Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 764
________________ [ दशमः १८६ ... साहित्यदर्पणः। - ९७ उपमानोपमेयत्वमेकस्यैव त्वनन्वयः ॥७९॥ अर्थादेकवाक्ये यथा'राजीवमिव राजीवं जलं जलमिवाजनि । चन्द्रश्चन्द्र इवातन्द्रः शरत्समुदयोद्यमे ॥१०१॥' अत्र राजीवादीनाममन्यसदृशस्वप्रतिपादनार्थमुपमानोपमेयभावो वैवक्षिकः । 'राजीवमिव पाथोजम्' इति चास्य लाटानुप्रासाद्रिवितो विषयः । किन्तु अत्र, उचितत्वादेकशब्दप्रयोग एव श्रेयान् । तदुक्तम् 'अनन्धये च शब्दैक्यम् औचित्यादानुषङ्गिकम् । अस्मिल्लाटानुप्रासे तु साक्षादेव प्रयोजकम् ॥१०२॥' इति । समरोस्थानि तच्छोणितनटीष्विव ॥' इति समुच्चितोपमा, 'न पद्मं मुखमेवेदं न भृङ्गौ चक्षुषी इमे । इति विस्पष्टसादृश्या. सत्त्वाख्यानोपमैव सा ॥' इत्यक्ता तत्त्वाख्यानो"मा, 'उद्गर्भहणतरुणीरमणोपमर्दभग्नोन्नतस्तननिवेशनिभं हिमांशोः । बिम्ब कठोरबिसकाण्डकडारमेतद्विष्णोः पदं प्रथममप्रकरैर्व्यनक्ति ॥' इत्यप्रसिद्धोपमानोपमा, 'सद्यो मुण्डितमत्तहणचिबुकप्रस्पधि नारकम् ।' इति कल्पितोपमा; इत्यनेकशः किञ्चिद्वैचित्र्यविशेषा उपमाः । काव्यप्रकाशकृता तु-एकदेशविवर्तिन्यादया स्त्रयोऽपि नोदिता भेदाः । इति दिक् ॥१०॥ एवमुपमा निरूप्यानन्वयं निरूपयति-९७ उपमेत्यादिना । ९७ एकस्य प्रकृतस्य वर्णनीयस्य । एव 'वस्तुन' इति शेषः। उपमानोपमेत्वमुपमामत्वमुपमेयत्वं च । तु (इदं पूर्वतो व्यवच्छेदसूचनार्थम् )। अनन्वयः । अयम्भाव:-न विद्यतेऽन्वय उपमानान्तरेण सम्बन्धो यत्र सोऽमन्वयः । अत एवोक्तम्--'द्वितीयसहशव्यवच्छेदफलकवर्णनविषयीभूतं यदेकोपमानोपमेयकं सादृश्यं तदनन्वयः।' इति ॥७॥ ननु-एवमुपमेयोपमादावतिव्याप्ती क उद्धारोपाय इत्याशङ्कय स्वयमाह-अर्थादित्यादि । स्पष्टम् । एतेन-यत्र वाक्यैक्ये सति यद्यविच्छिन्नप्रतियोगिताकं सादृश्यं तत्र तद्धर्मावच्छिन्नतदनुयोगिताकत्वमनन्वयत्वम् । एतेनोपमेयोपमारसनोपमाऽऽदौ अतिप्रसङ्गो निरस्तः । अत्राहुर्विवृतिकारा:-'ननूपमेयोपमाया द्वयोः' इत्युपादामात् कथमतिव्याप्तिरिति चेत् । म, तत्र-प्रत्येकपदार्थस्यापि पर्यायेणोपमानोपमेयसम्भवात्' इति। . उदाहरति-यथा-'राजीवमिवेत्यादि । - 'शरत्खमुदयोद्यमे शरदः समुदयं समुल्लासं यथा भवेत्तथोद्यम इति तस्मिंस्तथोक्त । 'सती'ति शेषः । राजीव मिव कमलमिव । 'राजीवं नलिने, ना तु भेदे मीनकुरङ्गयोः।' इति गोपालः । राजीवम् । जलमिव । जलम् । भजनि । तथा-चन्द्रः । इव । अतन्द्रोऽम्लानः । चन्द्रः। 'अजनीति पूर्वतोऽन्वेति ॥१०१॥ लक्षणं सङ्गमयते-अवेत्यादिना। अत्र । राजीवादीनाम् । अनन्यसदृशत्वप्रतिपादनार्थम् । वैवक्षिको विवक्षया प्रतिपादितः । उपमानोपमेयभावः। - ननु लाटानुप्रासादस्य कथं व्यवच्छेद इत्याशङ्कयाह-राजीव'मित्यादि । 'राजीवमिव । पाथोज पाथो जलं तस्माज्जायत इति तथोक्तम् । कमलमित्यर्थः ।' इति । ‘एवंविधस्येति । शेषः । च । अस्य । लाटानुप्रासातविविक्तः। विषयः । अयम्भावः-लाटानुप्रासो हि-तात्पर्यमावतो भेदे शब्दै। क्ये, अयं तु तात्पर्यतोऽभेदे शब्दभेदेऽपि सम्भवतीति । ननु कथं शब्दैक्ये उदाहियते-इत्याशङ्कयाह-किन्तु । अत्राअनन्वये । उचितत्वाचमत्कारविशेषकत्वात् । एकशब्दप्रयोगः एकविधशब्दप्रयोगः । एव । श्रेयान् । ननु किंमत्र नियामकमित्याह-तत् तथा । उक्तम् 'आचाय' रिति शेषः।। 'अन्वये । च । औचित्यात् । शब्दैक्यम् । आनुषङ्गिकमनुषङ्गतः प्राप्तमनियतमिति यावत् । . अस्मिन् । लाटानुप्रासे । तु । 'शब्दैक्य'मिति पूर्वतोऽन्वेति । साक्षात स्वयम् । एव । प्रयोजकमुपस्कारकम' सारत्वाचावकमिति यावत् ॥' इति । यथा पा-'इयति प्रपञ्चविषये तीर्थानि कियन्ति सन्ति पुण्यानि । परमार्थती

Loading...

Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910