________________
परिच्छेदः ]
इचिराख्यया व्याख्यया समेतः ।
९८ पर्यायेण द्वयोरेतदुपमेयोपमा मता ।
विचारे देवी गङ्गा तु गङ्गेव ॥' इति । यत्तदाहृतम् -' लोहितपीतैः कुसुमैरावृतमाभाति भूभृतः शिखरम् । दावज्वलनज्वाकैः कदाचिदाकीर्णमित्रसमये ॥' इति, 'नखकिरणपरम्पराऽभिरामं किमपि पदाम्बुरुहद्वयं मुरारेः | अभिनवसुरदीर्घिका प्रवाहप्रकरपरीतमिव स्फुटं चकासे ॥' इति च; तत् शिखरस्य पदाम्बुरुहस्य चैकस्यैवोपमानोपमेयत्वेऽपि 'धर्मभेदेन धर्मिमभेद' इति नयेन पूर्वत्र कुसुमावृतत्वज्वालाकीर्णत्वाभ्याम्, परत्र नखकिरणाभिरामत्व- सुरदीर्घिकाप्रवाहपरीतत्वाभ्यां शिखरस्य पदाम्बुरुहस्य च भेदात् । अत्राहुर्गङ्गाधरकाराः - " स च पूर्णो लुप्तश्चेति तावद् द्विविधः । पूर्ण स्तूपमावत् षडिधोऽपि सम्भवति । यथा--'गङ्गा या यथा गङ्गा गङ्गा गङ्गेव पावनी । हरिणा सदृशो बन्धुर्हरितुल्यः परो हरिः ॥" गुरुवद् गुरुराराध्यो गुरु गौरवं गुरोः ।' प्तेऽपि धर्म्मलुप्तः पञ्चविधः सम्भवति । प्रागुके सार्धपद्ये धर्मवाचकपदमपहाय पदान्तरदाने । तथा वाचकलुप्तः यथा--‘रामायमाणः श्रीरामः सीता सीतामनोरमा । ममान्तः करणे नित्यं विहरेतां जगद्गुरु ॥' इत्यत्र क्यइसमासयोः । एवम् 'लङ्कापुरादतितरां कुपितः फणीव निर्गत्य जातु पृतनापतिभिः परीतः । क्रुद्धं रणे सपदि दाशरथिं दशास्यः संरब्धदाशरथिदर्शमहो ददर्श ॥' एवं कर्तृ णमुलादावप्यूयम् । 'अम्बरत्यम्बरं यद्वत् समुद्रोऽपि समुदति । विक्रमार्कमहीपाल ! तथा त्वं विक्रमार्कसि ॥' अत्र वाक्यार्थावयवेष्वनन्वयेषु धर्मवाचकयोर्लोपः । मुखवाक्यार्थस्त्व नत्र फलेन निरुपमत्वेन समानधर्मेण प्रयोजितो मालोपमैव । एषा च ज्ञानसौकर्यायाचैव दर्शिता 'एतावति प्रपञ्चेऽस्मिन् सदेवासुरमानुषे । केनोपमीयतां तज्ज्ञै रामो रामपराक्रमः ॥' अत्र वाचकधर्मोपमानां लोपः । अत्र च उपमानलुप्तादयोऽन्ये भेदा असम्भवादयत्वाच्च नोदाहृताः ।” इति । अयं ध्वन्यमानो यथा - 'पृष्टाः खलु परपुष्टाः पारतो दृष्टाश्च विटपिनः सर्वे । भेदेन भुवि न साधर्म्य ते रसाल ! मधुपेन ॥' इत्यत्र हि 'भेदेने 'त्यभिधानेनाभेदे सादृश्यमनन्वयात्मकं तच प्रपेदे इति ध्वन्यते । 