Book Title: Sahitya Darpan Nam Alankar Sandarbh
Author(s): Vishvanathak Viraj, Shivdutta Kavi
Publisher: Kshemraj Krushnadas Shreshthi

View full book text
Previous | Next

Page 745
________________ परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः। १६७ ७८ सा पूर्णा यदि सामान्यधर्म औपम्यवाचि च । उपमेयं चोपमानं भवेद्वाच्यम्__ सोपमा, सामान्यधर्मो द्वयोः सादृश्यहेतुमनोज्ञत्वादिः, औपम्यवाचकमिवादि, उपमेयं मुखादि, उपमान चन्द्रादि। ७८ अस्याः पूर्णा लुप्ता चंति भेदद्वयं विवक्षुस्तावत् पूर्णी लक्षयति-सेत्यादिना । ७८ यदि । सामान्यधर्म उपमानोपमेयोभयगतो लक्षणीयत्वेन अभिमतो धर्मविशेषः । औपम्यवाच्यौपम्यस्य साधर्म्यस्य वाचि 'इववद्वायथातुल्यसमाननिभसम्मितम् । सदृशं च समं प्रायः सन्निभं च सहकपदम् ॥' इत्यादिपदमिति यावत् । च । उपमेयम् । च । उपमानम् । वाच्यमभिधया प्रतिपाद्यम् । भवेत् । 'तही' ति शेषः । सा निरुक्तलक्षणा 'साम्यं वाच्य'मिति लक्षितेति यावत् । पूर्णा । 'उपमे' ति पूर्वतोऽनुकान्तम् । तथा च-निरुक्त लक्षणेव यापमासामान्यधर्मप्रतिपादनपुरस्सरमिवाद्युपादाने सति उपमेयोपमानयोः शोभाऽतिशयामभिधानं स्यात् । तदाऽसौ पूर्णेति निर्गलितोऽर्थः । सूत्रार्थ सुबोधयितुं तत्पदानि व्याचष्टे-सा 'इत्यस्येति शेषः। उपमा 'साम्यं वाच्यमवैधय॑ वाक्यैक्य उपमा द्वयोः।' इत्युक्तलक्षणोऽलङ्कारविशेषः 'इत्यर्थ'इति शेषः। सामान्यधर्मः साधारण धर्मः। 'नामेति शेषः । द्वयोः प्रसिद्धयोरुपमानोपमेययोरिति भावः । सादृश्यहेतुः। मनोज्ञत्वादिः। आदिना 'भाती' त्यादीनां ग्रहणम् । 'सादृश्यहेत गुणक्रिये मनोज्ञत्वादि'रिति पाठान्तरे सादृश्यहेतुभूते ये गुणक्रिये तद्रूपो मनोज्ञत्वादिरित्यर्थः । तत्र मनोज्ञत्वादिर्गुणो, 'भाती'त्यादिः किया । इति बोध्यम् । औपम्यवाचकं सादृश्यवाचि । निपातानां द्योतकत्वेऽपि वाचकत्वाङ्गीकारः साम्यस्य वाच्यत्व. विवक्षास्फुटीकरणार्थः । यद्वा-अव्ययानामपि अन्विताभिधानस्वीकाराद्वाचकत्वोपपत्तिरिति । बोध्यम् । 'नामे'ति शेषः । इवादि । आदिपदेन वद्वावयथातथा समसमानसम्मितसन्निभादेर्ग्रहणम् । अत्रेदम्बोध्यम् “इववद्वायथाशब्दा.समाननिभसन्निभाः । तुल्यसङ्काशनीकाशप्रकाशप्रतिरूपकाः ॥ प्रतिपक्षप्रतिद्वन्द्वि-प्रत्यनीकविरोधिनः । सहसदृशसंवादिसजातीयानुवादिनः ॥ प्रतिबिम्बप्रतिच्छन्दसरूपसमसप्रभाः । सलक्षणसदृक्षाभाः सपक्षोपमितोपमाः ॥ कल्पदेशीयदेश्यादिप्रख्यप्रतिनिधी अपि । सवर्णतुलितौ शब्दौ ये वाऽन्यूनार्थवाचिनः ॥ समासश्च बहुव्रीहिः शशाङ्कवदनादिषु । स्पर्धते जयति द्वेष्टि दुह्यति प्रतिगर्जति ॥ आक्रोशत्यवजानाति कदर्थयति निन्दति । विडम्बयति संरुन्धे हसतीय॑त्यसूयति ॥ तस्य मुष्णाति सौभाग्यं तस्य कान्ति विलुम्पति । तेन सार्धे विगृह्णाति तुलां तेनाधिरोहति ॥ तत्पदव्यां पदं धत्ते तस्य कक्षा विगाहते । तमन्वेत्यनुबध्नाति तच्छीलं तनिषेधति ॥ तस्य चानुकरोतीति शब्दाः सादृश्यसूचकाः" इत्युक्तदिशेवादयः ‘बन्धुश्चौरः सुहद्वादी प्रतिमा प्रतिभा तथा। सोदरः प्रतिभानं च प्रतिमानं च वादि च॥' इत्युक्तदिशा बन्ध्वादयश्चौपम्यार्थाः, एषु च. इवाद्यास्सोदराद्याश्च अभिधिया, स्पर्धते इत्यादयो बन्ध्वादयश्च लक्षणया,हसतीत्याद्या व्यञ्जनया सादृश्यमवगमयन्ते । इति । उपमेयमुपमातुं समानतया प्रत्याययितुं योग्यम् । 'यथेति शेषः । मुखादि । आदिनोर्वादीनां ग्रहणम् । उपमानमुपमीयते समानतया प्रत्याय्यतेऽनेनेति तथोक्तम् । 'यथेति शेषः । चन्द्रादि । आदिना रम्भादीनां ग्रहणम् । तथा चयत्रोपमेयोपमानयोः प्रसिद्धयोः सतो: सप्रभेदमभिधानमिवायुपादानपूर्वकं सचमत्कारकारणमेकवाक्यगतं सामान्यधर्मवाच्यत्वं सा पूर्णोपमा । अत्र'द्वयो'रित्येतावतोपादानेनोपमेयोपमानयोः प्रसिद्धत्वमभिप्रेयते । अत एवाहुः-“यदाऽयमुपमानांशो लोकतः सिद्धिमृच्छति । तदोपमैव येनेवशब्दः सादृश्यवाचकः ॥ यदा पुनरय लोकादसिद्धः कविकल्पितः । तदोत्प्रेक्षैव येनेवशब्दः सम्भावनापरः ॥” इति । एवं च-'मुखमिव कमलं रुचिर'मित्यादौ नातिव्याप्तिः । मुखस्योपमानत्वेन कमलस्य चोपमेयत्वेनाप्रसिद्धः । इवाद्युपादानपूर्वकमित्यनेन 'मुखं शशाङ्कसुन्दर'मित्यादेरस्या व्यवच्छेदः। सचम. त्कारकारणमित्यनेन-'मुखं कमलमिव सितम्' इत्यादेर्व्यवच्छेदः, अत्र हि सादृश्यवाच्यत्वादिसत्त्वेऽपि चमत्कारकत्वाभावान्नात्रालङ्कारत्वम् । एकवाक्यगतमित्यनेन 'चन्द्रायते शुक्लरुचाऽपि हंसो हंसायते चारुगतेन कान्ता' इत्यादेर्व्यवच्छेदः। सामान्यधर्मवाच्यत्वमित्यनेन-'कमलमिव वदन' मित्यादेव्यवच्छेदः। सामान्यधर्मों नाम सादृश्याद्यपरपर्य्यायः, सादृश्यं च

Loading...

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910