Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 768
________________ १९० ... साहित्यदर्पणः । । दशमः_ 'निरपह्नव' इत्यपहुतिव्यवच्छेदार्थम् । १०१ तत्परम्परितं साङ्ग निरङ्गमिति च त्रिधा ॥८१॥ तडूपकम् । तत्र १०२ यत्र कस्यचिदारोपः परारोपणकारणम् । तत्परम्परितं श्लिष्टाश्लिष्टशब्दनिबन्धनम् ॥८२॥ प्रत्येकं केवलं माला-रूपं चेति चतुर्विधम् । तत्र-शिष्टशब्दनिबन्धनं केवलपरम्परितं यथा'आहवे जगदुद्दण्डराजमण्डलराहवे । श्रीनृसिंहमहीपाल ! स्वस्त्यस्तु तव वाहवे ॥१०७॥' णामे हि आरोप्यमाणस्य प्रकृतोपयोगित्वेनाप्रकृतत्वनियतोपमानताया बाधितत्वात् 'रूपिते'ति पदेन तव्यवच्छेदः । इति । निरपह्नव' इति 'विशेषण'मिति शेषः । अपहतिव्यवच्छेदार्थमपद्भुतेर्व्यवच्छेदाय । अपहृतौ हि उपमेयगोपनेन भेदस्याप्यपह्नव इति स्फुटं ततोऽस्य भेदः। निगीर्याध्यवसानरूपायामतिशयोक्तौ विषयस्य निगीर्णत्वाच्च प्रत्यक्षो भेदः। एवं निदर्शनायामुपमेयस्य सत्त्वेऽपि आरोपस्यारूपितत्वाद्रेदः । भ्रान्तिमति भ्रान्तेरुत्थानावसरे एव विषयापह्नव इत्यस्य भेदः । उत्प्रेक्षायामपि नारोपः,किन्तु अभेदेन तथा सम्भावनमिति व्यवच्छेदः। विकसितं वदनकमल'मिति समासस्थले विशेषणस्य मुख्यतया, उपमानगतत्वादरूपकम् । उपमेयगतत्वे तु उपमा, यथा 'सहासं वदनकमल'मिति, उभयत्र तुल्यरूपत्वे रूपको. पमयोः सङ्करः। 'यथा रमणीयं वदनकमलम्'इति,अत्रापि-'रमणीयत्वमहो वदनेन्दोः' इत्युभयत्र रमणीयत्वस्यानुगतत्वेऽपि समासस्य मयूरव्यंसकादित्वान्न रूपकोपमयोः सङ्करः,किन्तु रूपकमेव । उपमा.हि 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति समाससत्त्व एव । अयमपि समास उपमानोपमेययो: समानलिङ्गत्वे सम्भवतीत्यत्र च समानलिङ्गत्वाभावादस्य चाभावादूपकमेवेति बोध्यम् । अस्य च प्रथमं भेदत्रयं निर्दिशति-तद्रूपकम्।परम्परितम् परम्परा कार्यकारणभावानुपूर्वी जाताऽस्यास्मिन् वेति तथोक्तम् । साङ्गं सावयवम् । तथा-निरङ्गं निरवयवम् । इति । च। त्रिधा॥ ८१॥ तत्पदं व्याचष्टे-तदित्यादिना । स्पष्टम् । तत्रापि परम्परितं लक्षयन् तद्भेदानाह-तत्र तेषु त्रिविधेषु रूपकेषु मध्ये इत्यर्थः । यत्र यस्मिन् निरुक्तलक्षणाति' मान्तेऽलकारे । कस्यचित् । आरोपः । परारोपणकारणं परमन्यद् यदारोपणं तस्य कारणं निमित्तभूतमिति तथोक्तम् । तत् । परम्परित कार्यकारणरूपाऽऽरोपपरम्परा जाताऽस्येति तथोक्तम् । तदस्य सजातं तारकादिभ्य इतन् ।' ५।२। ३६ इतीतच । तदाख्यं रूपकमित्यर्थः। एतदेव-श्लिष्टाश्लिष्टशब्दनिबन्धनं श्लिष्टं श्लेषानुगृहीतम. श्लिष्टं श्लेषाननुगृहीतं तयोः शब्दयोः निबन्धनं वर्णनसम्पत्तिर्यस्य तत्तथाविधम् । केवलमामालारूपम् च । इति । प्रत्येकम् 'भिद्यमान'मिति शेषः । चतुर्विधम् । अयम्भावः । आरोपान्तरकारणकारणीभूतः कस्यचिदारोप: परम्परितं नाम रूपकालङ्कारः, असौ च केवलरूपो मालारूपश्च द्विविधः, अनयोरपि द्वयोर्विधयोः प्रत्येकं श्लिष्टनिबन्धनत्वमश्लिष्टनिबन्धत्वञ्चेति द्वैविध्ये चातुर्विध्यमिति ॥८२॥ क्रमादुदाह काम आह -तत्र तेषु चतुषु भेदेषु मध्ये । श्लिष्टशन्दनिवन्धनं श्लिष्टाः श्लेषानुगृहीता ये शब्दास्तैनिवन्धनं यस्य, श्लिष्टाः शब्दा यत्र तादृशं निषन्धनं यस्येति वा तत्तथोक्तम् । केवलपरम्परितम् । यथा । आहवे इत्यादि। ___हे श्रीनृसिंहमहीपाल ! आहवे समामे । 'आहवः सङ्गरे यज्ञे' इति हैमः । जगदुद्दण्डराजमण्डलरा. हवे जगति विश्वस्मिन् विश्वे ये उद्द निरङकुशा: कुलागममादोल्लङ्घिनः खविक्रममदेन परं तुच्छं मन्यमाना ये राजानहतेषां मण्डलं चक्रं तस्य राहस्तस्मै तत्स्वरूपभूतायेत्यर्थः । तव । बाहवे । स्वस्ति। अस्तु ॥१०॥

Loading...

Page Navigation
1 ... 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910