चयभिन्ना' इत्यलङ्कारकौस्तुभकारा अपि संशयपदार्थमभिहितवन्तः । इति दिक् । भ्रान्तिमन्तं लक्षयति - ११३ साम्यात् सादृश्यात् । अतस्मिन्न तदिति तस्मिंस्तथोक्ते । प्रतिभोत्थिता प्रतिभोत्थापिता कविप्रौढोक्तिसिद्धेति यावत् । तद्बुद्धिस्तस्य बुद्धिर्निश्चय इति तथोक्ता । भ्रान्तिमान्। अयम्भावः-कमले कमलबुद्धिस्तस्मिंस्तद्बुद्धिः, वदने कमलबुद्धिरतस्मिंस्तद्बुद्धिः, एषैव भ्रमः । संशयस्तु उभयत्रानिश्चितबुद्धयाकारो भवति । अत एव - सन्देहभ्रान्तिमतोर्भेदः । भ्रमापरपर्य्याया चातस्मिंस्तद्बुद्धिरियं यदि प्रतिभोत्थापिता स्यात्तदा भ्रान्तिमान् । नच रूपकेऽतिशयोक्तौ वाऽतिव्याप्तिः, तयोरभेदस्याहार्थ्यरूपत्वात् भ्रमस्य चाहाभिन्नत्वात् । नहि तत्र साम्यादतस्मिंस्तद्बुद्धिर्भवति, किन्तु - कविनैवाभेदेन तथा वर्ण्यते । इति ॥ ८९ ॥ उदाहरति-यथा-'मुग्धा अप्रौढाः । बल्लवा गोपाः । दुग्धधिया दुग्धमिदमिति निश्चयेन । गवाम् । अधः । कुम्भान् दोहनपात्राणि । विदधते कुर्वन्ति । कान्ताः । अपि 'मुधा' इति पूर्वतोऽनुषज्यते । कैरवशङ्कया कैरव (कुमुद) मिदमिति भ्रमेण । 'सिते कुमुदकैरवे' इत्यमरः । कुवलयं नीलाब्जम् । 'श्यामं शिति - कण्ठनीलं कुवलयमिन्दीवरं च नीलाब्जम् ।' इति नाममाला । कर्णे । कुर्वन्ति । शवरी भिल्ली । 'मुग्धा' इत्यनुष

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910