________________
१६२
साहित्यदर्पणः ।
तत्र पद्मबन्धो यथा मम
'मारमा सुषमा चारुरुचा मारवधूत्तमा । मात्तधूर्त्ततमावासा सा वामा मेऽस्तु मा रमा ॥८७॥ *
2
च कार्यकारणयोरभेदेनोपचाराज्जन्यानामपि वर्णानां चित्रालङ्कारव्यपदेशभाक्त्वं सङ्गच्छते । इति । यथाहुः - प्रदीपकाराः 'यद्यपि वर्णानामाकाशगुणानां खड्गाचा कृतिहेतुत्वमसम्भवि, तथाऽपि विन्यस्तवर्णानुमापिका लिषयः सन्निवेशविशेषवत्त्वेन यत्र खङ्गाद्याकारमुल्लासयन्ति तच्चित्रमिति विवक्षितम् । तर्हि - 'लिपिनिष्टत्वाच्छन्दालङ्कारत्वं न स्यादिति चेत्, न । तादृशवर्णविन्यासं विना तादृशलिपिविन्यासाभावात् । शब्दान्वयव्यतिरेकयोरभग्नत्वात् । लिपेर्वर्णाभेदस्य लोकप्रसिद्धिमाश्रित्य शब्दालङ्कारत्वमिति कश्चित् । तथाऽपि शृङ्गारादिरसानुपकारकस्य कथमलङ्कारकत्वमिति चेत् कविनैपुण्यवशेन विस्मयोपकारकत्वादिति गृहाण । श्लेषनिर्वाह्यं चैतत् । न च तादृशं रसोपकारकम् ।' इति ।
趾
अथोदाहर्तुमुपक्रमते तत्र तेषु पद्मायाकारभेदेनानेकविधेषुचित्रालङ्कारेष्विति यावत् । ' उदाहर्त्तव्ये 'ष्विति शेषः । पद्मवन्धः पद्मवद्बन्ध इति तथोक्तः । यथा । मम प्रन्थकर्तुरित्यर्थः । ' कृता' विति शेषः । 'मारमा सुषमा..." इत्यादी ।
तच्चित्रं यथा
मा
[ दशम:
मेऽस्तु
रमा
.' मारमा सुषमा मा नैव रमासुषमा लक्ष्म्या अप्युत्कृष्टाऽपि शोभा यस्या यदपेक्षयेति तथोक्ता । लक्ष्म्या अप्युत्कृ त्वं यच्छोभाऽपेक्षया न तादृशीति भावः । यद्वा- 'मार मे' ति 'असुषमे' ति च पदच्छेदः । मां लक्ष्मी रमयति विनोदयति विडम्बनास्पदं करोतीति यावत्, इति तथा । न सुषमा यदपेक्षया सा, स्वयमेव परममुत्कृष्टेत्यर्थः । अत एव - चारुरुचा चारू रमणीया या रुक्कान्तिस्तया रमणीयकान्त्येत्यर्थः । मारवधूतमा मारस्य कामस्य वधू रतिस्तस्या उत्तमा, रतेरप्युत्कृष्टेति भावः । यद्वा- 'अमारवधूत्तमा' इति पदच्छेदः । न मारवधूरुत्तमा यदपेक्षया सा । मात्तधूर्त्ततभावासा मानैवात्त गृहीतो धूर्ततावासो यया सा । धूर्तश्चासौ तमो राहुरिति, तस्या वासः सङ्ग इति धूर्त्ततमावासः । तथा सौन्दर्येऽपि वञ्चकस्य राहोः कवलनावसरो यया न दत्तस्तादृशीति भावः । ' स्वर्भानुस्तु तमो राहु' रित्यमरमाला । सा प्रसिद्धा । मे मम । वामा सुन्दरी प्रिया । अस्तु । किन्तु रमा लक्ष्मीः । मा नैव । 'वामा मेsस्तु' इति पूर्वेणान्वयः । कुत इत्यपेक्षायां वामाविशेषणानि व्यतिरेकेण रमापरत्वेन योज्यानि, तथा हि-मारं मृत्युं मिमीते कथयतीति मारमा | लक्ष्म्या योगवियोगयोः प्राणात्यय इति वेदान्तिनः । अत एव न सुषमाऽत्यन्तं शोभा यस्याः सेति - असुषमा ।