________________
१६४
साहित्यदर्पणः ।
[ दशम:
अत्र 'साले' इति वक्तव्ये, 'साले' इति, 'र' इति च्युतः 'वने' इत्यत्र 'यौवने' इति, 'यौ' इति दत्तः । 'मदनेन' इत्यत्र 'वदनेन' इति, 'म' इति च्युतः, 'व' इति दत्तः । आदिपदात् क्रियाकारकगुप्त्यादयः । तत्र क्रियागुप्तिर्यथा
'पाण्डवानां सभामध्ये (S) दुर्यो(s)धन उपागतः। तस्मै गां च सुवर्ण च सर्वाण्याभरणानि च ॥ ८८॥ ' अत्र 'दुर्योधन' इत्यत्र 'अदुर्योधन' इति 'अदु' रिति क्रियागुप्तिः । एवमन्यत्रापि । अथावरप्राप्तेष्वर्थालङ्कारेषु प्राधान्यात्सादृश्यमूलेषु लक्षितव्येषु तेषामप्युपजीव्यत्वेन प्रथ
ममुपमामाह-
मदनेन कामेनेति भावः । अत्र 'म' इत्यस्य च्युतत्वं, 'व' इत्यस्य च दत्तत्वं चेति बोध्यम् । निपीडिता । कुरङ्गाक्षी मृगलोचना । किम् । करोतु कुर्य्यात् ॥ ८८ ॥ इति ।
अत्र प्रहेलिकायास्त्रैविध्यं लक्षयति-अत्रास्मिन्नुदाहृते पद्य इत्यर्थः । 'रसाले' इति वक्तव्ये 'अपि' इति शेषः । 'साले' इत्ये 'वोक्त' मिति शेषः । तस्मात् - ' र ' इति 'वर्ण' इति शेषः । च्युतः । 'वने' इत्यत्र 'वक्तव्येऽपी'ति शेषः । ‘यौवने' इत्युक्तमिति शेषः। तस्मात् - 'यौ' इति 'वर्ण' इति शेषः । दत्तः । 'मदनेन' इत्यत्र 'वक्तव्येऽपि' इति शेषः । 'वदनेन' इत्यु'क्त' मिति शेषः । तस्मात् 'म' इति 'वर्ण' इति शेषः । च्युतः । 'व' इति 'वर्ण' इति शेषः । दत्तः । तथा च क्रमात् तिस्रोऽत्र प्रहेलिका इति निष्कृष्टम् । अथादिपदयोत्यमाह - आदिपदात् । क्रियाकारकगुप्त्यादयः 'प्रहेलिका प्रात्या' इति शेषः । तत्र तासु मध्ये । क्रियागुप्तिः क्रियायाः क्रियापदस्य गुप्तिर्गोपनं यत्र सेति तथोक्ता । अत्र व्यधिकरणो बहुव्रीहिः । सा यथ
'पाण्डवानां युधिष्ठिरादीनां पाण्डुपुत्राणामित्यर्थः । सभामध्ये । दुर्योधनो धृतराष्ट्रपुत्रस्तेषां भ्रातेति भावः । उपागतः । तस्मै दुर्योधनाय । गाम् । च । सुवर्णम् । च । सर्वाणि सर्व प्रकाराणि । आभरणानि भूषणानि च ॥ ८९ ॥
अत्रास्मिनुदाहृते 'असमापित क्रियाssकाङ्क्षोत्थाने' इति यावत् । 'दुर्योधन' इत्यत्र 'श्रूयमाणे शब्दविशेषे' इत्यर्थः । 'अदुर्योधन' इत्य'कार'श्लेष' इति शेषः । तस्मात् 'अदु' रितिक्रियागुप्तिः 'अदुरिति क्रियाया गुप्तिरिति | एवम् | अन्यत्र कारकगुप्त्यादौ । अपि । कारकगुप्यादयो बोद्धव्या' इति शेषः ।
1
एवं शब्दालङ्कारान्निरूपयार्थालङ्कारान्निरूपयितुमुपक्रमते अथ । अवसरप्राप्तेषु निरूपणोचितावसरेषु । अर्थालङ्कारे स्वर्थान्वयव्यतिरेकानुविधायिलङ्कारेषु मध्ये | प्राधान्यात् । सादृश्यमूलेषु सादृश्यमूल चमत्कारेषु । लक्षितव्येषु लक्षणीयेषु सत्सु । तेषां सादृश्यमूलानाम् । अवि'उपजीव्यत्वेन । प्रथमम् । उपमाम् । माह-- ७७ साम्यमित्यादिना ।
89
'इदं तावद सेयम्- 'उपमो ऽनन्वये चैवमुपमेयोपमा ततः । स्मरण रूपकं चैव परिणामस्ततः परम् ॥ सन्देहो ' भ्रन्तिमानेवमुखो वाऽप्यपहुतिः । निश्चयश्चैवमुत्प्रेक्षोऽतिशयोक्तिरनन्तरम् ॥ तुल्ययोगित्वैमुद्दिष्टं दीपकं ' तदनन्तरम् । प्रतिवस्तूपम प्रोक्ता दृष्टान्त निदर्शना ॥ व्यतिरेकः सहोक्तिश्व समसोक्तिरतः परम् । स्यातां परिकेरे श्लेषविप्रस्तुतप्रशंसनम् ॥ व्याजस्तुतिर थोद्दिष्टं पर्यायोक्तमतः परम् । भवेदर्थान्तरन्यासः काव्यलिङ्गानुमानके ॥ हेतुर्वाऽप्यनुकूलं स्यादाक्षेपैश्च विभावना । विशेषोक्ति "विरोधोवसङ्गतिर्विषमं समम् ॥ विचित्रैमधिकन्योऽन्ये विशेषो व्याहृतिस्तथा । हेतुर्मेला भवेन् मालदीपकैकविली पुनः ॥ सरिचैव यथासख्य पर्यायपरिवर्तने । परिसङ्ख्योत्तरं चैर्वमर्थापत्तिर्विकल्पन ॥ समुच्चय समाधी वा प्रत्यनीकं प्रतीपकम् । मीलित वाऽपि सामान्य गुणोऽतंगुणस्तथा ॥ सूक्ष्मं व्याजोक्तिद्दिष्टा स्वभावोक्तिश्च भाविकम् । उदात्तं रसवंत प्रेयं ऊर्जस्वि च समाहितम् ॥ भावोदयो भावसन्धिभवशाबल्यैमी रितम् । सः सङ्करैवेति नामतोऽत्र प्रकीर्तिताः ॥ ' एते सर्वेऽपि प्रायः सादृश्यमूलाः, किन्तु केऽपि साक्षात् केचित्पुनः परम्परया प्रकारान्तरेण वा तत्रानन्ययोपमेयोपमाssदयः साक्षात्, स्मरणादयः प्रकारान्तरेण । एवं च अनेकेषामनन्वपोपमारूपक परिणाम सन्देहभ्रान्तिमदपडुति निश्चयोत्प्रेक्षाऽतिशयोक्तितुल्ययोगितादीपकादीनां मूलभूतोपमैवेति ।