________________
परिच्छेदः ]
चिराख्यया व्याख्यया समेतः।। एषोऽष्टदलपद्मवन्धोदिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टवर्णः, किन्तु विदिग्दलेवन्यथा, कर्णिकाक्षरं तु श्लिष्टमेव । एवं खड्गबन्धादिकमप्यूह्यम् । काव्यान्तर्गडुभूततया नेह प्रपञ्च्यते ।
७६ रसस्य परिपन्थित्वान्नालङ्कारः प्रहेलिका ॥६६॥
उक्तिवचित्र्यमानं सा च्युतदत्ताक्षरादिका ॥
च्युताक्षरा, दत्ताक्षरा, च्युतदत्ताक्षरा च । उदाहरणम्'कूजन्ति कोकिलाः खाले, यौवने फुल्लमम्बुजम्। किं करोतु कुरङ्गाक्षी वदनेन निपीडिता ॥८८॥"
-
ननु तर्हि कथमसावुपास्यत इत्यपेक्ष्याह-रुचा । चारु ( क्रियाविशेषणमिदम् ) मारस्य कामस्य वधू - तदपेक्षयोत्तमा । यद्वा-तत एव-अचारुरुचा निन्दितकान्त्या । मारस्य मत्योर्भयभाऱ्यांया वधूः स्नुषा यातनेति यावत् तस्या उत्तमोस्कृष्टेति मारवधूत्तमा। 'मारोऽनङ्गे मतो विघ्ने।' इति गोपालः 'वधू पत्न्यां स्नुषाना-:..' इति हैमः । 'दुरुक्तौ कलिराधत्त भयं मृत्यु च सत्तम । तयोश्च मिथुनं जज्ञे यातना निरयस्तथा ॥' इति भागबतम् । यदपेक्षा यातना (पीडा)ऽपि नेति भावः । मा नात्तो गृहीतेति मात्ताऽतन्त्रेत्यर्थः, सा चासौ धूर्ततमाया इवेति धूर्ततमवदावासा निवासः स्थानमिति यावद् यस्याः सेति । अत्र श्लेषानुगृहीतो व्यतिरेकः ॥ ८७ ॥'
___ अस्य खरूपं निर्देशति-एषः । अष्टदलपद्मबन्धोऽष्टपत्रकमलाकारबन्धः । दिग्दलेषु पूर्वादिषु चतुएं भागेषु । निर्गमप्रवेशाभ्याम् । श्लिष्टवर्णः श्लिष्टा अनेकत्वेऽप्येकायमाना वर्णा यत्र सः । किन्तु-विदिग्दलेषु ईशानादिषु भागेषु । अन्यथाऽश्लिष्टवर्ण इत्यर्थः । कर्णिकाक्षरं मध्यभागस्थो वर्णः । त। श्लिष्टं नानापदान्वयोगि। ए । एवं यथा पद्मबन्धस्तथा । खड्रबन्धादिकम् । आदिना मुरजचक्रबन्धादेग्रहणम् । ऊह्यम् । अत्र हेतु निर्दिशति-काव्यान्तर्गडुभूततया काव्यस्य (इक्षोरिव) अन्तः गडुभूतः ( ग्रन्थिभुतः ) तत्र तत्तया । इह । चित्रम्न । प्रपच्यते।
प्रहेलिकाया अलङ्कारत्वं प्रसह्य निषेधति-७६ रसस्येत्यादिना ।
७६ रसस्य काव्यजीवातोश्चमत्कारस्यापरिपन्थित्वात परिपन्थिन्या विरोधिन्या भावस्तत्त्वं तस्मात् काव्यजीवा. तुभूतं चमत्कारमपगमयतीति हेतोरिति भावः । प्रहेलिका प्रहेलयति सूचयति भावं नतु स्वरूपार्थमिति तथोक्ता । अलङ्कारः। न 'प्रत्युत तथादोषलक्षणाकान्ततयाऽपहेये ति शेषः । ननु तर्हि-'व्यक्तीकृत्य कमप्यर्थ स्वरूपार्थस्य गोपनात् । यत्र बाह्यार्थसम्बन्धः कथ्यते सा प्रहेलिका ॥' 'प्रहेलिका सकृत्प्रश्नः साऽपि षोढा च्युताक्षरा । दताक्षरोभय मुष्टिबिन्दुमत्यर्थवत्यपि ॥ क्रीडा गोष्ठीविनोदेष तौराकीर्णमन्त्रणे । पराव्यामोहने चापि सोपयोगाः प्रहेलिकाः ॥' इत्यादिना किमिति.जरत्तरा आद्रियन्ते स्मेत्यत आह-सा प्रहेलिकेति भावः।च्युतदत्ताक्षरादिका च्युतं च दत्तं चेति, च्युतदत्ते चेति च्युतदत्तानि, तथाभूतान्यक्षराणि यत्र, स आदौ यस्याः सा तथाभूतेति भावः। उक्तिवैचित्र्यमाध्यमुक्तेवैचित्र्यमिति तदेवेति तथोक्तम् । तथाहः-'मात्राबिन्दुच्युतके प्रहेलिकाकारकक्रियागूढे । प्रश्नोत्तरादि चान्यक्रीडामानोपयोगमिदम् ॥' इति । अयम्भावः-च्युताक्षरादत्ताक्षरेत्येवमनेकविधाऽपि प्रहेलिका केवलमुक्तेर्वैचित्र्यरूपा रसं च काव्यजीवा. तुमपनयतीत्यलङ्कार इति न व्यपदेष्ठुमर्हा प्रत्युत तथाभूताऽसौ काव्येऽपनेया । इति ॥ ६६ ॥
'च्युतदत्ताक्षरादिका' इत्यस्य 'च्युतदत्ताक्षरा' इत्यंशं व्याचष्टे-च्युतक्षारा । दत्ताक्षग। च्युतदत्ताक्षरा। च। चात्र समुच्चयार्थः ।
___ उदाहर्तुमुपक्रमते, यथा-उदाहरणम्-'साले रसाले । अत्र 'र' इत्यस्य च्युतत्वम् । कोकिलाः । कूजन्ति 'कुहू' इति कलमुद्रिन्ति । यौवने वन इत्यर्थः । अत्र 'यौ' इत्यस्य दत्तत्वम् । अम्बुजं कमलम् । फुल्लम् । वदनेन
१ चित्रबन्धैकरसिकैस्तु अस्माकं चित्ररहस्य द्रष्टव्यम् ।