________________
[ दशमः
१८६
... साहित्यदर्पणः। -
९७ उपमानोपमेयत्वमेकस्यैव त्वनन्वयः ॥७९॥ अर्थादेकवाक्ये यथा'राजीवमिव राजीवं जलं जलमिवाजनि । चन्द्रश्चन्द्र इवातन्द्रः शरत्समुदयोद्यमे ॥१०१॥'
अत्र राजीवादीनाममन्यसदृशस्वप्रतिपादनार्थमुपमानोपमेयभावो वैवक्षिकः । 'राजीवमिव पाथोजम्' इति चास्य लाटानुप्रासाद्रिवितो विषयः । किन्तु अत्र, उचितत्वादेकशब्दप्रयोग एव श्रेयान् । तदुक्तम्
'अनन्धये च शब्दैक्यम् औचित्यादानुषङ्गिकम् । अस्मिल्लाटानुप्रासे तु साक्षादेव प्रयोजकम् ॥१०२॥' इति ।
समरोस्थानि तच्छोणितनटीष्विव ॥' इति समुच्चितोपमा, 'न पद्मं मुखमेवेदं न भृङ्गौ चक्षुषी इमे । इति विस्पष्टसादृश्या. सत्त्वाख्यानोपमैव सा ॥' इत्यक्ता तत्त्वाख्यानो"मा, 'उद्गर्भहणतरुणीरमणोपमर्दभग्नोन्नतस्तननिवेशनिभं हिमांशोः । बिम्ब कठोरबिसकाण्डकडारमेतद्विष्णोः पदं प्रथममप्रकरैर्व्यनक्ति ॥' इत्यप्रसिद्धोपमानोपमा, 'सद्यो मुण्डितमत्तहणचिबुकप्रस्पधि नारकम् ।' इति कल्पितोपमा; इत्यनेकशः किञ्चिद्वैचित्र्यविशेषा उपमाः । काव्यप्रकाशकृता तु-एकदेशविवर्तिन्यादया स्त्रयोऽपि नोदिता भेदाः । इति दिक् ॥१०॥
एवमुपमा निरूप्यानन्वयं निरूपयति-९७ उपमेत्यादिना ।
९७ एकस्य प्रकृतस्य वर्णनीयस्य । एव 'वस्तुन' इति शेषः। उपमानोपमेत्वमुपमामत्वमुपमेयत्वं च । तु (इदं पूर्वतो व्यवच्छेदसूचनार्थम् )। अनन्वयः । अयम्भाव:-न विद्यतेऽन्वय उपमानान्तरेण सम्बन्धो यत्र सोऽमन्वयः । अत एवोक्तम्--'द्वितीयसहशव्यवच्छेदफलकवर्णनविषयीभूतं यदेकोपमानोपमेयकं सादृश्यं तदनन्वयः।' इति ॥७॥
ननु-एवमुपमेयोपमादावतिव्याप्ती क उद्धारोपाय इत्याशङ्कय स्वयमाह-अर्थादित्यादि । स्पष्टम् । एतेन-यत्र वाक्यैक्ये सति यद्यविच्छिन्नप्रतियोगिताकं सादृश्यं तत्र तद्धर्मावच्छिन्नतदनुयोगिताकत्वमनन्वयत्वम् । एतेनोपमेयोपमारसनोपमाऽऽदौ अतिप्रसङ्गो निरस्तः । अत्राहुर्विवृतिकारा:-'ननूपमेयोपमाया द्वयोः' इत्युपादामात् कथमतिव्याप्तिरिति चेत् । म, तत्र-प्रत्येकपदार्थस्यापि पर्यायेणोपमानोपमेयसम्भवात्' इति। . उदाहरति-यथा-'राजीवमिवेत्यादि । - 'शरत्खमुदयोद्यमे शरदः समुदयं समुल्लासं यथा भवेत्तथोद्यम इति तस्मिंस्तथोक्त । 'सती'ति शेषः । राजीव मिव कमलमिव । 'राजीवं नलिने, ना तु भेदे मीनकुरङ्गयोः।' इति गोपालः । राजीवम् । जलमिव । जलम् । भजनि । तथा-चन्द्रः । इव । अतन्द्रोऽम्लानः । चन्द्रः। 'अजनीति पूर्वतोऽन्वेति ॥१०१॥
लक्षणं सङ्गमयते-अवेत्यादिना।
अत्र । राजीवादीनाम् । अनन्यसदृशत्वप्रतिपादनार्थम् । वैवक्षिको विवक्षया प्रतिपादितः । उपमानोपमेयभावः। - ननु लाटानुप्रासादस्य कथं व्यवच्छेद इत्याशङ्कयाह-राजीव'मित्यादि ।
'राजीवमिव । पाथोज पाथो जलं तस्माज्जायत इति तथोक्तम् । कमलमित्यर्थः ।' इति । ‘एवंविधस्येति । शेषः । च । अस्य । लाटानुप्रासातविविक्तः। विषयः । अयम्भावः-लाटानुप्रासो हि-तात्पर्यमावतो भेदे शब्दै। क्ये, अयं तु तात्पर्यतोऽभेदे शब्दभेदेऽपि सम्भवतीति । ननु कथं शब्दैक्ये उदाहियते-इत्याशङ्कयाह-किन्तु । अत्राअनन्वये । उचितत्वाचमत्कारविशेषकत्वात् । एकशब्दप्रयोगः एकविधशब्दप्रयोगः । एव । श्रेयान् । ननु किंमत्र नियामकमित्याह-तत् तथा । उक्तम् 'आचाय' रिति शेषः।।
'अन्वये । च । औचित्यात् । शब्दैक्यम् । आनुषङ्गिकमनुषङ्गतः प्राप्तमनियतमिति यावत् । . अस्मिन् । लाटानुप्रासे । तु । 'शब्दैक्य'मिति पूर्वतोऽन्वेति । साक्षात स्वयम् । एव । प्रयोजकमुपस्कारकम' सारत्वाचावकमिति यावत् ॥' इति । यथा पा-'इयति प्रपञ्चविषये तीर्थानि कियन्ति सन्ति पुण्यानि । परमार्थती