________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
७७ साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः ॥ ६७ ॥
१६५
७७ वाक्यैक्ये वाक्यस्यैकत्वे एकस्मिन् वाक्ये सतीति यावत् । द्वयोः प्रसिद्धयोरुपमानोपमेययो: । अवैधर्म्य विरुद्धधम्मक्तिशून्यम् । वाच्यमभिधया प्रतिपाद्यम् । साम्यं साधर्म्यम् । उपमा तन्नामाऽर्थाङ्कारः । एकवाक्यगतत्वे सति प्रसिद्धोपमानोपमेययोर्वैधर्म्याविषयमेवादिपदवाच्यं यत् साधर्म्य तदुपमेत्यर्थः । तत्र एकवाक्यगतत्वे सतीत्यनेन 'गिरिरिव गजराजोऽयं गजराज इवोच्चकैर्विभाति गिरिः । निर्झर इव मदधारा मदधारेवास्य निर्झरः स्रवति ॥ ' इत्यादेर्व्यवच्छेदः । एकपदं च वाक्यान्तरव्यावर्त्तकं, न तु एकपदव्यावर्त्तकं, तेन 'शशिमुखी' त्यादावेकपदत्वेऽप्येषा । प्रसिद्धेत्यनेन "सरसीयं सुभगेव स्फुरति च लावण्यवल्लभं सलिलम् । वदनमिवाम्भः प्रभवं शफरीनयने यथा तथा यस्याः ॥' इत्यादेः, उपमानोपमेस्यनेन “वदनमिवास्या वदनं नयने नयने इवाद्भुते स्फुरतः । लावण्यमिवाङ्गानां लावण्यं वाऽपि सन्नद्धम् ॥" इत्यादेः, वैधये
विषय मित्यनेन 'अमृतनिधानं सहसा सन्तापप्रशमकर्म्मणि प्रथितम् । शशिमण्डलमिव वदनं तन्निशि चेदं दिवाऽपि ते सुमुखि । इत्यादेः, वाच्यमित्यनेन 'अपि सुभगे तव वदनं श्यामान् केशान् दधानमालोक्य । मुग्धा अमी चकोरा हन्त विलोकय कथन्नु नृत्यन्ति ||" इत्यादेवेति बोद्धव्यम् । अथ उपमानं नाम सादृश्यप्रतियोगि, उपमेयं पुनः सादृश्यानुयोगिते एव 'साधारणधवत्त्वेन सिद्धः पदार्थ उपमानम्, तद्धर्म्मवत्तया कविसंरम्भगोचर उपमेयम् इति, 'उत्कृष्टगुणवत्तयसम्भाव्यमानमुपमानम्, अपकृष्टगुणवत्तया सम्भाव्यमानमुपमेयम्' इति' 'उत्कृष्टगुणवत्तया प्रसिद्धमुपमानम्, अपकृष्टगुणवत्तय, प्रसिद्धं चोपमेयम्' इति चान्ये आहुः । उपमानोपमेययोरनुगतो धर्म्मः साधर्म्यम्, साम्यं सादृश्यं साधारणो धर्म इत्यन, र्थान्तरम् । तथा च 'अम्बुजमित्र तव वदनं विकसति मित्रावलोकनं यावत् । मधुपानां स्पृहणीयं विमुखं दोषाकरीयरुः ॥ इत्यादौ स्फुटमुपमा अम्बुजवदनयोरुपमानोपमेययोर्विकसत्त्वादिरूपस्य साम्यस्येवादिपदवाच्यत्वात् इयं च - "उप मैका शैलूषी सम्प्राप्ता चित्रभूमिकाभेदान् । रञ्जयति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः ॥" इत्युक्तदिशा 'वदनं वदनमिव' 'कमलमिव वदनं वदनमिव कवलम्' 'कमलमवलोक्य वदनं स्मरामि', 'वदनमेव कमलम्' 