________________
परिच्छेदः ]
इचिराणवया न्यायवा समेतः । यथा-'वारिजेनेव सरसी शशिनेव निशीथिनी । यौवनेमेव वनिता नयेन श्रीमनोरमा ॥ ९८॥' क्वचिदुपमानोपमेययोर्द्धयोरपि प्रकृतत्वं दृश्यते ।
'हंसश्चन्द्र इवाभाति जलं व्योमतलं यथा । विमला: कुमुदानीव तारकाः शरदागमें ॥ ९९ ॥' 'अस्य राज्ञो गृहे भान्ति भूपानां ता विभूतयः । पुरन्दरस्य भुवने कल्पवृक्षभवा इव ॥१००॥'
इत्यत्र-उपमेयविभूतिभिः 'कल्पवृक्षभवा इव' इत्युपमानभूता विभूतय आक्षिप्यन्ते इत्याक्षेपोपमा, अत्रैव 'गृहे' इत्यस्य 'भवने' इत्यनेन प्रतिनिर्देशात् प्रतिनिर्देश्यात्मा। इत्यादयश्च न लक्षिताः, एवंविधवैचित्र्यस्य सहस्रधा दर्शनात् ।
उदाहरति-यथा-'वारिजेन कमलेम सरसी। इव । यद्वा-सरसी। वारिजेनेव कमलेमेव । शशिना चन्द्रेण। निशीथिनी रात्रिः । इव । यद्वा-निशीथिनी। शशिनेव । यौवनेन तारुण्येन । वनिता कान्ता । इव। यद्वावनिता । यौवनेवेत्यन्वयः। श्रीः सम्पत् । नयेन । यद्वा-नयेन । श्रीरित्यन्वयः । मनोरमा ॥' इदम्बोध्यम्-अत्र प्रथम पक्षे सरस्थादय उपमानभूताः, श्री: पुनरुपमेयभूता, द्वितीये पक्ष-वारिजादीनामुपमानत्वम्, नयस्योपमानत्वम् । एवमुभयथाऽपि उपमेयैक्येऽपि उपमानानैक्यम्। सरस्यादीनामुपमानत्वे मनोरमत्वं धर्मः, वारिजादीनामुपमानत्वे चेवस्व नित्यसमा. सत्वं सङ्गच्छते यथा वा-"ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम् । प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी ॥” इति । अत्र च नेत्रानन्दजननादयो विभिन्नाः सादृश्यहेतवो धाः, पूर्वत्र मनोहरत्वमेको धर्म इति भेदः। इति ॥ ९८॥
अस्या अपि प्रभेदं निर्देष्टमुपक्रमते-क्वचित् । द्वयोः। अपि । उपमानोपमेययोः । प्रकृतत्वम् । इदम. वगमयति-'उपमेयस्य प्रकृतित्वमुपमानस्याप्रकृतत्वमिति प्रवादः प्रायिकः । प्रकृतत्वं च वर्णनीयस्योत्कर्षांधायकत्वेनाकाङ्क्षितत्वम् । इति । दृश्यते' यथा-'हंसः। चन्द्र । इव । आभाति । यथा व्योमतलं व्योम । अत्र तलशब्दः स्वरू. पवाचकः । 'तथेति शेषः । जलम् । शरदागमे शरदः प्रारम्भ । तारकाः। कुमुदानीव । विमलाः। 'स्परन्तीति पाठान्तरं साधु, भिन्नलिङ्गत्वेऽपि अन्वयोपपत्तेः ॥ ९९॥
एतच दिग्दर्शनमित्यभिप्रायेणाह-'अस्य । राज्ञः। गृहे प्रासादे । भूपानां राजान्तरान्तराणाम् । ताः। विभू. तयः। भान्ति । 'याः' इति शेषः । पुरन्दरस्य देवेन्द्रस्य । भवने प्रासादे । कल्पवृक्षभवाः । इवः। 'स्थिता' इति शेषः । - इत्यत्र । उपमेयविभूतिभिः प्रकृतस्य राज्ञो भवने विद्यमामामिः सम्पद्भिः । 'कल्पवृक्षभवा इब' इत्युपमानभूताः । विभूतयः । आक्षिप्यन्ते वलात्सादृश्यप्रतियोगिन्यः क्रियन्ते । इत्याक्षेपोपमा । तथा-अत्र । एव । 'गृहे' इत्यस्य । 'भवने' इत्यनेन । प्रतिनिदेशात् । त्यबर्थेयं पञ्चमी । प्रतिनिर्देश्यात्मा 'उपमे'ति शेषः । अयम्भावः-यथा-इन्द्रस्य भवने यथाऽभिलाषं सम्पदः सृजतां कल्पपादपानां सम्पाद्याः सम्यदः:सर्वतो विलसन्ति, एवम् अस्य नृपतेः समन्यपि कामं समर्पयमाणानां वश्यानां नृपतीनां विभुतयः । एवमिन्द्रविभूतय उपमानभूताः, प्रकृता विभूतय उपमेयभूताः । अत्र च-'ता' इत्यनेन विशेष्यतया निर्दिष्टानामुपमेयविभूतीनामुपमानविभूतयो विशेषणतां नीता एव सादृश्यप्रतियोगितयाऽऽक्षिप्यन्त इत्याक्षेपोपमेयम् । तथा-'राज्ञो गृहे' इति निर्दिश्य 'पुरन्दरस्व भुवने' इति प्रति. निर्देशात् उभयोः सादृश्यं निर्देश्य प्रतिनिर्देश्यात्मनाऽवस्थितमिति प्रतिनिर्दिश्यात्मेयमुपमा । इति । इत्यादयः । 'उपमाभेदा' इति शेषः । च । एवंविधवैचित्र्यस्य । सहस्रधा । दर्शनात् । न । लक्षिताः, 'किन्तु ते स्वय. मुहया' इति शेषः । तथा हि-'चन्द्रबिम्बादिव विष चन्दनादिव पावकः । परुषा वागितो वक्रानिःसरेन्मतिमन्मणे॥' इध्यसम्भावितोपमा, 'उभौ यदि व्योम्नि पृथक् प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनीलमामुक्तमुक्ता. लतमस्य वक्षः ॥' इति कविकल्पितोपमानोपमा 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसन्निपाते निमजतीन्दोः किरणेविवाङ्कः ॥' इत्युपपादकोपमा, 'इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु । रजांसि