________________
- साहित्यदर्पणः।
[दशम:
एतदपमानोपमेयत्वम् । अर्थात्-वाक्यद्धये । यथा
'कमलेव मतिर्मतिरिव कमला, तनुरिव विभा, विभेष तनुः।
धरणीव धृतितिरिव धरणी, सततं विभाति बत यस्य ॥ १०३ ॥' भत्रास्य राज्ञः श्रीबुड्यादिसदृशं नान्यदस्तीत्यभिप्रायः।।
९९ सदृशानुभवादस्तुस्मृतिः स्मरणमुच्यते ॥ ८॥ यथा'अरविन्दमिदं वीक्ष्य खेलखञ्जनमंजुलम् । स्मरामि वदनं तस्याश्चारु चश्चललोचनम् ॥१०४॥'
येणोपमानो पमेयभावो वर्ण्यमानो न सदृशान्तरव्यवच्छेदफलक इति परस्परोपमाया एव साम्राज्यम् । अत्र च धर्मः चिदनुगामी, क्वचिद्विम्बप्रतिबिम्बभावापन्नश्च । इति दिक ।
कारिको स्पष्टयितुं तद्दुरूहार्थतां परिहरति-एतदित्यादिना । स्पष्टम् । . उदाहरति-यथा-कमलैवेत्यादिना । 'यस्य । बत भद्रम् । कमलेव सम्पदिव। 'कमला श्रीहरिप्रिया ।' इत्यमरः । मतिर्बुद्धिः । 'स्पृहणीये ति शेषः । मतिरिव । कमला 'स्पृहणीयेति शेषः । तनुरिव शरीरमिवाकृतिरिवेति यावत् । विभा कान्तिः 'प्रचिते'ति शेषः । विभेव । तनुः। 'प्रचिते'ति शेषः । धरणीव पृथिवीव । धृतिर्धेय॑म् । धृतिरिव । धरणी 'विस्तृते'ति शेषः । सततम् । विभाति । 'सोऽय'मिति शेषः । आU. गीतिश्छन्दः ॥ १०३ ॥'
भत्र वैचित्र्यं निर्दिशति-अत्रेत्यादिना । स्पष्टम् । इदं बोद्धव्यम्-अत्रानुगामी धर्मः अर्थानुगृहीतः, शाब्दस्तु'निखिले निगमकदम्बे लोकेन्चप्येष निर्विवादोऽर्थः । शिव इव गुरुगरीयान् गुरुरिव सोऽयं सदा शिवोऽपि तथा॥' इति ।बिम्बानुबिम्बत्वमापन्नो यथा-'सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजाः। वाप्योऽजना इवाभान्ति यत्र वाप्य इवाअनाः॥' अत्र सच्छायत्वेन वदनाम्बुजानां धर्मः । उपचारते धर्मेऽप्यषा सम्भवति यथा-'अचला इव विद्वांसो विद्वांस श्वाचला गुरवः । शाखाणि तोयनिधिवत् तोयनिधिः शास्त्रवद्हुगभीरः ॥' इति । गुरुत्वगभीरत्वयोः शास्त्रेषूपचाराचोपचरितो धर्मः । न । चानुगामिन आर्थत्वे धर्मानेकत्वेऽप्यस्याः सम्भव एतेन-'कमलेव मति' रित्यादावपि-धर्मानेकवाङ्गीकारे परस्परोपमैवेति सूचितम् । अन्यथा-'सविता विधवति विधुरपि सवितरति दिनन्ति यामिन्यः । यामिन. यन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥' इत्यादावतिप्रसज्येत । न चेष्टम् इति वाच्यम् , सवित्रादेर्विवादिसहशीभवने शीतलत्वादेः, विध्वादेश्च सवित्रादिसशीभवने प्रचण्डत्वादेश्च धर्मस्य विवक्षितस्य भेदात् तृतीयसदृशव्यवच्छेदफलकत्वानुपपत्तेः । इति दिक् ।
स्मररणं लक्षयति-९९सदृशानुभवात् सशस्य समानगुणकारादेरनुभवस्तस्मात् । वस्तुस्मृतिर्वस्तुनः स्मृतिः । स्मरणम् । उच्यते । अयम्भाव:-गुणादिना कस्यचित् कस्मिंश्चित् प्रतिफलिप्तस्य सादृश्यस्य दर्शनादिना स्वस्मिन् तयोरुभयोर्जातस्य संस्कारस्य महिनोद्भावितं सादृश्यप्रतियोग्यनुसन्धानपूर्वकं सादृश्यानुयोग्यनुसन्धानं स्मरणम् । अत एवोक्तम्-'सदृशज्ञानोबोधितसंस्कारभवा मतिः स्मरणम् ' इति । एवं च-'भवदभिमतवस्तून्याकिरन्त्याः समन्तात् सर सिजदलतल्पं मर्मरं कल्पयन्त्याः । हतकरुण ! वयस्या जीवनोपायमस्याः स्मरणमविरलं ते हन्त सम्पादयन्ति ॥' इत्यादौ सम्बन्धिज्ञानजन्यस्मरणस्य नालकारत्वम् । चिन्ताजन्यस्मृतेश्वालकारत्वाभावं स्वयमुदाहरिष्यते-'मयिं सकपट'. मित्यादिना । इति ॥८॥
उदाहरति-यथा। खेलत्खननमजुलं 'खेलन्तौ समीपे मध्ये वा क्रीडम्तो खञ्जनौ पक्षिविशेषौ ताम्यां मज़ुलं सुन्दरम्, तत्तथोक्तम् । इदम् । अरविन्दम् । वीक्ष्य दृष्ट्वा । तस्याः। चारु सुन्दरम् । चञ्चललोचनं चञ्चले लोचने यत्र तत्तथोक्तम् । यद्वा-चारुचञ्चललोचनमिति समस्तं पदम्, तेन-चारुणी सुन्दरे चञ्चले लोचने यत्र, चारु यथा स्वात्तथा वा चञ्चले लोचने यत्र तत्तथोक्तम् । वदनं मुखम् । स्मरामि । अत्र हि-खलनसान्निध्ये कमलशोभायाः,