________________
परिच्छेदः)
इचिराख्यया ध्याख्यया समेतः। तत्र
१०४ आरोप्याणामशेषाणां शाब्दत्वे प्रथमं मतम् ॥८४॥ प्रथमं समस्स्तवस्तुविषयम् । यथा'रावणावग्रहक्लान्तमिति वागमृतेन सः। अभिवृष्य मरुत्तस्य कृष्णमेघस्तिरोदधे ॥१११॥' अत्र कृष्णस्य मेघत्वारोपे वागादीनाममृतत्वादिकमारोपितम् ।
१०५ यत्र कस्यचिदार्थत्वमेकदेशवित्ति तत् ।। कस्यचिदारोप्यमाणस्य । यथा'लावण्यमधुभिः पूर्णमास्यमस्याविकस्वरम् । लोके लोचनरोलम्बकदम्बैः कैर्न पीयते! ॥१२॥'
अत्र लावण्ये मधुत्वारोपः शाब्दः, मुखस्य पद्मत्वारोप आर्थः । न चेयमेकदेशविवर्तिन्युपमा, विकस्वरत्वधर्मस्य भारोप्यमाणे पद्मे मुखतया वर्तमानात्, मुखे चोपचरितत्वात् ।
एते च क्रमालक्षयितुकाम आह-तत्र तयोर्मध्ये इत्यर्थः। समस्तवस्तुविषयमुच्यते इति शेषः। १०४आरोप्येत्यादिना ।
१०४ अशेषाणाम् । आरोप्याणां भेदाभावेन निरूपणीयानाम् । शाब्दत्वे शब्दप्रतिपाद्यत्वे । प्रथमं समस्त वस्तुविषयं समस्तं वस्तु आरोप्यमाणविषयं शब्दप्रतिपाद्यो यत्र तादृशम् । मतम् । तदुक्तम् । 'समस्तवस्तुविषयं श्रौत आरोपिता यदा।' इति ॥८४॥
सूत्रोक्तं प्रथमपदार्थ व्याचष्टे-प्रथममित्यादिना । स्पष्टम् ।
उदाहरति-यथा-'सः। कृष्णमेघः कृष्णो विष्णुरेव मेघः । रावणावग्रहकान्त रावण एवावग्रहो वृष्टिप्रतिबन्धको ग्रहस्तेन क्लान्तं म्लानं मलिनच्छायमिति यावत् तत्तथोक्तम् । मरुत्तस्यं मरुद्देव एव सस्यं व्रीह्यादिक्षेत्र तत्तथोक्तम् । इति एवम् । वागमृतेन वागुपदेशवाक्यमेवामृतं तदभिन्नं जलं तेन । अभिवृष्य प्रीणयित्वाऽभिषिच्य वा । तिरोदधेऽन्तर्दधे । रघुवंशस्येदं पद्यम् । अत्र हि-कृष्णे मेघत्वारोपः प्रधानभूतः, वागादावमृतत्वाद्यारोपोऽप्रधानभूतः, मेघत्वारोषस्य शाब्दत्वमिवामृतत्वाधारोपस्यापि । एवं च-अस्य शाब्दं समस्तवस्तुविषयत्वमिति निष्कृष्टम् १११॥'
लक्ष्यं सङ्गमयति-अत्रेत्यादिना । स्पष्टम् । अतोऽस्य साङ्गत्वमिति भावः ।
एकदेशविवर्ति लक्षयति-१०५ यत्र । कस्यचित् 'आरोग्यमाणस्येति शेषः। 'नतु सर्वेषा'मिति त्वर्थतः प्राप्तम् । आर्थत्वम् । अर्थवशलभ्यत्वम् । तत् । एकदेशविवति । 'साझं रूपक'मित्यनुषज्यते । यत्र कस्यचिदारोप्यमाणस्याथत्वम्, अन्येषां तु शान्दत्वं स्यात् तत् एकदेशे शाब्दमेकदेशे चार्थमिति एकदेशविवर्ति रूपकमुच्यते इति भावः । तदेव स्फुटीकृतं पण्डितराजैः-'यत्र च क्वचिदवयवे शब्दोपात्तमारोप्यमाणं, क्वचिच्चार्थसामर्थ्याक्षिप्तं तदेकदेशे शब्दानुपात्तविषथिकेऽवयरूपके विवर्तनात्स्वस्वरूपगोपनेनान्यथात्वेन वर्तनादेकदेशविवर्ति ।' इति ।
कस्यचिदिति पदार्थ सन्देहापनोदाय विवृणोति-कस्यचिदित्यादिना । स्पष्टम् ।
उदाहरति-यथा-लावण्यमधुभिलावण्यान्येव मधूनि तैः । पूर्णम् । अस्याः । विकस्वरं प्रफुल्लम् । 'विकासी तु विकस्वरः ।' इत्यमरः । आस्यं मुखम् । कैः । लोके जगति । लोचनरोलम्बकदम्बैलॊचनान्येव रोलम्बकदम्बा भ्रमरपुञ्जास्तैः । 'इन्दिन्दरस्तु रोलम्बश्चञ्चरीको मधुव्रतः । इति हारावली।न।पीयते ? अपि तु सर्वैरिति भावः ॥११२॥
शाब्दमार्थ चारोपं विभज्य निर्दिशति-अत्रेत्यादिना । स्पष्टम् ।
एकदेशधिवर्त्तिन्या भेदं निर्दिशति-नचेत्यादिना । स्पष्टम् । अयम्भाव:-मुखस्य विकस्वरत्वं न साक्षात्, पुष्पधर्मस्य मुखसम्बन्धित्वानुपपत्तेः, "नहि परधर्माः परत्र सम्भवन्तीति न्यायात् । अतोऽस्य विकस्वरत्वसिद्धयर्थ पद्मत्वेन निरूपणं युज्यते, अतः-मुखस्यारोपितपद्मत्वमधिश्रित्य लावण्ये मधुत्वमप्यारोप्यमाणं सङ्गच्छते, एवं साङ्गत्वेऽपि एकदेशे
त्वादेकदेचार्थत्वादेकदेशविवर्तित्वं रूपकस्य । इति । विवृतं च विवृतिकारैः-'नचेयमिति । समभिव्याहृतपदार्थस्य