________________
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः।
'मयि सकपट किश्चित् क्वापि प्रणीतविलोचने । किमपि नयनं प्राप्ने तिर्यग्विजृम्भिततारकम् । स्मितमुपगतामाली दृष्ट्वा सलज्जमवाश्चितं कुवलयदृशःस्मरं स्मेरं स्मरामि तदाननम् ॥ १०५॥' ___ इत्यादौ च स्मृतेः सादृश्यानुभवं विना उत्थापितत्वान्नायमलङ्कारः। राघवानन्दमहापावास्तु. वैखादृश्यात् स्मृतिमपि स्मरणालङ्करमिच्छन्ति । तत्रोदाहरणं तेषामेव यथा
'शिरीषमृद्री गिरिषु प्रपेदे यदा यदा दुःखशतानि सीता। तदातदास्याः सदनेषु सौख्य-लक्षाणि दध्यौ गलद रामः॥ १०६॥'
१०० रूपकं रूपितारोपो विषये निरपह्नवे । , 'रूपित' इति परिणामाद् व्यवच्छेदः, एतच्च तत्प्रस्तावे विवेचयिष्यामः । पञ्चललोचनशालित्वे मुखस्य सदृशमिति तदर्शनेनास्य स्मरणं शृङ्गारपोषकत्वादलङ्कारतां प्राप्तम् ॥' इदं द्विधा, एतज्जन्मनि जन्मान्तरे वाऽनुभूतस्य संस्कारजन्यत्वात् । तत्राद्यमुदाहृतम् । यथा वा क्रमेण-'निम्ननाभिकुहरेषु यदम्भः छावितं चलदृशां लहरीभिः । तद्भवैः कुहुरुतैः सुरनार्यः स्मारिताः सुरतकण्ठरुतानाम् ॥' 'दिव्यानामपि कृतविस्मयं पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रियमिव काञ्चिदुत्तरन्तीमस्मार्षीजलनिधिमन्थनस्य शौरिः॥' अत्र हि कस्याश्चिदरविन्दहस्ताया अम्भस उपायान्त्याः कान्ताया दर्शनेन श्रीस्मरणपूर्वक पूर्वानुष्ठितसमुद्रमन्थनसंस्कारोदोधात् । अत्रा. हु:-'न चैकसम्बन्धिज्ञानमात्रस्यापरसम्बन्धिस्मारकतया नायिकादर्शमजन्यश्रीस्मरणकल्पने मानाभाव इति वाच्यम् । वास्तवश्रीपतियोगिकसादृश्यवत् कामिनीज्ञानस्य मन्थनस्मारकत्वाभावात् सादृश्यवत्त्वेन ज्ञायमानस्य कामिनीज्ञानस्य चावश्यं श्रीस्मरणजनकत्वात् । अन्यथा 'उद्वीक्ष्यास्मार्षी' दित्यस्यासङ्गतत्वापत्तेः । अन्यसदृशदर्शनेनान्यस्मरणामुपपत्तेः । श्रीस्मरणद्वारेव दर्शनस्य समुद्रमथनस्मरण जनकताया विवक्षितत्वात् । इति ॥१०४॥
चिन्तानन्यस्मृतेरनलङ्कारत्वमुदाहृत्य दर्शयति-'मयीत्यादिना । व्याख्यातपूर्वमिदम् । अन्यत्स्पष्टम् ॥१०५॥
स्वपूर्वजाना मतेन प्रकारान्तरेणापि स्मरणं लक्षयितुमाह-राघवानन्दमहापात्राः। तु ( इदं पूर्वतो व्यवच्छे. रार्थम् )। वैशादृश्यात् विसदृश सदृशविरुद्धं तस्य भाव इति तस्मात् तथोक्तात् । 'जायमाना'मिति शेषः । स्मृतिम् । अपि । स्मरणालङ्कारम् । इच्छन्ति मन्यन्ते । ननु तत्र किमुदाहरणमित्युदाहर्तकाम आह-तत्र खथाभूते स्मरणे । तेषां राघवानन्दानाम् । एव । उदाहरणम् । यथा-'यदायदा यस्मिन्यस्मिन् ऋतौ इत्यर्थः । शिरीषमृद्धी । सीता। दुःखशतानि । गिरिषु पर्वतप्रदेशेषु । प्रपेदे प्राप्तवती । तदातदा । अस्याः सीतायाः। सदनेषु । सौख्यलक्षाणि । गलदस्नु गदलखुधारं यथाभवेत्तथा । रामः । दध्यौ सस्मार । अत्र हि-रामस्य सीतायाः । प्रासादेषु अनुभूतानि सौख्यकारणभूतानि सुरतानि सीतायाः पर्वतेषु दुःखकारणभूतानां सञ्चरणादीनां दर्शनजन्यस्मृतिकानि अभिहितानि । अत्रापि-उपस्कारकतासद्भावादलङ्कारव्यपदेश्यत्वम् ॥१०६॥
रूपकं लक्षयति-१०० विषये उपमेये । निरपवे निरस्तोऽपहवः खरूपतो गोपनं यस्य तादृशे । उपमानेन सममभिन्नतया प्रतिपाद्यमानस्यापि यस्योपमेयस्य स्वरूपतोऽनुपादानाभावादनपलवस्तथाभुते उपमेये सतीति भावः । रूपितारोपो रूपितस्याभिन्नतया प्रतिपादितस्योपमानस्यारोप आरोपणम्, यद्वा-रूपितो निरूपित आरोपोऽभेदाध्यवसाय उपमानस्याभेदोद्भावनमिति तथोक्तः। 'रूपितरोिपा'दिति पाठे तु रूपितः कल्पितोऽसावारोप इति तमतति व्याप्नोतीति तथोक्तम् । रूपकं रूपयत्युपमानोपमेययोरभेदमध्यवसाययति कल्पयितुमपि वास्तवमिवावगमयतीति तथोक्तम् । तन्नामाऽलङ्कारः । तथा च-उपमानेन सममुपमेयस्याभेदारोपस्य कल्पितत्वेनोपमेयस्य स्वरूपतोभिभावनाभावः, उपमेयस्य वा उपमानेनातिसादृश्ये स्वरूपापहवाहतायामपि स्वरूपापहवशून्यत्व एव तयोरभेदारोपणं रूपकालङ्कार इति फलितम् । अत एव पण्डितराजा अप्याहुः-उपमेयताऽवच्छेदकपुरस्कारेणोपमेये शब्दानिश्चीयमानमुपमानतादात्म्यं रूपकम् । तदेवोपस्कार कत्वविशिष्टमलङ्कारः ।' इति । उपस्कारकत्वं चालकारत्वबीजम् ।
___ अलङ्कारान्तरादस्य व्यवच्छेदं निर्दिशति-'रूपित' इति 'अनेनेति शेषः । परिणामात्तदभिधेयादलङ्कारात् । 'अस्ये' ति शेषः । व्यवच्छेदः । ननु एतावता कथं व्यवच्छेद इत्याशयाह-एतत् रूपकपरिणामयो।लक्षण्यम् । च। तत्प्रस्तावे तस्य परिणामस्य प्रस्तावः प्रकरणं तस्मिन् । विवेचयिष्यामो विविच्य दर्शयिष्यामः । अयम्भाव:-पार,