________________
१९६
साहित्यदर्पणः ।
१०८ दृश्यन्ते कचिदारोप्याः श्लिष्टाः साङ्गेऽपि रूपके ॥ ८६ ॥
तत्रैकदेशविवर्त्ति लिष्टं यथा मम
'करमुदय महीधरस्तनाग्रे गलिततमः पटलांशुके निवेश्य | विकसितकुमुदेक्षण विचुम्बत्ययममारेशदिशो मुखं सुधांशुः ॥ ११६ ॥' समस्त वस्तुविषयं यथाऽत्रैव - 'विचुम्बती' त्यादौ 'चुचुम्बे हरिदवलामुखमिन्दुनायकेन ॥' इति पाठे । न चात्र लिष्टपरम्परितम्, तत्र हि 'भूभृदावलिदम्भोलिः' इत्यादौ राजादौ पर्वतत्वाद्यारोप विना वर्णनीयस्य राजादेर्दम्भोलिताssदिरूपणं सर्वथैव सादृश्याभावाद सङ्गतम् । कथं तर्हि पद्मो दर्यादिनाधीशः' इत्यादौ परम्परितम्, राजादेः सूर्य्यादिना सादृश्यस्य तेजस्विताहेतुकस्य सम्भवादिति न वाच्यम्, तथा हि- राजादेस्तेजस्विता हेतुकं सुव्यक्तं सादृश्यम् नतु तत् प्रकृते विवक्षि
[ दशम:
स्पष्टम् । उदाहरणं यथा - 'मधुरिमसम्भृतरदुनं सुस्मितरुचिरं सदैव रम्भोरु ! शोणिमसुस्फुरदल्पं सुभगे वदनं तवेदमाभाति ॥ इति । अत्र हि रदनेषु मधुरिमसम्भृतत्वमारोप्यमाणं दाडिमबीजत्वारोपस्यार्थस्य कारणभूतम् । अतः परम्परितमेकदेशविवत्तदं रूपकम् । पूर्वत्र तु खने पय्र्यङ्कादीनां बहूनामारोप्यमाणत्वान्मालारूपमेव । एतेन - 'मालारूपत्वेऽप्युदाहरणं मृग्य' मित्युपलभ्यमानः पाठः प्रामादिक इति सूचितम् ।
एवं निरङ्गे विशेषं दर्शयित्वा साङ्गे विशेषं निर्देष्टुमाह-१०८ क्वचित् । साङ्गे सावयवे । रूपके । अपि । लिष्टाः श्लषमूलाः । आरोप्याः । दृश्यन्ते ॥ ८६ ॥
उदाहर्तुमुपक्रमते-तत्र साङ्गेषु श्लिष्टेषु रूपकेषु मध्ये इति यावत् । एकदेशविवर्त्ति । लिष्टम् । यथा । - 'अयम् । सुधांशुः । गलिततमः पटलांशुके गलितं स्थानाच्च्युतं तमःपटलांशुकं यस्य तस्मिन्निति तथोक्ते । तमसां पटलं पुञ्ज एवांशुकमिति तमःपटलांशुकम् । उदयमहीधरस्तनाग्रे उदयमहीधर उदयाचल एवं स्तनस्तस्याग्रं तस्मिन् तदुपरीति भावः । करं किरणं तद्रूपं हस्तमिति भावः । ' वलिहस्तांशवः कराः । इत्यमरः । निवेश्य स्थापयित्वा । अमरेशदिश इन्द्राधिष्ठिताया दिशः प्राच्यास्तद्रूपाया नायिकाया इति यावत् । विकसितकुमुदेक्षणं विकसितानि यानि कुमुदानि तान्येवेक्षणानि नयनानि यत्र तादृशम् । मुखम् । विचुम्बति विशेषेण चुम्बति । पुष्पिताग्रावृत्तम् । अत्रामरेश दिशि नायिकात्वारोपस्य सुधांशौ नायकत्वारोपस्यार्थत्वादेकदेशविवर्त्ति करादेः ष्टत्वात् श्लेष निबन्धनं चेदम् ॥ ११६॥'
समस्त वस्तुविषयमुदाहर्त्तु काम आह- समस्तेत्यादि । स्पष्टम् । अत्र हि आरोपस्य शब्दमात्रत्वात् समस्तवस्तुविषयत्वम् ।
टिपरम्परिततोऽस्य भेदं दर्शयितुमाह-न च । अत्रास्मिन्नुदाहृते पये । श्लिष्टपरम्परितम् । 'शक्य' मिति शेषः । हि यतः । तत्र लिष्टपरम्परिते । 'भूभृदावलिदम्भोलिः' इत्यादौ । राजादौ । पर्वतत्वाद्यारोपम् । विना । वर्णनीयस्य । राजादेः । दम्भोलिताssदिरूपणं वज्रत्वादिना निरूपणम् । सर्वथा । एव । सादृश्याभावात् । असङ्गतम् । 'अत्र तु न तथा, महीधरादेः स्तनादिना सादृश्यस्य पीनत्वोश्चत्वादिना सुव्यक्तत्वा' दिति शेषः । कथम् । तर्हि | 'पद्मोदयदिनाधीशः' इत्यादौ । परम्परितं श्लिष्टपरम्परितम् । तं निर्दिशति - राजादेः | सूर्य्यादिना । सहार्थेयं तृतीया । तेजस्विताऽऽदिहेतुकस्य । साह श्यस्य । सम्भवात् । इति । न । वाच्यम् । तथा हि । राजादेः । 'सूर्य्यादिने' ति शेषः । तेज assदिहेतुकम् । खादृश्यम् । सुव्यक्तम् । नतु । प्रकृते पद्मोदयदिनाधीश' इत्यादावित्यर्थः । तत् सादृश्यमित्यर्थः । विवक्षितम् । पद्मोदयादेः पद्मोदयादिपदार्थस्य । एव 'नतु तेजस्विताऽऽदेरिति शेषः । द्वयो राजा
।
1