Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi
View full book text ________________
१४६
साहित्यदर्पणः ।
७४ पुनस्त्रिधा सभङ्गोऽथाभङ्गस्तदुभयात्मकः ॥ ६५ ॥
लान्ति गृहन्तीत्येवंभूतायेऽलिनस्तैर्वरम् । विषमं विरहिजनदुःखावहम् । सलिलम् । शाम्यतः शमयुज: । 'अपी'ति शेषः । मारयति।'शरदि तादृशं सलिलं विलोक्य मुनयोऽपि म्रियन्ते इति निष्कर्षः । ' कमनेकतमादानं सुरतनरजतु च्छलं तदासीनम् । अप्यतिमानं खमते सोऽगनिकानं न रंजेतुम् ।' इदं संस्कृतपैशाच्युदाहरणम् । 'कामे कृतामोदानां सुवर्णरजतोच्छलद्दासीनाम् । अप्रतिमानं क्षमते सगणिकानां न रञ्जयितुम् ॥' इति पैशाच्याः संस्कृतम् । तदर्थो यथा - 'हे सुरतनः निधुवन पुरुष ! खवच्छून्या मतिर्यस्य तत्सम्बुद्धौ । सः । कम् । अनेकतमान्यादानानि यस्मात्तत् । तत् प्रसिद्धम् | छलम् (कर्म) आसीनमाश्रितम् । अप्पतेर्वरुणस्येव मानोऽभिमानो यस्य तम्। अगा निश्चला निकाना दीप्तिर्यस्य तम् नम् । जेतुम् | अहो | अजतु यातु ॥ ' यद्वा'कामकृत आमोदो यासां तासाम् | सुवर्णरजताभ्या मुच्छलन्त्यो दास्यो यासां तासाम् |गणिकानाम् । रञ्जयितुम् । अप्रतिमानम् । स: । न क्षमैते ॥’इति । 'तोदी सदि गगणमदो, कलहंससदाबलंविदन्तरिदम् । आरदमेहावसरं सासदमारं गदासारम् ॥' इदं संस्कृतशौरसेन्युदाहरणम् । 'ततो दृश्यते गगनमदः कलहंसशतावलंबितान्तरितम् । आरतमोघावसरं शाश्वतमा रंगतासारम् ॥' इति शौरसेन्याः संस्कृतम् । तदर्थो यथा - ' तुदति परानिति तोदी, देशनं दिगुपदेशस्तया सह वर्त्तत इति सदिक् । नगणेन सहायेन मदो यस्य सः । सः । वित् । सदा । अलहम् । दमेहाया अवसरो यस्य तत् । अस्यन्ते क्षिप्यन्ते इत्यासाः शरास्तान् द्यन्तीत्यासदा धनुर्धरास्तैः सह वर्तत इति सासदम् । गदाभिः सारमिति गदासारम् । इदम् । आरमरिसक्तम् । बलम् । अन्तः आरससारे ॥' यद्वा - आरतोविरती मेघावसरो यत्र तत् शाश्वतो मारो यत्र तत् । गतः प्रावारो यतस्तत् । कलहंसशतेनाबलम्बितमंतारितं चेति तथोक्तम् । अदः । गगनम् । ततः प्रावृषोऽपगमानन्तरम् । दृश्येते ॥' इति । 'धीरा गच्छदु मेहतमुदुद्धखारिसदःसु । अभ्रमदप्सराहरणु रविकिरणा ते जःसु ॥' इदं संस्कृतापभ्रंशोदाहरणम् । 'धीरा गच्छतु मेघतमो दुर्द्धवार्षिकदस्यु । अभ्रमदप्रसराहरणं रविकिरणास्ते यस्य ॥' इत्यपभ्रंशसंस्कृतम् । तदर्थो यथा है उसे धीरा भव यतः - अवेर्गड्डारिकाया इव किरणं विक्षेपणं निर्वासनं यस्याः सा हितामुद्यस्याः सा । अणुः कृशा अमात्येवंभूतप्रसरो जलप्रसारो यस्याः सा गङ्गा । अहर्दिवसम् । 'अपी'ति शेषः । उद्गता धरा ( पृथिवी ) प्रलयापत्रिममा यस्मात्तच्च यद्वारि जलं तदेव सदः स्थानं येषां तेषु । तेजःसु । वडवानल तेजः स्वित्यर्थः । अगच्छदपतेत्॥' यद्वा-हे धीराः । दुधे वार्षिका दस्यवो यत्र तत् । मेघतमः । अच्छतु । यस्य (मेघतमसः ) न भ्रमं ददातीत्येवंभूतः प्रसरो येषां ते रविकिरणाः । हरणं हर्त्तारः ॥' इति । एवं प्राकृतमागध्यादीनामप्युदाहरणानि द्रष्टव्यानि । यत्तु तत्रैव वाक्ये यत्र कस्मिभाषानिबन्धनं क्रियते । अयमपरो विद्वद्भिर्भाषा श्लेषोऽत्र विज्ञेयः ॥' इत्युक्तम् । तन्मन्दम्, अर्थविशेषमन्तरा Seटयोरपि भाषयोः साधारण्यात्तत्समत्वस्यैवाङ्गी कार्यत्वात् । एतेन 'समरे भीमारम्भं विमलासु कलासु सुन्दरं सरसम् । सारं सभासु सूरिं तमहं सुरगुरुसमं वन्दे ॥' 'शूलं शलन्तु शं वा विशन्तु शबलावशं विशङ्का वा । अशमदशं दुःशीला दिशन्ति काले खला अशिवम् ॥' ' चम्पाककलिकाकोमलकान्तिकपोलाऽथ दीपिकाऽनङ्गी । इच्छति गजपतिगमना चपलायतलोचना लपितुम् ॥' 'अधरदलं ते तरुणा मदिरामद मधुरवाणि ! सामोदम् । साधु पिबन्तु सुपीवर परिणाहि पयोधरारम्भे ॥' 'क्रीडन्ति प्रसरन्ति मधुकमलप्रणयि लिहन्ति । भ्रमरामित्रसुविभ्रमा मत्ता भुरि रसन्ति ॥' इत्यादीनि संस्कृतसमानि प्राकृतमागधी पैशाची शौरसेन्यपभ्रंशवाक्यानि न श्लेषव्यपदेशभाञ्जि, अर्थविशेषमन्तरेण : स्वरूपसमानयोविजातीयत्वाभावे तयोः श्लेष एव सादृश्यमिति वक्तुमर्हत्वादिति सूचितम् । इति ।
अस्य पुनः प्रभेदानवतारयति -
[ दशम:
७४ खभङ्गो भङ्गेन पद (शब्द) भङ्गेन सह वर्त्तत इति तथोक्तः । अथ । अभङ्गो न भङ्गः पदभङ्गो यत्र सः । तथा - तदुभयात्मकस्तौ सभङ्गाभङ्गौ चामू उभयौ, तावात्मानौ यस्य सः । इत्येवम् - पुनः । श्लेष' इति शेषः ।
१ शरदि पान्थस्य तत्कालिकं सलिलं विलोकयत इयमुक्ति: । २ पौरुषस्तवनार्थेयमुक्ति: । ३ वेश्यासङ्गेन खिन्नस्येमुक्तिः । ४ रणस्थस्य कस्यापि वर्णनमिदम् । ५ शरदि नभोवर्णनमिदम् । ६ गङ्गाव्यसनं दर्शयन्त्या गौरीसख्या गौरी प्रत्युक्तिरियम् । ७ गौर्याः पुरस्ताद्धरसमरवर्णनमिदम् ।
Loading... Page Navigation 1 ... 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910