________________
१९०
... साहित्यदर्पणः ।
। दशमः_ 'निरपह्नव' इत्यपहुतिव्यवच्छेदार्थम् ।
१०१ तत्परम्परितं साङ्ग निरङ्गमिति च त्रिधा ॥८१॥ तडूपकम् । तत्र
१०२ यत्र कस्यचिदारोपः परारोपणकारणम् ।
तत्परम्परितं श्लिष्टाश्लिष्टशब्दनिबन्धनम् ॥८२॥
प्रत्येकं केवलं माला-रूपं चेति चतुर्विधम् । तत्र-शिष्टशब्दनिबन्धनं केवलपरम्परितं यथा'आहवे जगदुद्दण्डराजमण्डलराहवे । श्रीनृसिंहमहीपाल ! स्वस्त्यस्तु तव वाहवे ॥१०७॥'
णामे हि आरोप्यमाणस्य प्रकृतोपयोगित्वेनाप्रकृतत्वनियतोपमानताया बाधितत्वात् 'रूपिते'ति पदेन तव्यवच्छेदः । इति । निरपह्नव' इति 'विशेषण'मिति शेषः । अपहतिव्यवच्छेदार्थमपद्भुतेर्व्यवच्छेदाय । अपहृतौ हि उपमेयगोपनेन भेदस्याप्यपह्नव इति स्फुटं ततोऽस्य भेदः। निगीर्याध्यवसानरूपायामतिशयोक्तौ विषयस्य निगीर्णत्वाच्च प्रत्यक्षो भेदः। एवं निदर्शनायामुपमेयस्य सत्त्वेऽपि आरोपस्यारूपितत्वाद्रेदः । भ्रान्तिमति भ्रान्तेरुत्थानावसरे एव विषयापह्नव इत्यस्य भेदः । उत्प्रेक्षायामपि नारोपः,किन्तु अभेदेन तथा सम्भावनमिति व्यवच्छेदः। विकसितं वदनकमल'मिति समासस्थले विशेषणस्य मुख्यतया, उपमानगतत्वादरूपकम् । उपमेयगतत्वे तु उपमा, यथा 'सहासं वदनकमल'मिति, उभयत्र तुल्यरूपत्वे रूपको. पमयोः सङ्करः। 'यथा रमणीयं वदनकमलम्'इति,अत्रापि-'रमणीयत्वमहो वदनेन्दोः' इत्युभयत्र रमणीयत्वस्यानुगतत्वेऽपि समासस्य मयूरव्यंसकादित्वान्न रूपकोपमयोः सङ्करः,किन्तु रूपकमेव । उपमा.हि 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति समाससत्त्व एव । अयमपि समास उपमानोपमेययो: समानलिङ्गत्वे सम्भवतीत्यत्र च समानलिङ्गत्वाभावादस्य चाभावादूपकमेवेति बोध्यम् ।
अस्य च प्रथमं भेदत्रयं निर्दिशति-तद्रूपकम्।परम्परितम् परम्परा कार्यकारणभावानुपूर्वी जाताऽस्यास्मिन् वेति तथोक्तम् । साङ्गं सावयवम् । तथा-निरङ्गं निरवयवम् । इति । च। त्रिधा॥ ८१॥
तत्पदं व्याचष्टे-तदित्यादिना । स्पष्टम् ।
तत्रापि परम्परितं लक्षयन् तद्भेदानाह-तत्र तेषु त्रिविधेषु रूपकेषु मध्ये इत्यर्थः । यत्र यस्मिन् निरुक्तलक्षणाति' मान्तेऽलकारे । कस्यचित् । आरोपः । परारोपणकारणं परमन्यद् यदारोपणं तस्य कारणं निमित्तभूतमिति तथोक्तम् । तत् । परम्परित कार्यकारणरूपाऽऽरोपपरम्परा जाताऽस्येति तथोक्तम् । तदस्य सजातं तारकादिभ्य इतन् ।' ५।२। ३६ इतीतच । तदाख्यं रूपकमित्यर्थः। एतदेव-श्लिष्टाश्लिष्टशब्दनिबन्धनं श्लिष्टं श्लेषानुगृहीतम. श्लिष्टं श्लेषाननुगृहीतं तयोः शब्दयोः निबन्धनं वर्णनसम्पत्तिर्यस्य तत्तथाविधम् । केवलमामालारूपम् च । इति । प्रत्येकम् 'भिद्यमान'मिति शेषः । चतुर्विधम् । अयम्भावः । आरोपान्तरकारणकारणीभूतः कस्यचिदारोप: परम्परितं नाम रूपकालङ्कारः, असौ च केवलरूपो मालारूपश्च द्विविधः, अनयोरपि द्वयोर्विधयोः प्रत्येकं श्लिष्टनिबन्धनत्वमश्लिष्टनिबन्धत्वञ्चेति द्वैविध्ये चातुर्विध्यमिति ॥८२॥
क्रमादुदाह काम आह -तत्र तेषु चतुषु भेदेषु मध्ये । श्लिष्टशन्दनिवन्धनं श्लिष्टाः श्लेषानुगृहीता ये शब्दास्तैनिवन्धनं यस्य, श्लिष्टाः शब्दा यत्र तादृशं निषन्धनं यस्येति वा तत्तथोक्तम् । केवलपरम्परितम् । यथा । आहवे इत्यादि। ___हे श्रीनृसिंहमहीपाल ! आहवे समामे । 'आहवः सङ्गरे यज्ञे' इति हैमः । जगदुद्दण्डराजमण्डलरा. हवे जगति विश्वस्मिन् विश्वे ये उद्द निरङकुशा: कुलागममादोल्लङ्घिनः खविक्रममदेन परं तुच्छं मन्यमाना ये राजानहतेषां मण्डलं चक्रं तस्य राहस्तस्मै तत्स्वरूपभूतायेत्यर्थः । तव । बाहवे । स्वस्ति। अस्तु ॥१०॥