________________
-
साहित्यदर्पणः।
.
[दशम:
अत्रोत्पलादीनां नेवादीनां सादृश्य वाच्यम्, सरः श्रीणां चाङ्गनासाम्पंगम्यम् । ९५ कथिता रसनोपमा । यथोर्द्धमुपमेयस्य यदि स्यादुपमानता ॥ ७८ ॥ यथा-'चन्द्रायते शुक्लरुचेह हंसो हंसायते चारुगतेन कान्ता।
__ कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः ॥ ९७.॥' ९६ मालोपमा यदेकस्योपमानं बहु दृश्यते ।
स्तवाचक इव शब्दश्चेत्येषां सद्भावादुपमैवात्र 'अङ्गना इव सरः श्रियः' इति शब्दानुपात्तमपि सादृश्यं प्रत्याययन्ती विवर्तात्मसामवलम्बते । इति ॥ ९६॥'
साम्यस्य वाच्यत्वव्यङ्गयत्वे एव निर्दिशति-अत्रेत्यादिना | स्फुटम् । . ननु-नेत्रादीनामुपमेयत्वेन प्रसिद्धानामुपमानत्वेनाभिधानमयुक्तमिति चेत्, उपमानोपमेयभावस्यानियतत्वं गृहाण, अत एव-'आदिमध्यान्तरहितं दशाहीनं पुरातनम् । अद्वितीयमहं वन्दे मस्त्रसदृशं हरिम् ॥' इत्यादौ भगवतोप्युपमेय. स्वाभिधानेऽप्युपमा सङ्गच्छते । यद्वा-अत्रैव-'नेत्रैरिन्दीवरैस्तुल्याः पुण्डरीकैरिवाननैः । स्तनैश्चकाङ्गवदम्यैस्तदाऽऽभुजवलभाः ॥' इति पाठं परिवर्त्य लक्षणीयेयम् । नात्र विशेषो विशेषः, किन्तु पूर्वत्र नेत्रादित्रयमुपमानस्योत्पलादित्रयमुपमयस्याङ्गम् । अत्र-इन्दीवरादित्रयमुपमानस्य नेत्रादित्रयमुपमेयस्याङ्गम् । अतः-इन्दीवरादिभिनेत्रादीनां साम्यं वाच्यम् , सरःश्रीभिर्बजाङ्गनानां पुनर्व्यङ्गयमिति विशेषः ।
प्रकारान्तरेणास्या एव भेदान्तरं निर्दिशति-९५यथोड़मर्द्धमूर्द्धम् । यदि । उपमेयस्योपमेयत्वेन प्रतिपादितस्य । उपमानता। स्यात् । तदे'ति शेषः । उपमा। रसना । कथिता । यथा खलु काञ्चीत्यपरनामधेयायां रसनायांपूर्वमधिगतायाः क्षुदघण्टिकायाः परया क्षुद्रघण्टिकया योजनावसरे पराश्रितत्वं सम्पाद्यते, तथैव-उपमायां पूर्वमभिधिगतस्योपमेयस्थ परेणोपमेयेन सादृश्योद्भावनावसरे उपमानत्वेन पराश्रितत्वमित्यन्वय रसनेति सझेति बोध्यम् ॥ ७८ ॥
उदाहरति-यथा-'इह स्वच्छजलाशये । हंसः जातावेकवचनम् । शुक्रुचा शुक्लया खकान्त्या । चन्द्रायते चन्द्र इवाचरतीत्यर्थः । 'कर्तुः क्यङ् सलोपश्च ।' ३।१।११ इति क्यङ् । एवं परत्रापि । कान्ता । चारुगतेन सुन्दरेण गमनेन । अत्र भावे क्तः । हलायते हंस इवाचरतीत्यर्थः । वारि जलम् । स्पर्शसुखेन सुखस्य स्पर्श इति तेन, सुख (आनन्द) कारिणा स्पर्शेन । राजदन्तादित्वात् परनिपातः । कान्तायते कान्तेवाचरति विहाय आकाशम् । 'पुंस्याकाशविहायसी।' इत्यमरः । स्वच्छतया निर्मलतया । वारीयते वारीवाचरति । कदाचित् निरुपद्रवावसरे हंससन्निहितं स्वच्छजलं जलाशयमुपयन्ती कामपि. कान्तामवलोकयमानस्योक्तिरियम् । इन्द्रवज्रावृत्तम् ॥ ९७ ॥'
इदम्बोभ्यम्-अत्र हि प्रथमं चन्द्र उपमानम् , हंस उपमेयम्, पुनः-हंस उपमानम् , कान्तोपमेयम्, कान्तोपमानम्, जलमुपमेयम्, जलमुपमामम्, आकाशमुपमेयमित्येवं परपराश्रयणेन रसनोपमत्वादियमुपमा रसना । एषैव क्वचित् साधारणधर्मस्य भेदे कचिदभेदे च सम्भवति, तत्राद्योदाहृता, अन्त्या यथा-'महीमृतो वदान्यस्य भारतीवामला मतिः । चेष्टामतिरिव खच्छा चेटेव गुणसन्ततिः॥' इति । अत्र हि स्वच्छत्वं शब्दमात्रेण भिन्नः साधारणो धर्मः। इयं च तद्धितसमासवाक्यगतत्वेन त्रिविधा । तत्राद्या मूलकृतोदाहृता, द्वितीयाऽस्माभिः । अथ तृतीया यथा-'यथा वाह्य सतां गूह्यं यथा गृह्य तथेहितम् । यथेहित विशुद्धं च यशः शश्वत्स्वभावतः ॥' इति दिक् ।
भेदान्तरं लक्षयति-९६ यद् यदि । एकस्य 'उपमेयस्य'ति शेषः । बहु । उपमानम्।दृश्यते। ती ति शेषः। उपमा । माझा । अयम्भावः-यथा माला सजातीयेरेव विजातीयरैव सजातीयविजातीयोभयविधैरेव वा कुसुमरलड़कियते, तथा-बहुभिबहुविधैरेव वोपमानैरलक्रियमारा मालासादृश्यान्मालेल्यपराभिधेयोपमा । इति ।
१अत्र विवृतिकारा आहुः-'बबित्येकाधिकपरम्। तेन-"ता हैसमालाः शरदीव गङ्गां महौषधीनक्तमिवात्मभासः। स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ॥" इत्यादावुपमाद्वयेऽपि मालात्वमक्षतम् ।' इति ।