________________
१९३
साहित्यदर्पणः ।
अष्टशब्द निबन्धनं केवलं यथा
'पान्तु वो जलदश्यामाः शार्ङ्गज्याऽऽघातकर्कशाः । त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिवाहवः ॥ १०९ ॥ अत्र त्रैलोक्यस्य मण्डपत्वारोपो हरिबाहूनां स्तम्भत्वा रोपे निमित्तम् ।
मालारूपं यथा
'मनोजराजस्य सितातपत्रं श्रीखण्डचित्रं हरिदङ्गनायाः ।
[ दशमः
विराजते व्योमखरः खरोजं कर्पूरपूरप्रभमिन्दुबिम्बम् ॥ ११० ॥'
अत्र मनोजादे राजत्वाद्यारोपश्चन्द्रबिम्बस्य सितातपत्रत्वाद्यारोपे निमित्तम् । तत्र व-राजभुजादीनां राहुत्वाद्यारोपो राजमण्डलादीनां चन्द्रमण्डलत्वाद्यारोपे निमित्तम् ।' इति केचित् । १०३ अङ्गिनो यदि साङ्गस्य रूपणं साङ्गमेव तत् ॥ ८३ ॥ समस्तवस्तुविषय मे कदेशविवर्त्ति च ।
एवं षनिबन्धनं परम्परितमुदाहृत्या श्लेष निबन्धनमप्युदाहर्तुकाम
उपक्रमते - अश्लिष्टेत्यादिना । स्पष्टम् ।
'जलदश्यामा जलदा मेघा इव श्यामाः शार्ङ्गज्याघातकर्कशाः शार्ङ्गस्य तदाख्यस्य धनुषो ज्या मौर्वी तयाss: घात आहननं तेन कर्कशाः । त्रैलोक्पमण्डपस्तम्भास्त्रैलोक्यं लोकत्रयमेव मण्डपस्तस्य स्तम्भास्तत्स्वरूपभूताः । चत्वारः । हरिबाहवो हरेबीहवः । वो युष्मान् । पान्तु ॥ १०९ ॥'
अत्र परम्परितत्वं दर्शयन् रूपकस्य केवलत्वं निर्दिशति - अत्रेत्यादिना । स्पष्टम् ।
तथाविधमेव मालारूपमुदाहर्तुमाह- मालेत्यादि । स्पष्टम् । 'मनोज' त्यादि ।
'मनोजराजस्य मनोज: कामदेव एव राजेति तस्य तथोक्तस्य । सितातपत्रं सितं च तदातपत्रं छत्रम् । हरिदङ्गनाया हरित् दिक् सैवाङ्गना तस्याः । श्रीखण्डचित्रं श्रीखण्डं चन्दनं तस्य चित्रं तिलकं तत्त्वरूपभूतम् । व्योमखरः सरोजं व्योमाकाशमेव सरस्तस्य सरोज कमलं तथाभूतम् । कर्पूर पूरप्रभं कर्पूरस्य पूरस्तस्य प्रभा यस्मिन् कर्मणि तद् यथा भवेत्तथा । इन्दुबिम्बम् । विराजते । इन्द्रवज्रोपेन्द्रवज्रयोरुपजाति छन्दः ॥ '
उदाहृतमर्थ दर्शयति-भत्रेत्यादिना । स्पष्टम् । इदम्बोध्यम्--मनोजादीनां श्लिष्टत्वाभावादश्लिष्ट शब्दनिबन्धनस्वमेतस्येति ।
'पान्वित्यादि ।
'आहवे' इत्यादौ केषाञ्चिन्मतं निर्दिशति तत्र 'आहवे जगदुद्दण्डराज मण्डलराहवे' इत्यादी । च। राजभुजादीनाम् । आदिपदेन हरिभुजादीनां ग्रहणम् । बहुवचनमन्यत्राप्येवमिति सूचनार्थम् । राहुत्वाद्यारोपः । राजमण्डलादीनाम् । चन्द्रमण्डलत्वाद्यारोपे । निमित्तम् ।' इति । केचित् । 'आहु'रिति शेषः । अयम्भावःअन्येषां मतेन - 'आहवे' इत्यादौ राजमण्डलादौ चन्द्रमण्डलत्वाद्यारोपो राजबाहो राहुत्वारोपे कारणम्, केषाञ्चिन्मतेन पुनरन्यथा । इति ।
सानं द्विप्रभेदं रूपकं पुनर्निर्दिशति - १०३ यदि । साङ्गस्य सावयवस्याप्रधानभूतै रूपकान्तरैः सह वर्त्तमानस्येति यावत् । अत एव - अङ्गिनः प्रधानस्य । रूपणम् । तत् तर्हि । साङ्गम् । एव। अयम्भावः - प्रधानस्य रूपकस्य यद्यप्रधाने रूपकान्तरैः समं निरूपणं स्यात्तर्हि साङ्गं रूपकम् । अत एवास्य सावयवमिति संज्ञान्तरम् । प्राधान्याप्राधान्ये च अपेक्षक. स्वापेक्षणीयत्वकृते एव । तथा च यदपेक्षाकृतनिरूपणकं यत्तदपेक्षयाऽप्रधानम्, तत्तु स्वयं प्रधानम् । अत एवाहु:- 'परस्परापेक्षनिष्पत्तिकानां रूपकाणां सङ्घातः सावयवम् ।' इति । 'साङ्गत्वमेवैकरूपकसमुदायः एकस्मिन् रूपके द्वितीयस्या - ङ्गत्वेन अवस्थानात् । अङ्गशब्दो हि हेत्वर्थ: ।' इति च । इदं च समस्तवस्तुविषयम् । च । एकदेशविवर्त्ति । 'इति द्विविधम्' इति शेषः ॥ ८३ ॥