'ननु 'भुवनत्रितयेऽपि मानवैः परिपूर्ण विबुधैश्च दानवैः । न भविष्यति नास्ति नाभवन्नृप । यस्ते भजते तुलापदम् ॥' इत्यादी सर्वथैवोपमाननिषेधात्मकोऽसमालङ्कारः प्राचीनेहक्तः, उपमानलुप्तोपमाऽतिव्याप्तिवारणाय 'सर्वथैवे'ति । एवं च-तद्भुनिनैव चमत्कारोपपत्तौ अनन्वयस्य पृथगलङ्कारत्वं किमर्थम् ? यदि तु रत्यनुकूलतया कुतश्चिदङ्गात् भूपणापसारणं यथा चमत्काराय तथा प्रकृते उपमानालङ्काराभाववर्णनमेव चमत्काराय न तु तत्रासमनामा पृथगलङ्कार इत्युच्यते, तर्हि तद्भुनिनैवोपपत्तिरिति चेन्न पर्यायोक्तसादृश्यमूला प्रस्तुतप्रशंसादौ ध्वन्यमानार्थसत्त्वेऽपि वाच्यार्थ कृतयमक्कारमादायालङ्कारत्ववदुपपतेः, अन्यथा दीपकादावपि उपमाऽभिव्यक्त्यैव चमत्कारोपपत्तौ तेषामपि पृथगलङ्कारत्वं न स्यात् । ' इत्युद्दद्योतकाराश्च ॥ १०२ ॥
१८७
एवमन्यं निरूप्योपमेयोपमां लक्षयति - ९८पर्यायेण क्रमेण । द्वयोरुपमानोपमेययोः। एतदुपमानोपमेयत्वम् । उपमेयोपमा । मता । अयम्भावः यत्र द्वयोरुपमानोपमेययोः पर्यायेण तृतीयसदृशव्यवच्छेदबुद्धिफलकवर्णनविषयीभूतमुपमानोपमेयत्वम्, सोपमेयोपमा । एतच्च वाक्यद्वय एव सम्भवति, तत्र कमिकताया अन्यथाऽनुपपत्तेः । एवं च अस्या रसनोपमाsनन्वयपरस्परोपमाभ्यो व्यवच्छेदः । तथा हि-रसनोपमायां न पर्यायेणोपमानोपमेयत्वम्, अनन्वये च न यो, 'डिदिव तन्वी भवती भवतीवेयं तडिलता गौरी ।' इत्यादौ परस्परोपमायां तृतीयसदृशव्यवच्छेदक बुद्धिफलकवर्णविषयीभूतत्वाभावान्नातिव्याप्तिः । ननु - 'कमलेव मतिर्मतिरिव कमले 'त्यत्र कथं पुनर्लक्षणं समन्वेति ? इति चेत् ! तत्र तानवगौरिमाभ्यां धर्माभ्यां तृतीयसदृशव्यवच्छेदाभावः, अत्र च तथा धर्मानुल्लेखाद्वयोरुपमानोपमेयत्वेऽस्त्येव तृतीयसदृशव्यवच्छेदः । एवं च - ' तडिदिव गौरी भवती भवतीव तडिद्वौरी' इत्यादौ उभयोरेकधर्मानुगामितया तृतीयसदृशव्यवच्छेदान्न परस्परा, किन्त्वेवैव । इदमुक्तम्- 'कमलमित्र वदनं रुचिरमिति मुखे रुचिरतथा कमलसादृश्ये वर्णिते कमलेsपि रुचिरतया मुखसादृश्यमर्थत आयाति, साधारणधर्मस्योभयानुगतत्वात् । 'वदनमिव कमलं रुचिर' मिति पुनः कमले सादृश्ये वर्ण्यमाने वदनकमलयो रुचिरतया सादृश्यं परस्परमनुगतं सिध्यति, न त्वन्येवेति तृतीयसदृशव्यवच्छेदः फलति । अथ-तानवधर्मेण भवत्पदवाच्यायां कान्तायां तडित्सादृश्ये वर्णिते तडिति पुन गौरिमविशिष्टभवत्पदवाच्यया स्रादृश्यं नार्थतः सिध्यति ! तानवविशिष्टत्वगौरिमविशिष्टत्वयोर्धर्मयोरुपमाद्वये भिन्नत्वात् । अतः - एवंविधे स्थले प
मुख