'वदनकमलेन मधुप उन्माद्यते ' ' किमिदं वदनम् उत कमलम्' 'वदनं विलोक्य मधुपा अनुनयन्ते,' 'कमलमिति मधुपाः, सुधानिधिरिति चकोरास्तव वदने रज्यन्ति' 'कमलमिदं न वदनम्' 'वदनमिदं न कमलम्', 'कमलमिदम्', ' वदनेन ते शशिकमले विजिते', 'मित्रं दृष्ट्रा त्वद्वदनं कमलं च हृष्यति', 'त्वद्वदन एवाहं रज्यामि, कमले एवं मधुपो रज्यति', 'सलिले कमलम्, स्थले त्वद्वदनम्', 'मित्रमण्डलं त्वद्वदनस्य विकाशकम्', 'त्वद्वदनं कमलं च सदा ss (s) लिंगणं मोदयतः', 'त्वद्वदनस्य पुरः कमलं न किञ्चित्' इत्यनन्वयो - पमेयोपमास्मरण - रूपक - परिणामस न्देह - भ्रान्तिम- दुलेखा - पहुति - निश्चयोत्प्रेक्षाऽ- तिशयोक्ति- तुल्ययोगिता - दीपक - प्रतिवस्तूपमा दृष्टान्त - निदर्शना-व्यतिरेक-सहोक्ति-समासोक्ति - परिकर - श्लेषा - प्रस्तुतप्रशंसादीनामभिनयं दर्शयन्ती सहृदयहृदयमनुरञ्जयन्तीत्येका सर्वेष्वर्थालङ्कारान्तरेषु प्रधानभूताsत एवं प्रथमं निरूपणीया, अस्याश्च 'सरखी - न्दुकलाऽम्भोजदम-काञ्चनवल्लरी | स्वर्णयष्टि-स्तडि - दीपज्वालाश्च योषितः समाः ॥ रोचना कनकं विद्युद्धरिद्रा च वराटकः । हेमकेतक - चाम्पेयौ रम्भा - चास्यास्तनूसमाः ॥ तमो- जीमूत - शैवाल - बर्ह - नीलाश्मचामरैः । इन्दीवरार्कजाबीचि - मधुपैश्च कचः समः ॥ अर्द्धचन्द्रो हेमपस्तथा भालस्य साम्ययुक् । वल्ली -स्मरधनु- वचिभृङ्गाली - पलवा भ्रुवोः ॥ चन्द्रादशौ कपोलस्य, मुखस्येन्द्वजदर्पणाः । तिलपुष्पं च नासायाः, कम्बोः कण्ठः स्मृतस्तथा ॥ अब्ज - तत्पत्र - शफरी - मृग - तन्नेत्रखञ्जनैः । नेत्रं चकोर - तन्नेत्र - केतकालि - स्मराशुगैः ॥ प्रवाल- बिम्ब- बन्धूकपल्लवैरधरोष्ठकौ । मुक्ता माणिक्य - नारङ्गकुन्ददाडिमको रकैः ॥ ताराचन्द्रकरैर्दन्ता वाग्घंसशुककिन्नरैः । वीणावेणुमृदङ्गैस्तु पिकेन स्वरसौभगम् ॥ विसवल्ली मृणालैव वाहुः पाणिस्तु पङ्कजैः । प्रवालपवाभ्यां च नखास्त्विन्दुकलासमाः ॥ कुन्दकोरकतुल्याश्च वर्ण्याः सहृदयोत्तमैः ॥ पूगाजतत्कोरकवित्वतालगुच्छेभकुभाचलकुम्भचकैः । सौवीरजम्बीरकबीजपूरसमुद्रछोलङ्गफलैरुरोजः ॥ नाभी रसातला वत्तैहदकूपनदादिभिः । वली तटिन्या तदूपैः पृष्टं काञ्चनपकैः ॥ सूच्यग्रतलशून्याणुत्रेदिसिंहादिभिः समः । मुष्टिग्राह्यो भवेन्मध्यो जघनं पुलिनोपमम् ॥ पीटप्रस्तरभूचकैर्नितम्बः परिवर्ण्यते । ऊहस्तु हस्तिहस्तेन कदल्या करभेण च ॥ चरणः पल्वाम्भोजस्थलपद्मप्रवालकैः । पूर्णेन्दु