________________
परिच्छेदः ]
रुचिराण्यया व्याख्यया समेतः।
तम् । पद्मोदयादेवि द्वयोः साधारणधर्मतया विवक्षितत्वात् । इह तु महीधरादेः स्तनादिना सादृश्यं पीनत्वोत्तुङ्गत्वादिना सुव्यक्तमेवेति न' श्लिष्टपरम्परितम् ।
क्वचित्खमासाभावेऽपि रूपकं दृश्यते, यथा-'मुखं तव कुरङ्गाक्षि ! सरोजमिति नान्यथा।' क्वचिद् वैयधिकरण्येऽपि, यथा-'विदधे मधुपश्रेणीमिह भूलतया विधिः ।' क्वचिद् वैधम्र्येऽपि, यथा; मम
'सौजन्याम्बुमरुस्थली सुचरितालेख्याभित्तिर्गुणज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा। यैरेषाऽपि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत् कौशलम् ॥११७॥'
दिदिनाधीशाद्योः । साधारणधर्मतया । अभेदार्थेयं तृतीया । विवक्षितत्वात् । इह 'करमुदयमहीधरस्तनाग्रे. इत्यत्र । तु । महीधरादेः। स्तनादिना । पीनत्वोत्नुङ्गत्वादिना । अभेदार्थेयं तृतीया । सादृश्यम् । सुव्यक्तम् । 'विवक्षित' मिति शेषः । एद। इति । श्लिष्टपरम्परितम । न । अयम्भाव:-'पद्मोदयदिनाधीश' इत्यादी पद्मोदयादिशब्दानां द्वयर्थतया श्लेषमहिना पद्मोदयादौ (लक्ष्मीसञ्चयादौ) पद्मोदया (कमलविकासा) द्यारोपो राजादौ दिनाधीशत्वाद्यारोपस्य निमित्तभूतमिति पद्मोदयादिप्रकारकदिनाधीशादे राजादावन्वयात् पद्मोदयादी राजादिदिनाधीशाद्योः साधारणो धर्मः, अत एतत्कारणकमेव सादृश्यं विवक्षितम्, नतु तथाऽत्राऽपि । यदि च तत्रापि तेजस्विताऽदि हेतुकमेव नतु पद्मोदयादिश्लेषमूलकसादृश्यमविवक्षिष्यत्, तदाऽत्रेव न तत्रापि श्लेषपरम्परितं समभविष्यत् । नच प्रकृते, महीधरादिना हि स्तनादेर्यत् साधर्म्य विवक्षितम्, तत् पीनत्वोत्तुङ्गादिनिमित्तकमश्लिष्टम्, न चारोपान्तरोत्थापितम् । इति महान् विशेषः । इति दिक् । अत्राहुस्तर्कवागीशाः-'नन्वत्र शब्दसाम्यविवक्षावशात् प्रसिद्धतेजस्वितादिरूपसाम्यविवक्षायास्तु, 'त्रैलोक्यमण्डपस्तम्भा' इत्यादौ तु दीर्घत्वपीवरत्वादिसाम्यसम्भवेनात्र तन्मूलक एव स्तम्भत्वाद्यारोपोऽस्तु त्रैलोक्यादौ मण्डपत्वाद्यारोपस्य तत्कारणत्वस्वीकारेण किमिति चेत्, न । स्तम्भा यथा मण्डपभारसहिष्णवः, तथा हरिबाहवत्रैलोक्यभारसहिष्णव इति साम्यस्यैव विवक्षितत्वात् । तच्च त्रैलोक्यादौ मण्डपत्वाद्यारोपं विना दुर्बोधम् ।'
इति । इदं च व्यस्तं समस्तं व्यस्तसमस्तं चेति त्रिविधं द्योतयितुमाह-क्वचिदुदाहारष्यमाणे काव्ये इत्यर्थः । समा- साभावे । अपि। रूपकम् । दृश्यते । उदाहरति-यथा। 'मुखमित्यादि । स्पष्टम् । 'लावण्यं सलिलं स्वच्छं त्वं
चासि सरसी प्रिये।' इति शेषः ॥' यथा वा मम-'नयने मीनावूरू कदली, उदरं च मुष्टिमेयत्वम् । विकसद्वदनं कमलं, सुभगे! नासे रतीशतणीरौ॥' इति । एवं सामानाधिकरण्य उदाहृत्य वैयधिकरण्येऽप्युदाहर्तुमाह-क्वचित वैयधिकरण्ये व्यधिकरणस्य भावस्तत्र । सत्यर्थेयं सप्तमी । अपि । 'रूपकं दृश्यते' इति' शेषः । यथा-'विधि. विधाता । इहास्यां नायिकाया'मित्यर्थः । भूलतया। अभेदार्थेय तृतीया । मधुपश्रेणी भ्रमरावलिम् । विदधे । विहितवान् । 'वदनेन सुधांशु च लावण्येन च जीवनम् ॥ इति शेषः । अत्र हि भूलताऽऽदौ मधुपश्रेण्याद्यारोपो व्यधिकरणः ।
__ वैधम्र्येऽपि रूपकसद्भावं दर्शयितुमाह-क्वचित् । वैधये विरुद्धधर्मसद्भावे । अपि । 'रूपकं दृश्यते' इति शेषः । यथा । मम-सौजन्येत्यादि ।
'सौजन्याम्बुमरुस्थली सौजन्यमेवाम्बु तस्य मरुस्थली मरुप्रदेशभूतेत्यर्थः । सौजन्यहीनेति भावः । सुचरितालेख्याभित्तिः सुचरितान्येवालेख्यानि लेखनीयानि चित्राणि तेषां धुभित्तिराकाशरूपं कुड्यम्, तथाभूतेत्यर्थः । सुचरिततयाऽपि सर्वथा शून्येति भावः । गुणज्योत्स्नाकृष्णचतुर्दशी गुणा एव ज्योत्स्ना तासांः कृष्णचतुर्दशी कृष्णपक्षीया चतुर्दशी तत्तुल्येत्यर्थः । गुणैरपि सर्वथा हीनेति भावः । सरलतायोगश्वपुच्छच्छटा सरलताया योगः सम्बन्धः तस्य श्वपुच्छच्छटा कुक्कुरपुच्छाकृतिभूतेत्यर्थः। सरलताया अपि सम्बन्ध त्यक्त्वा स्थिता । एषा। दुराशया दुरभित्रायो । राजावली राजपरम्परा । यैः। कलियुगे। अपि । सेविता । तेषाम् । भक्तिमात्रसुलभे भक्ति