________________
परिच्छेदः] रुचिराख्यया व्याख्यया समेतः ।
१८३ इत्यत्र श्मश्रुलैः' इत्यस्य 'सरघाव्याप्तैः' इति दृष्टान्तवत् प्रतिबिम्धनम् । शब्दमात्रेण भिन्नत्वे यथा
'स्मेरं निधाय नयनं विकसितमिव नीलमुत्पलं मयि सा।
कथयामास कृशाङ्गी मनोगतं निखिलमाकूतम् ॥ ९५॥' अत्र एके एव स्मरत्वविकसितत्वे प्रतिवस्तूपमावच्छन्देन निर्दिष्टे । ९४ एकदेशवित्तिन्यु-पमा वाच्यत्वगम्यते ॥ ७७॥
भवेतां यत्र साम्यस्य
यथा'नेरिवोत्पलैः पद्मर्मुखैरिव सरःश्रिय । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥ ९६॥' इलच् । शिरोभिर्मुण्डैः । सरघाव्याप्तैः सरघाभिर्मधुमक्षिकाभिर्व्याप्तास्तैः । 'सरघा मधुमक्षिका । इत्यमरः । क्षौद्रपटलैः क्षौद्रं मधु तस्य पटला उत्पत्तिस्थानविशेषास्तैः । इव । महीम् । तस्तार छादयामास । रघुवंश. स्येदं पद्यम् ॥ ९४ ॥
लक्ष्य सङ्गमयति-इत्यत्र । श्मश्रुलैः' इत्यस्य । 'सरघाव्याप्तः' इति 'अभिधान' मिति शेषः । दृष्टा मतवत् । प्रतिबिम्बनमभिन्नतया स्फुरणम् । अयम्भाव:-शिरसां श्मश्रुलत्वेन प्रतिपादनीयो धर्मः क्षौद्रपटलानसरघाव्याप्तत्वेन प्रतिपादितः, इदं च प्रतिपादनं मुखस्य दर्पणादौ प्रतीयमानत्वमिव- भिन्नत्वेऽपि साधारणधर्मस्यानुरूप. तानिरूपणपरम् ।
शब्दमात्रेण धर्मभेदमुदाहर्तुमुपक्रमते-शब्दमाणेत्यादिना । स्पष्टम् । 'स्मेर'मित्यादि।
'सा। कृशाङी कृशोदरी । अत्राङ्गपदेनोदरस्यैव विवक्षा, अन्यथा तस्याश्चारुत्वद्योतनासम्पत्तेः । विकसितम् । नीलम् । उत्पलम् । इव । स्मेरं विकासशालि । नयनं दृष्टिम् । जातावेकवचनम् । विधाय तेन निरीक्ष्य स्थिता । तेनैव-मनोगतं मनसि स्थितम् । निखिलं सर्वम् । आकूतमावेदनीयमर्थम् । मयि । कथयामास सूचयामास । लक्षणा तु तदतिशयद्योतनार्था । अत्रार्या छन्द :॥ ९५ ॥"
शब्दमात्रेण भेदं विस्पष्टयति-अत्र । स्मरत्वविकसितत्वे । एक तात्पर्यतोऽभिन्ने । एव । प्रतिवस्तूपमावत् प्रतिवस्तूपमायामिघ । शब्देन । 'भिन्नतये' ति शेषः । निर्दिष्टे निदर्शिते । 'अत्रैकमेव प्रफुल्लत्वं प्रतिवस्तूपमावद् विभिन्नाभ्यां स्मेरविकसितशब्दाभ्यां निर्दिष्टे' इति पाठान्तरेऽप्ययमेवार्थः । अत्र तर्कवागीशाः-“एकक्रियायाः शब्दभेदेनोपादाने यथा"प्रकाशते मुखं तस्याश्चन्द्रमा दीप्यते यथा ॥" नन्वत्र-वाक्यैक्याभावात् कथमुपमेति चेत् ! न, यथा-"अमावास्यायां श्राद्धं कुर्याद् रात्रौ श्राद्धं न कुर्यात्" इत्यत्र 'सम्भेदेनान्यतरवैयर्थ्य'मिति न्यायेन रात्रेरितरत्रा मावास्यायां श्राद्धं कुर्यादित्येकवाक्यत्वं, तथाऽत्रापि एकवाक्यत्वस्वीकारात् ।' इति ।
एवं शुद्धामुपमा निर्दिश्यास्या एव प्रकारान्तरेण भेदावतारं निर्देष्टुकाम एकदेशविवर्तिन्याख्यं भेदं तावत् निर्दिशति९४ एकेत्यादिना।
९४ यत्र यस्मिन् उपमाकाव्य इत्यर्थः। साम्यस्य साधय॑स्यावाच्यत्वगम्यते वाच्यत्वव्यङ्गयत्वोभयसाङ्कर्म्यम् । भवेताम्। 'से' ति शेषः । उपमा 'साम्यं वाच्यमवैधय॑ वाक्यैक्य उपमा द्वयोः ।' इति लक्षितस्वरूपा । 'एवे' ति शेषः । एकदेशविवर्तिनी । अयम्भाव:-'साम्यं वाच्य' मिति लक्षितोपमैव साम्यस्य वाच्यत्वगम्यत्वमात्रेण भिद्यमानैकदेशविवर्तिनीति गीयते । यत्रांशे साम्यस्य वाच्यत्वं तत्रास्याः सर्वात्मनाऽलङ्करणात् अन्यत्र च व्यज्यमानत. येति स्फुटमेकदेशविवर्तनशीलत्वम् । अत एवेयम्-एकदेशविवर्तिरूपकवत् साङ्गस्याङ्गिनः सादृश्य एव सम्भवति.। एकदेशे विवर्त्तत इत्येवं शीलमस्या अस्तीत्यन्वर्थयं सञ्ज्ञा च । इति ॥ ७७ ॥ ___उदाहरति यथा-यथा-'नेवैरिव । उत्पलैः कमलैः । मुखैरिव । पद्मः । स्तनैरिव । 'स्फुरद्भि' रिति शेषः । चक्रवाकैः । 'चे' ति शेषः । सर:श्रियः सरसां जलाशयानां श्रियः सम्पदः । पदेपदे प्रतिवस्तु । विभान्ति । स्म । अत्रेदं बोध्यम्-नैत्रादीन्युपमानानि उत्पलादीन्युपमेयानि अध्याह्रियमाणस्फुरत्पदद्योत्यो धर्म.