________________
१९४
साहित्यदर्पणः।
(दशम:
१०६ निरङ्ग केवलस्यैव रूपणं तदपि द्विधा ॥ ८५ ॥
मालाकेवलरूपत्वात् तत्र मालारूपं निरङ्गं यथा_ 'निर्माणकौशलं धातुश्चन्द्रिका लोकचक्षुषाम् । क्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा ॥११३॥' केवलं यथा
'दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दर ! नात्र दये। उद्यत्कठोरपुलकाङ्कुरकण्टकार्यद्भिद्यते मृदु पदं ननु सा व्यथा मे ।। ११४॥
मुख्यया वृत्त्याऽन्वयसम्भव एवैकदेशविवर्तिनोरुपमारूपकयोरन्यतराङ्गीकारे बीजम् । 'मुखपद्म विकस्वर'मित्युपमाऽङ्गीकारे क्रियाविशेषशालिस्वरूपविकस्वरस्य मुखे बाधात् कान्तिविशेषे लक्षणाप्रसङ्गः। 'मुखमेव पद्मम्' इति रूपकाङ्गीकारे तु विशेष्ये पद्मे विकस्वरत्वस्य मुख्यया वृत्त्याऽन्वयः सम्भवति । 'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देन सुवेषा हरिणेक्षणा॥' इत्यत्र रूंपकाङ्गीकारे भूषणादिकृतशोभाविशेषस्य लतायां बाधात् शोभामात्रे लक्षणाप्रसङ्गः, उपमाङ्गीकारे तु मुख्यया वृत्त्याऽन्वयः सम्भवतीत्येतादृशं विशेषमनवलोक्यैव केचिदेकदेशविवर्तिनीमुपमामनेकदेशविवर्तिनि रूपक एवान्तर्भावयन्ति । इति । यथा वा-'रूपजला चलनयना नाभ्यावर्ती कचावलिभुजङ्गा । मजन्ति यत्र सन्तः सेयं तरुणी तरङ्गिणी विषमा ॥' इति । अत्र हि रूपादौ जलादेरारोपस्य शाब्दत्वेऽपि नयने मीनत्वारोपस्यार्थत्वम् ।
एवं साङ्ग सप्रभेदं रूपकं निर्दिश्य निरङ्गं सप्रभेदं निर्दिशति-१०६केवलस्याङ्गिनः प्रधानस्येति यावत् । एव नतु 'सागस्येति शेषः । रूपणम् । निरङ्गं निर्गतान्यङ्गानि अप्रधानभूतान्यारोपमाणानीति यावत् यत्र तत् । 'रूपक'मित्य. नुषज्यते । तत् । अपि । मालाकेवलरूपत्वात् 'द्वन्द्वान्ते श्रयमाणं पदं प्रत्येकमभिसम्बध्यते' इति नयेन मालारूपत्वात् केवलरूपत्वाचेत्यर्थः । द्विधा । अयम्भावः-यत्राङ्गाङ्गित्वमपहाय केवलस्यैव रूपितत्वं तत् निरवयवंरूपम्, तदपि मालारूपत्वेन केवलरूपत्वेन च भिद्यमानं द्विप्रभेदं भवतीति ॥ ८५॥
उदाहरति-तत्र तयोमौलाकेवलरूपयोर्निरवयवयोरूपकयोर्मध्ये इत्यर्थः । मालारूपम् । निरङ्गम् । यथा-- धातर्विधातुर्जगद्रचयितुरिति यावत् । निर्माणकौशलं निर्माणस्य जगदुत्पादनस्य कौशलं चातुर्य्य तत्स्वरूपंभूतेति यावत । लोकचक्षुषाम् । चन्द्रिका कौमुदी आहादकत्वेन तथाभूतेति भावः । अनस्य कामदेवस्य । क्रीडागई तथाभूतेति भावः । सा प्रसिद्धा । इयं प्रत्यक्षभुता । इन्दीवरेक्षणेन्दीवरं नीलकमलं तद्वदीक्षणं यस्याः सा । इदम्बोध्यम्-अत्रेन्दीवरेक्षणाया एव सौन्दर्य्यातिशयं ध्वनयितुं रूपणं, नतु तदङ्गानामपि; तदिदं निरजम् । मालारूपत्वं त-एकस्यामेवोपमेयभूतायामिन्दीवरेक्षणायां बहूनां निर्माणकौशलादीनामुपमानानामारोपात् । यथा वा मम-'अमृतनिधित्वं शशिनो मदनत्वं वाऽपिं कामदेवस्य । लक्ष्म्या वा सुभगत्वं तव वदनं लोकसर्वस्वम् ॥' इति ॥ ११३॥
एवं मालारूपमुदाहृत्य निरङ्गमुदाहत्तुमाह-केवल मित्यादि। कंवलं 'निरवयव रूपक मिति पूर्वतोऽनुषज्यते । यथा। 'दास'इत्यादि। हे न्दरि! कृतासि कृतमागोऽपराधो येन तादृशे । दासे किङ्करे। प्रभूणाम अधीश्वराणाम् । पाद
दन प्रह: । उचितः। भवति । इति । अत्रास्मिन् पादप्रहारे। न । 'अह'मिति शेषः । दये खिद्यामि' १. उत पात: क खिन्न इवासीत्याशङ्कयाह यत् यतः उद्यत्कठोरपुलकाकुरकण्टकारुद्यन्त उन्मुखीभ. बन्तोऽत एव कठारा ये पुलकाङ्कुरा रोमोद्गमास्ते एव कण्टका दुमाजविशेषास्तेषामग्राणि पुरोभागास्तैः। मृद कोमलम् । पदमा भिद्यत माननु । मे मम । व्यथा । अयम्भावः-मानिन्या पादप्रहृतस्यापि तामनुनयतःकामुकस्योक्तिरियम । त्वया यः कुपितया पादः प्रह्रियते, तेनापि मम आश्लेषसुखेन रोमोद्गमः, अतोऽहं नितान्तं त्वय्यनुरक्तः, न च तत तव पादग्रहारः स्थाने । अथापि तव प्रेमवशात् तमविगणय्य प्रार्थये यत् त्वया प्रहृतं तस्वयोपकृतमेव मन्ये । यदि पापभान्त्योपदिष्ट कारित वा केनापि प्रभुणा प्रायश्चित्तमाचरन् कश्चिदपहन्यते । अथ-त्वया पादे प्रह्रियमाणे यो रोमोनमो जातस्तेन तव मृदोः पादस्य कण्टकाप्रैरिव यो भेदस्तेन केवलं दये । इति । अत्र पुलकाडकुरेषु कण्टकत्वारोपः केवल: