________________
साहित्यदर्पणः ।
[ दशम:
पूर्णा षडिधा, लुप्ता च एकविंशतिविधा, इति मिलित्वा सप्तविंशतिप्रकारोपमा । एषु चउपमा भेदेषु मध्ये अलुप्तसाधारणधम्र्मेषु भेदेषु विशेषः प्रतिपाद्यते ।
१८२
९३ एकरूपः क्वचित् कापि भिन्नः साधारणो गुणः ॥ ७६ ॥ भिन्ने बिम्बानुविम्बत्वं शब्दमात्रेण वा भिदा ।
एकरूपे यथोदाहृतम् -'मधुरः सुधावदधरः पल्लवतुल्योऽतिपेलवः पाणिः । इत्यादि । बिम्बानुबिम्बत्वेयथा
"भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् । तस्तार सरघाव्याप्तैः स क्षौद्र पटलैरिव ॥९४॥"
कथमेतत्सङ्ख्याका भेदा इत्याशङ्कयाह - पूर्णेत्यादि । स्पष्टोऽर्थः । अयम्भावः - पूर्णोपमा तावत् श्रौती, आर्थी च; उभे अपि तद्धितसमासवाक्यनिष्ठतोपाधेस्त्रिधेति षाडिध्यम्, एवं लुप्तोपमा-धर्मलोपे दशविधा उपमानलोपे द्विविधा, वाचकलोपे द्विविधा, धर्म-वाचकोभयलोपे द्विविधा, उपमेयलोपे एकविधा, धम्र्म्मोपमेयोभयलोपे एकविधा, धर्म-वाचकोपमानत्रितयलोपे चैकविधेति तस्या एकविंशतिविधात्वम् । उभवसम्मेलने पुनर्यथोक्तप्रकारेयमिति ।
अत्र केषुचिद्भेदेषु विशेषं लक्षयितुं प्रतिजानीते - एषु सप्तविंशतिसङ्ख्याकेषु । उपमाभेदेषु । मध्ये । च । अलुतसाधारणधम्मैवलुप्तेः साधारणधर्मो येषु तेषु । भेदेषु । विशेषोभेदः । प्रतिपाद्यते - ९३ एकरूप इत्या दिना - ९३ साधारणः । गुणो धर्म्म इति भावः । क्वचित् । एकरूप एकविधः । क्वापि क्वचित् । भिन्नोनेकविधः । 'निरूप्यते' इति शेषः । तत्र भिन्नेऽनेकविधे साधारणे धम्मै । विम्बानुबिम्बत्वं बिम्बस्य सादृश्यस्यानुबिम्बत्वं प्रणिधानगम्यत्वम् । शब्दमात्रेण मात्रपदेन तात्पय्र्यस्य व्यवच्छेदः । वा । भिदा भेदः । अयम्भावः वस्तुतो भिन्नयोरपि उपमानोपमेययोर्यो हि साधारणो धर्मः, स गुणरूपः क्रियारूपश्चेति द्विविधोऽपि कश्चित् नानाव्यक्तिषु जातिवदेकविधः, क्वचित् पुनरनेकविधः । अथ यत्रानेकविधस्तत्र विम्वानुबिम्बत्वम्, शब्दमात्रेण वा भिन्नत्वम् । तथा च 'अनयेनेव राज्यश्रीयेनेव मनखिता । मम्लौ साऽथ विषादेन पद्मिनीव हिमाम्भसा ॥ ' इत्यत्र बहूनां राज्यश्रीप्रभृतीनामुपमानानां तच्छदयायाया नायिकाया उपमेयस्य च ग्लानिरूप एकविधः साधारणो गुण: । 'ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम् । प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी ॥' इत्यत्र ज्योत्स्नादीनां बहूनामुपमानानां नितम्बिन्या उपमेयस्य च नयनानन्दहेतुत्वादयो sae बिम्बप्रतिबिम्बतया साधारणा धर्म्माः । 'विमला चन्द्रकलेव स्फुरति सतां श्रीरिवानघा सततम् । क्षीरोदधिफेनतति. यथा तथा ते मनोरमा विद्या ।' इत्यत्र विमलादिपदबोधितचन्द्रकलादीनामुपमानानां विद्याया उपमेयस्य चैक एव साधा. रण धर्मोनेकधा प्रत्यायितः । इति दिकू ॥ ७६ ॥
विस्तरभयाद् दिङ्मात्रमुदाहर्तुकाम आह- एकरूपे 'साधारणे धर्मे' इति । शेषः । सत्यर्थेयं सप्तमी । यथा । उदाहृतम् - 'मधुरः सुधावदधरः पल्लवतुल्योऽतिपेलवः पाणिः । इत्यादि । आदिना - ' चकितमृगलोचनाभ्यां सदृशी चपले च लोचने तस्याः ॥' इत्यस्य ग्रहणम् । व्याख्यातपूर्वमेतत् । अत्र हि-उपमानोपमेययोः सुधाss बधराद्योर्माधुर्य्यादिः। यद्यपि - उपमानोपमेपयोः सर्वत्रैवैकविधः साधारणो धर्मः, अन्यथोपमाया एवासम्भव इत्येवं स्थितौ किमत्र वैचित्र्यं दर्शितमिति वक्तुं शक्यते, तथाऽपि अत्र - ऐकरूप्यं विवक्षितम् नतु श्लेषमहिना प्रतिपादितम्, अतः'हंसीव कृष्ण ! ते कीर्त्तिः स्वर्गङ्गामवगाहते।' इत्यादौ 'स्वर्गङ्गामवगाहते' इत्यादिना प्रतिपादितः साधारणो धम्र्मो नैक
पदप्रतिपाद्य इति बोध्यम् । क्रियैकत्वे यथा मम - 'गच्छति करिणीव शनैः मृगीव चकितं निरीक्षते भूयः । आलपति कोकिलेव श्रयति मनोभावनेवासौ ॥' इति । यत्तदाहृतं तर्कवागीशैः - 'स्त्रीव गच्छति षण्डोऽयं वत्येषा स्त्री पुमानिव ।' इति, तदकाव्यत्वात्तेषामेवोदाहरणीयम् ।
एवं धर्मैक्यमुदाहृत्य धर्मानैक्यमुदाहर्तुकाम आह-विम्वानुबिम्बत्वे इत्यादिना । स्पष्टम् । 'विम्बप्रतिबिस्वत्व' इति पाठान्तरम् । 'भल्लापेत्यादि । ' स रघुः । भल्लापवज्र्जितैर्भलैस्तदाकारैर्वाणविशेषैरपवर्जितानि पतितानि तैस्तथाभूतः । तेषां यवनानाम् । श्मश्रुलैः इमथुर्मुखाग्रवर्ती रोमपुञ्जः स एषामस्तीति तैस्तथोक्तैः । सिमादित्वात्