________________
.... साहित्यदर्पणः।।
[दशमः
• रूपकादिषु साम्यस्य व्यङ्गत्वम्, व्यतिरेके च वैधर्म्यस्यापि उक्तिः, उपमेयोपमायां वाक्यद्वयम् , अनन्दये तु एकस्यैव साम्योक्तिः, इत्यस्याभेदः ।
नाऽङ्गुष्ठनखौ गमनं हंसहस्तिवत् ॥ कटाक्षो यमुनावीचिभृङ्गावलिविषामृतैः । ज्योत्स्नेन्दुपुष्पपीयूषफेनकैरववद्धसः ॥' इत्युक्तनयेन उपमानप्रसिद्धिरवसेया, एष च दिनिर्देशः, विस्तरतस्तु स्वयमूह्य पमानोपमेयत्वम् ॥ ६७.॥
वाच्यादीनां चतुर्णी पदानां सार्थकतां दर्शयति-रूपकादिषु रूपकपरिणामादिवलकारेषु । साम्यस्य सादृश्यस्य साधर्म्यस्येति यावत् । व्यङयत्वम 'नत वाच्यत्व' मिति शेषः । 'इत्यस्याभेद' इति परेणान्वेति । तथा च-'सुभगे तव किल वदनं कमलं मधुपप्रमोदकोल्लासम् ।' इत्यादौ 'वदनं कमल' मित्यभेदप्रत्ययानन्तरं 'वदनं कमलसाधयशाली' ति प्रत्ययो व्यङ्गय इति रूपकादौ साम्यस्य व्यङ्ग्यत्वान्नातिव्याप्तिः, ननु तर्हि 'विधवति तव वदनमये इत्यादौ अपि साम्यस्य व्यङ्गयत्वान्माभूदुपमाविषयत्वमिति चेन्न, व्यङ्गायत्वस्यैव तत्रासिद्धेः, 'अम्भोजन्म स्मरति' इत्यादौ लुप्तस्यामादेः प्रतिसन्धानात् कर्मतादेखि लुप्तस्य विष्प्रत्ययस्य प्रतिसन्धानात् साम्यस्य वाच्यत्वात् । ननु 'वदनं ते ननु चन्द्रजित्त्वरम्' 'सद्यो मण्डितमत्तहणचिबकास्पर्धि नारङ्गकम्' इत्यादौ कथं न पुनरव्याप्तिः, साम्यस्य व्यङ्गयत्वादिति चेत् अस्तु नाम, जित्त्वरप्रस्पर्धित्वयोश्चेतनधर्मतया वदननारङ्गकसम्बन्धित्वासम्भवात् उपमायाँ पय्येवसाने निदर्शनाया एव खीकारात्, 'वदनकमले सरुचिरे' इत्यादौ त साधर्म्यस्य वाच्यत्वेऽपि इवादिपदोपादानाभावानोपमात्वम् । इति फलितम् । व्यतिरेके तदाख्येऽलकारे । च । वैधय॑स्य । अपि । 'नतु केवलं साधर्म्यस्थे' ति शेषः । उक्तिः । 'इत्यस्याभेद' इति परेणान्वयः । तथा च-पडकजमिव तव वदनं विकसति न तदिव पुन: परं दिवसे ।' इत्यादौ वैधय॑स्याप्यभिधानानातिव्याप्तिः, अत्र हि नक्तमपि विकास उपमानस्य, दिवेव विकासः पुनरुपमेयस्य वैधर्म्यम् । ननु 'पड़कजभिवे' त्यादौ साम्यस्य वाच्यत्वमस्तु नाम, किन्तु नझा तस्य वदने सम्बन्धापीहनात् कथमुपमायाः प्रसक्तिरेव, इति चेन्नः वदने विकाससाधर्म्यप्रतिपादनानन्तरं तस्योत्कर्षबोधाय ना केवलं दिवा विकासित्वनिषेधनात् । इति फलितम् । उपमेयोपमायां तदाख्येऽलड़कारे 'मतिरिव कमला कमलेव मति' रित्यादाविति यावत् । वाक्यद्वयम् 'नत्वेकं वाक्य' मिति शेषः । 'इत्यस्याभेद' इति परेणान्वेति । तथा च-लक्ष्मीबुद्धयोरसदृशत्वरूपं साधम्य वाच्यमपि वाक्यद्वयप्रतिपाद्यमिति न तत्रातिव्याप्तिः । उपमेयोपमायामिति रसनोपमाऽऽदेरप्युपलक्षकम् । तेनेतोऽ. प्यस्या अनेनैव व्यवच्छेदः । इति बोध्योऽर्थः । अनन्वये तदाख्येऽलङ्कारे ।'तु । एकस्योपमानोपमेयैकतरस्य । एव । 'नतु तयोरुभयोरपी' ति शेषः । साम्योक्तिः साधर्म्यस्याभिधया प्रतिपादनम् । इति । अस्माद्धेतोः। अस्या निरुक्तलक्षणाया उपमायाः । भेदो व्यवच्छेदः । तथा च-विधुरिव विधुर्मनोज्ञः' 'मुखमिव मुख मनोज्ञ'मित्यादौ विधुमुखाद्यकतरस्य मनोज्ञत्वादि साधर्म्यमिवादिशब्दप्रतिपाद्यम्, तच्चोपमानोपमेयोभयासम्बन्धित्वेन वाच्यमपि नोपमात्वानुयोगीति सूचितम् ।
अत्राहुर्विवृतिकारा:-"केचित्तु-'इवादिशब्दवत् तुल्यादिशब्देनापि साधारणधर्मस्य प्रतिपादनात् करिष्यमाणश्रौत्या विभागानुपपत्त्या साधारणधर्मसम्बन्ध एवोपमा, नतु साधारणधर्ममात्रम्, स च प्रतियोगितारूपः । 'चन्द्र इव मुखम्' इत्यादौ चन्द्र प्रतियोगिकसादृश्याश्रयो मखमिति प्रतीतेरानुभविकत्वात् तादृशसम्बन्धश्च इवादिशब्देन. वाच्यस्तुत्यादिपदेनार्थवशलभ्य इति श्रौत्यार्थी विभागः।' इत्याहः, तन्न; आर्थ्याम्पमायामव्याप्तेः । तत्र-साधारणधर्मसम्बन्धस्य विगत्यादिप्रतिसन्धानलभ्यतया इवादिशब्दवाच्यत्वाभावात् । उभयसम्बन्धित्वस्य इवादिवाच्यत्वे श्रौती, अर्थवशलभ्यत्वे तु आर्थीति विवक्षयैव विभागोपपत्तेश्च ।" इति।
ननु 'अस्थीव धवलं यशः' 'घट इव पटो द्रव्यम्' इत्यादौ उपमात्वमस्ति, न वा; अस्तीति चेत् तदलङ्कारतां कथमधिगतम्, नास्तीति चेत् कथं न उपमालक्षणस्य अत्र सर्वथा सत्त्वात् । इति चेत् ! अत्र सर्वत्र 'अलङ्कारत्वे सती' ति विशेषणस्यानुषक्तत्वमवधेयम् । तथा च-सत्यपि 'साम्यं वाच्य' मित्यादिलक्षणानुलक्षितत्वेनोपमात्वे वैचित्र्यानाधायकत्वेनालङ्काव्यपदेशास्त्वम् । एवम्-पुरस्तादपि बोध्यम् ।