________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।
१६७ ७८ सा पूर्णा यदि सामान्यधर्म औपम्यवाचि च ।
उपमेयं चोपमानं भवेद्वाच्यम्__ सोपमा, सामान्यधर्मो द्वयोः सादृश्यहेतुमनोज्ञत्वादिः, औपम्यवाचकमिवादि, उपमेयं मुखादि, उपमान चन्द्रादि।
७८ अस्याः पूर्णा लुप्ता चंति भेदद्वयं विवक्षुस्तावत् पूर्णी लक्षयति-सेत्यादिना ।
७८ यदि । सामान्यधर्म उपमानोपमेयोभयगतो लक्षणीयत्वेन अभिमतो धर्मविशेषः । औपम्यवाच्यौपम्यस्य साधर्म्यस्य वाचि 'इववद्वायथातुल्यसमाननिभसम्मितम् । सदृशं च समं प्रायः सन्निभं च सहकपदम् ॥' इत्यादिपदमिति यावत् । च । उपमेयम् । च । उपमानम् । वाच्यमभिधया प्रतिपाद्यम् । भवेत् । 'तही' ति शेषः । सा निरुक्तलक्षणा 'साम्यं वाच्य'मिति लक्षितेति यावत् । पूर्णा । 'उपमे' ति पूर्वतोऽनुकान्तम् । तथा च-निरुक्त लक्षणेव यापमासामान्यधर्मप्रतिपादनपुरस्सरमिवाद्युपादाने सति उपमेयोपमानयोः शोभाऽतिशयामभिधानं स्यात् । तदाऽसौ पूर्णेति निर्गलितोऽर्थः ।
सूत्रार्थ सुबोधयितुं तत्पदानि व्याचष्टे-सा 'इत्यस्येति शेषः। उपमा 'साम्यं वाच्यमवैधय॑ वाक्यैक्य उपमा द्वयोः।' इत्युक्तलक्षणोऽलङ्कारविशेषः 'इत्यर्थ'इति शेषः। सामान्यधर्मः साधारण धर्मः। 'नामेति शेषः । द्वयोः प्रसिद्धयोरुपमानोपमेययोरिति भावः । सादृश्यहेतुः। मनोज्ञत्वादिः। आदिना 'भाती' त्यादीनां ग्रहणम् । 'सादृश्यहेत गुणक्रिये मनोज्ञत्वादि'रिति पाठान्तरे सादृश्यहेतुभूते ये गुणक्रिये तद्रूपो मनोज्ञत्वादिरित्यर्थः । तत्र मनोज्ञत्वादिर्गुणो, 'भाती'त्यादिः किया । इति बोध्यम् । औपम्यवाचकं सादृश्यवाचि । निपातानां द्योतकत्वेऽपि वाचकत्वाङ्गीकारः साम्यस्य वाच्यत्व. विवक्षास्फुटीकरणार्थः । यद्वा-अव्ययानामपि अन्विताभिधानस्वीकाराद्वाचकत्वोपपत्तिरिति । बोध्यम् । 'नामे'ति शेषः । इवादि । आदिपदेन वद्वावयथातथा समसमानसम्मितसन्निभादेर्ग्रहणम् । अत्रेदम्बोध्यम् “इववद्वायथाशब्दा.समाननिभसन्निभाः । तुल्यसङ्काशनीकाशप्रकाशप्रतिरूपकाः ॥ प्रतिपक्षप्रतिद्वन्द्वि-प्रत्यनीकविरोधिनः । सहसदृशसंवादिसजातीयानुवादिनः ॥ प्रतिबिम्बप्रतिच्छन्दसरूपसमसप्रभाः । सलक्षणसदृक्षाभाः सपक्षोपमितोपमाः ॥ कल्पदेशीयदेश्यादिप्रख्यप्रतिनिधी अपि । सवर्णतुलितौ शब्दौ ये वाऽन्यूनार्थवाचिनः ॥ समासश्च बहुव्रीहिः शशाङ्कवदनादिषु । स्पर्धते जयति द्वेष्टि दुह्यति प्रतिगर्जति ॥ आक्रोशत्यवजानाति कदर्थयति निन्दति । विडम्बयति संरुन्धे हसतीय॑त्यसूयति ॥ तस्य मुष्णाति सौभाग्यं तस्य कान्ति विलुम्पति । तेन सार्धे विगृह्णाति तुलां तेनाधिरोहति ॥ तत्पदव्यां पदं धत्ते तस्य कक्षा विगाहते । तमन्वेत्यनुबध्नाति तच्छीलं तनिषेधति ॥ तस्य चानुकरोतीति शब्दाः सादृश्यसूचकाः" इत्युक्तदिशेवादयः ‘बन्धुश्चौरः सुहद्वादी प्रतिमा प्रतिभा तथा। सोदरः प्रतिभानं च प्रतिमानं च वादि च॥' इत्युक्तदिशा बन्ध्वादयश्चौपम्यार्थाः, एषु च. इवाद्यास्सोदराद्याश्च अभिधिया, स्पर्धते इत्यादयो बन्ध्वादयश्च लक्षणया,हसतीत्याद्या व्यञ्जनया सादृश्यमवगमयन्ते । इति । उपमेयमुपमातुं समानतया प्रत्याययितुं योग्यम् । 'यथेति शेषः । मुखादि । आदिनोर्वादीनां ग्रहणम् । उपमानमुपमीयते समानतया प्रत्याय्यतेऽनेनेति तथोक्तम् । 'यथेति शेषः । चन्द्रादि । आदिना रम्भादीनां ग्रहणम् । तथा चयत्रोपमेयोपमानयोः प्रसिद्धयोः सतो: सप्रभेदमभिधानमिवायुपादानपूर्वकं सचमत्कारकारणमेकवाक्यगतं सामान्यधर्मवाच्यत्वं सा पूर्णोपमा । अत्र'द्वयो'रित्येतावतोपादानेनोपमेयोपमानयोः प्रसिद्धत्वमभिप्रेयते । अत एवाहुः-“यदाऽयमुपमानांशो लोकतः सिद्धिमृच्छति । तदोपमैव येनेवशब्दः सादृश्यवाचकः ॥ यदा पुनरय लोकादसिद्धः कविकल्पितः । तदोत्प्रेक्षैव येनेवशब्दः सम्भावनापरः ॥” इति । एवं च-'मुखमिव कमलं रुचिर'मित्यादौ नातिव्याप्तिः । मुखस्योपमानत्वेन कमलस्य चोपमेयत्वेनाप्रसिद्धः । इवाद्युपादानपूर्वकमित्यनेन 'मुखं शशाङ्कसुन्दर'मित्यादेरस्या व्यवच्छेदः। सचम. त्कारकारणमित्यनेन-'मुखं कमलमिव सितम्' इत्यादेर्व्यवच्छेदः, अत्र हि सादृश्यवाच्यत्वादिसत्त्वेऽपि चमत्कारकत्वाभावान्नात्रालङ्कारत्वम् । एकवाक्यगतमित्यनेन 'चन्द्रायते शुक्लरुचाऽपि हंसो हंसायते चारुगतेन कान्ता' इत्यादेर्व्यवच्छेदः। सामान्यधर्मवाच्यत्वमित्यनेन-'कमलमिव वदन' मित्यादेव्यवच्छेदः। सामान्यधर्मों नाम सादृश्याद्यपरपर्य्यायः, सादृश्यं च