________________
परिच्छेदः ]
चिराख्यया व्याख्या समेतः ।
१९१
अत्र 'राजमण्डलं' नृपसमूह एव'चन्द्रबिम्ब' मित्यारोपो राजबाहो राहुत्वारोपे निमित्तम् । मालारूपं यथा
'पद्मोदय दिनाधीशः सदागतिसमीरणः । भूभृदावलिदम्भोलिरेक एव भवान् भुवि ॥ १०८ ॥ ' अत्र पद्माया उदय एव पद्मानामुदयः, खतामागतिरेव खदागमनम्, भूभृतो राजान एव पर्वता इत्यभ्यारोपी राज्ञः सूर्यत्वाद्यारोपे निमित्तम् ।
उदाहृतमर्थ दर्शयति-अत्रास्मिनुदाहृते पद्य इति यावत् । 'राजमण्डलं राज्ञां मण्डलम् । नृपसमूहः । एव । 'चन्द्रबिम्ब' मि. यारोपः । 'चन्द्रबिम्ब' मित्यभेदेन प्रतिपादनम् । राजवाहो राज्ञो वर्णनीयमहिम्नो नृपतेबहुस्तस्य | राहुत्वारोपे । निमित्तं कारणम् । अयम्भावः - बाहो राहुत्वं चन्द्रमण्डलस्य मर्दन कर्मठत्वमूलकं सम्भवितुमईतीति 'राजमण्डल' मिति पदस्य नृपतिमण्डलार्थकस्यापि चन्द्रबिम्बा ( मण्डला ) भेदप्रतिपादनद्वारकम् । वाहोथ म्वन्द्रबिम्बमर्दनकर्तृत्वमसम्भवमिति 'राजमण्डले 'ति पदस्य 'चन्द्रबिम्वार्थकतया प्रतिपादितस्यापि 'नृपमण्डला'र्थकत्वेन कीर्त्तनमावश्यकमिति - राजमण्डलपदस्य नृपतिचक्रार्थकतया प्रयुक्तस्य अत एव एतत्पदवाच्यस्य चन्द्रबिम्बत्वेन प्रतिपादनं शब्दकृताभेदद्वारकम् । 'रजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ । यक्ष शक्रे च पुंसि स्यात्' इति मेदिनीकारोतेः 'स्यान्मण्डलं द्वादशराजके च देशे च बिम्बे च कदम्बके च ।' इति विश्वकारोक्तेश्च । एवं च अस्याभेदस्य बाहौ राहुत्वारोपः कारणम्, एतच कलस्येति परम्परितस्य श्लिष्टशब्द निबन्धनं केवलत्वम् । इति । तर्कवागीशा अप्याहुः - 'अत्र श्लेषेण रूप्यरूपकयोर्द्वयोरेवाभिधानं शब्दसाम्यरूपसादृश्यमूलं प्रथमं रूपकम् तेन राजमण्डलपदवाच्योपमर्दकत्वरूपसाहनिबन्धनं द्वितीयं रूपकम् ।' इति । प्रथमं राजमण्डलस्य राजमण्डलत्वारोपरूपम् । द्वितीयं बाहो राहुत्वप्रतिपादनरूपम् । मालारूपमुदाहर्तुमना आह- मालारूपम् । श्लिष्ट शब्द निबन्धन' मिति शेषः । ' परम्परित रूपक' मिति तु प्रकृतप्राप्तम् । यथा । 'पद्मोदयेत्यादि ।
'पद्मोदयदिनाधीशः पद्माया लक्ष्म्यात्सम्पत्तेरिति यावत्, अन्यत्र पद्मानां कमलानामुदय उपार्जनं प्रकाशो वा तत्र दिनाधीशः सूर्य इति तथोक्तः । सदागतिसमीरणः सतामगतिरागमनमानयनमिति यावत्तत्र साधुजनानां गोष्ठीकरण इत्यर्थः समीरणो वायुः, अन्यत्र सदागतौ सदागमने समीरण इति तथोक्त: । 'समीरणः स्यात्पवने पथिके च फणिज्झके ।' इति मेदिनी । भूभृदाबलिदम्भोलिर्भूभृतां राज्ञामनुज्झितमदानां भूपानामिति, पर्वतानां वेति भावः आवलिः पङ्क्तिस्तत्र दम्मोलिर्वज्रम् । एकः । भवान् । एव । भुवि 'विदित' इति शेषः । अयम्भावः - कस्यचिद्राज्ञः स्तुतिपरमिदं पद्यम्, तथा च भवान् लक्ष्मीसञ्चयने कमलविकासने सूर्य इव सज्जनानां सङ्ग्रहणे सुगन्धानादाय सदा सञ्च रणशीलो वायुरिव, उन्मत्तानां राज्ञामुन्मूलने पर्वतानां विदारणे कुलिशमिव भवानेव जगतीतले विदित इति निष्कृष्टोऽर्थः । तत्र - पद्मोदयादयः शब्दाद्वयर्थाः, एषां द्वयर्थतामादायैवात्र रूप्यरूपकभावः सिद्ध इति वेदितव्यम् । इति ॥ १०८ ॥
उदाहृतमर्थ निर्दिशति - अत्रेत्यादिना । स्पष्टोऽर्थः । अयम्भावः - 'पद्मोदय' इत्यस्य 'पद्माया उदय' इत्यर्थः प्रकृतः, अस्य च राज्ञो दिनेश्वरत्वाभिधानेऽसङ्गतत्वात् 'पद्मानामुदय' इत्यर्थोऽप्रकृतोऽपि विवक्षितः, एवं प्रकृताप्रकृतयोः सङ्गतथे एकस्याप्यत्वमपरस्यारोपकत्वम् । अत एव रूपकस्य परम्परितत्वम् । एवम् - 'सदागतिः' इत्यस्य 'सतामागति'रित्यर्थः प्रकृतः, अस्य च समीरणत्वेन राज्ञः कीर्त्तनेऽसङ्गतत्वात् 'सदागमनम्' इत्यर्थोऽप्रकृतोऽपि विवक्षितः एवमनयोः सङ्गतये आरोप्यारोपकत्वम् । तथा - 'भूभृत:' इत्यस्य पदस्य 'राजानः' इत्यर्थः प्रकृतः अस्य च दम्भोलित्वेन राज्ञः स्तवनेऽनिमित्तत्वात् 'पर्वता' इत्यप्रकृतोऽप्यर्थः प्रकृताप्रकृतयोरारोप्यारो पकत्वमादाय विवक्षितः समर्थ्यते । इत्थमनेकेषां क्रमेणाप्यारोपकत्वे परम्परितस्य रूपकस्य मालारूपत्वम् । इति दिक् ।
यथा वा - 'विद्वन्मानसहंस ! वैरिकमलासङ्कोचदीप्तद्युते ! दुर्गामार्गणनीललोहित ! समित्स्वीकारवैश्वानर ! | सत्य - प्रीतिविधानदक्ष ! विजयप्राग्भावभीम ! प्रभो ! साम्राज्यं वरवीर ! वत्सरशतं वैरिचमुचैः क्रियाः ॥' इति, अत्र हिमानसादीनि श्लिष्टानि राज्ञो हंसत्वारोपेणाभिधाने श्लेषमहिना मानसप्रभृतिषु सरोवर विशेषत्वारोपः कारणम्, तस्मात् पर परितं रूपकमिदम्, एकस्मिन् सूत्रे ऽनेकेषां कुसुमानामिव राज्ञि हंसादीनामारोपान्मालारूपं च ।