________________
परिच्छेदः)
रुचिराख्यया व्याख्यया समेतः।
१०७ तेनाष्टौ रूपके भिदाः । 'चिरन्तनरुक्ताः।' इति शेषः । क्वचित् परम्परितमप्येकदेशविवर्ति यथा
'पर्यको राजलक्ष्म्या हरितमणिमयः पौरुषान्धेस्तरङ्गो भग्नप्रत्यर्थिवंशोल्बणविजयकरिस्त्यानदानाम्बुपट्टः। सङ्ग्रामवासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः
खनः क्षमासौविदल्लः समिति विजयते मालवाखण्डलस्य ॥ ११५॥' अवार्थ:-क्षमायां महिषीत्वारोपः खड्ने सौविदल्लत्वारोपे निमित्तम् ।
अस्य भेदस्य पूर्ववत्केवलरूपत्वेऽपि उदाहरणं मृग्यम् ।
तदिदं निरवयवं केवलं रूपकम् । उत्प्रेक्षाऽपह्नती त्वत्र निरपेक्षोपस्थितिके बोध्ये ॥' यथा वा-'दैवात् पश्येजगति विचरन् मप्रियां मालती चेदाश्चास्यादौ तदनु कथयेाधवीयामवस्थाम् । आशातन्तुर्न च कथयतात्यन्तमुच्छेदनीयः प्राणत्राणं सपदि सुकरोत्यायताक्ष्याः स एकः ॥' इति, अत्र ह्याशायास्तन्तुत्वेन रूपणम् ।। ११४ ॥
एवमभिहितान् भेदान् गणयते-१०७तेनेत्यादिना । स्पष्टम् ।
अध्याहार्य्यमर्थ सूचयति-चिरन्तनैरित्यादिना । स्पष्टम् । इदम्बोध्यम्-रूपकं ताक्त् त्रिविधम्,साझं, निरज, परम्परितं चेति भेदात् । तत्र साङ्गं समस्तवस्तुविषयम्, एकदेशविवत्तिं चेति द्विविधम् । निरङ्गमपि मालारूपं केवलं चेति द्विविधम् । परम्परितं तु श्लिष्टशब्दनिबन्धनम्, अश्लिष्टशब्दनिबन्धनं चेति द्विविधम् । तच केवलं मालारूपं चेति द्विविधम् । एषां च सम्मेलमेऽष्टविधत्वं रूपकस्य । इति ।
चिरन्तनैरित्यनेनास्वरसतां ध्वनयितुमाह-क्वचित् । परम्परितम्। अपि । एकदेशविवर्ति एकोऽसौ देशोऽशस्तत्र विवर्त्तते विशेषतो वर्तत इति तथोक्तम् । यथा । 'पर्य्यङ्क' इत्यादि ।
'राजलक्ष्म्याः । हरितमणिमयो नीलमणिरचितः । पर्य्यङ्कः । पौरुषाब्धेरुद्यमरूपस्य समुद्रस्य । तरङ्गः। भग्नप्रत्यर्थिबंशोल्वणविजयकरिस्त्यानदानाम्बुपट्टो भग्नाः प्रत्यर्थिवंशाः शत्रूणां चंशाः शत्रुरूपा वा वंशवृक्षा येन तादृश उल्बणःप्रवृद्धप्रभावो यो विजयकरी विजयरूपो हस्ती तस्य स्त्यानदानं घनीभूतो मदः स एवाम्बु तस्य पट्टस्तनिःसरणस्थाने निबद्धवस्त्रभूतः । 'अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ।' इत्यमरः । 'वंशी वेणौ कुले वर्गे पृष्ठाद्यवयवेऽपि च ।' इति विश्वः । 'पट्टः पेषणपाषाणे व्रणादीनां च बन्धने । चतुष्पथे च राजादिशासनान्तरपीठयोः ॥' इति मेदिनी । सङ्ग्रामवासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः समामस्य त्रासो भयं तेन ताम्यन्तो ये मुरलपतियशोहंसा मुरलपतीनां यशोरूपाः हंसास्तेषां नीलाम्बुवाहो घनघटाप्रादुर्भावसमयस्वरूपः । वर्षांसु हि तडागेषु खिद्यन्तो हंसास्तान् परिहाय मानसं यान्तीति समयः, तथा `च-यशसां स्थानानि मुरलपतयस्तानि परित्याज्य मानसरूपं स्वमधिगमयितुं तथा भूत इति फलितोऽर्थः । क्षमासौविदल्लः क्षमायाः पृथिव्याः सौविदलः कञ्युकी तत्स्वरूपः । 'सोविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते।' इत्यमरः । मालवाखण्डलस्य मालवानामाखण्डल इन्द्रस्तस्य तथा भूतस्य । 'आखण्डलः सहस्राक्षः'इत्यमरः। खड्नः। समिति सङ्ग्रामाङ्गणे। विजयते । स्रग्धराछन्दः॥११५॥'
उदाहृतमर्थ निर्दिशति- अत्र । मायां पृथिव्याम् । 'क्ष्माऽवनिर्मेदिनी मही।' इत्यमरः । महिषोत्वारोपो राज्ञीत्वमारोप्याभिधानम् । आर्थोऽर्थवशलभ्यः । अतोऽस्यैकदेशविवर्तित्वमिति भावः । स च-खड़े खड्गविषयकतया निरूपिते । सौबिदल्लत्वारोपे कन्चुकित्वारोपे। निमित्तं कारणभूतः । अतोऽस्य परम्पारतत्वमिति भावः । अयम्भावः-सौबिदल्लोऽन्तःपुरे स्त्रीणां रक्षायामधिकृतो भवति, क्ष्मायाश्च स्त्रीत्वमन्तरा सौविदल्लत्वासम्भव इति तदुपपादयितुमार्थ आरोपस्तत्राङ्गीक्रियते । स च क्षमायां महिष्यामिव राजभोग्यत्वसादृश्यनिबन्धनः । इदं च रूपकमश्लिष्टशब्दनिबन्धनं निरहं च । इति ।
एवं मालारूपस्य निरङ्गस्य परम्परितत्वे उदाहरणं निर्दिश्य मालारूपस्योदाहरणान्वेषणीयतामाह-अस्येत्यादिना ।