________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।
७५ पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते । आदिशब्दात् खड्गमुरजचक्रगोमूत्रिकादयः । अस्य च-तथाविधलिपिनिवेशविशेषवशेन चमकारविधायिनामपि वर्णानां तथाविधश्रोत्राकाशलमवायविशेषवशेन चमत्कारविधायिभिर्वणैरभेदे. नोपचाराच्छन्दालङ्कारत्वम् ।
य॑मुपमानिर्वाहकं निर्वहति । उपमा तु नश्लेषाङ्गम् । श्लेषप्रतीति विना तत्प्रतीत्यभावेन तदनुपकारकत्वात् । इति । । यदि चोपमाव्यवहारवारणाय साधारणधर्मप्रयोगशून्य उपमाविषय इति स्वीकर्तव्यम्, तदा पूर्णोपमाया निर्विषयत्वमेव स्यात् । इति ।तदेतदुक्तम्-'अन्यथा पूर्णोपमाया निर्विषयत्वापत्तेः।' इति न केवलमुपमाया एव श्लेषबाधकत्वं, किन्त्वलङ्कारान्तरस्यापि, 'अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका।' इत्यत्र विरोधालङ्कारस्य । न ह्यत्र अर्थद्वयप्रतिपादकशब्दस्य श्लेषः । बिन्दुसाहित्यरूपस्य द्वितीयार्थस्य प्रतिभामात्रविषयस्य प्ररोहाभावात् । नन्वप्ररूढोऽपि इलेषालङ्कार आस्तां,विरोधाभासवत्। इति चेत् ? भवेदेवम्-यदि विरोधाभावस्य विरोधित्वमिव इलषाभासस्य इलेषत्वमनुमतं कस्यापि भवेत् ! नचैवम्। तस्मादेवं विधे विषये श्लेषप्रतिभोत्पत्तिहेतुरलङ्कारान्तरं प्राधान्यात् । तथा च-'सद्वंशमुक्तामणिः' इत्यत्र परम्परितश्लिष्टरूपके रूपकं प्रधानम् । वंशशब्दे श्लेषस्तु वेणुकुलयो रूपकोपयोगितया तदङ्गमिति श्लेषप्रतिभोत्पत्तिहेतू रूपकमेव व्यपदेश्यम् । 'नाल्पः कविरिव स्वल्पश्लेषो देव महान् भवान्।'इत्यत्र श्लेषव्यतिरेके व्यतिरेके एव प्रधानं श्लेषस्तु तन्निर्वाहक इति सत्प्रति, भोत्पत्तिहेतर्व्यतिरेकः । 'अनुरागवती सन्ध्या दिवसस्तत् पुरःसरः । अहो देवगतिश्चित्रा तथाऽपि न समागमः ॥' इत्यत्र समासोक्तिरलङ्कारः । 'अभिधाया नियमेन इलेषस्यासम्भवात् । 'आदाय चापमचलं कृत्वा हीनं गुणे विषमदृष्टिः । यचित्रमच्युतशरो लक्ष्यमभाक्षीन्नमस्तस्मै ॥' इत्यत्र विरोध एवालङ्कारः, इलेषस्तु तदङ्गमात्रम् ; अपरोहात् । 'कवीनां सन्तापो भ्रमणमभितो दुर्गतिरिति त्रयाणां पञ्चत्वं रचयसि न तच्चित्रमधिकम् । चतुर्णी वेदानां व्यरचि नवता वीर ! भवता विषत्सेनालीनामयतमपि लक्षं त्वमकृथाः ॥' अत्र मदीये काव्यलिङ्गस्य इलेषोऽङ्गमिति श्लेषप्रतिभोत्पत्तिहेतुः काव्यलि. शम् । तस्मादलङ्कारान्तरप्रतिभोत्पत्तिहेतुः इलेष इति रिक्तं वचः ।' इति ।
अथ चित्राख्यमनेकविधमप्यलङ्कारं 'कष्टं काव्यमेतत्'इत्यायुक्तदिशा रसस्योपकारिणममन्वानो मनाइनिर्दिशति७५ पद्माद्याकारहेतुत्वे"इत्यादिना ।
७५ वर्णानां शब्दस्वरूपाणामकाराद्यक्षराणाम् । पद्माद्याकारहेतुत्वे पद्ममादौ येषां (खशादीनां ) तेषामाकारः सादृश्यप्रत्यायकं चिह्न तस्य हेतवो हेतुभूतास्तत्त्वं तस्मिन् । सति सप्तमीयम् । चित्रं 'नामे'ति शेषः । उच्यते । तथा च-येये वर्णा यद्यदाकारहेतवः स्युस्ते ते तत्तदाकारभेदेन भिन्नं चित्रमिति व्यपदेशं लभन्ते इति निष्कृष्टम।
'पद्माकार'.' इत्यत्रादिशब्दाबोध्यमाह-आदिशब्दात् । खड्गमुरजचक्रगोमूत्रिकादयः । खगः करवाल: शस्त्रविशेषः । मुरजो मृदङ्गो वाद्यविशेषः । चक्रं प्रसिद्धम् । गोमूत्रिका गोमूत्रधारा । आदिपदेन हारनागशक्तिधनःशृङ्गारकादिग्रहणम् । गोमूत्रमत्रास्तीति स्त्री चेद् गोमूत्रिका । 'अत इनि ठनौ ।' ५।२।११५ इति ठन् । नन्वमूर्तानामपि वर्णानां कथं पद्माद्याकारता, कथं वा तया चित्रालङ्कारतया व्यपदेश इत्यत आह-अस्य चित्रालङ्कारस्य च । तथाविधलिपिनिवेशविशेषवशेन तथाविधा पद्मादिसदृश्यऽसौ लिपिस्तस्या निवेशविशेषस्तद्वशेन । पद्माद्याकारतथा लेखविन्यासमहिम्नेत्यर्थः । चमत्कारविधायिनां चमत्कारोऽलौकिकत्वमलौकिकत्वाभास इति यात लौकिकत्वस्य काव्यजीवातोस्तथा तिरोभावात् ) तस्य विधायिनस्तेषाम् । 'वक्तश्चतसी'ति शेषः । अनि वर्णानाम । तथाविधश्रोत्राकाशसमवायविशेषवशेन तथाविधः पद्माद्याकारं लेखविशेष सडकेतमहिम्ना प्रया. सोनोवाकाशसमवायविशेषः कर्णरन्ध्रसम्बन्धविशेषस्तद्वशेन । चमस्कारविधायिभिः 'श्रोतुश्चेतसी'ति शेषः ।
सममिति शेषः । अभेदेन । उपचारालक्षणया । शब्दालङ्कारत्वम् । अयम्भाव:-पद्माद्याकारलिपिनिवे. शविशेषमवलोक्य ये वर्णा उच्चार्य्यन्ते तैरेव श्रोतुः श्रोत्रे पद्माद्याकारा वर्णा जन्यमानाः कमपि चमत्कारमादधतीच, तेषां