________________
साहित्यदर्पणः।
[ दशमः
परोपकारकतया वर्तमानास्तां त्यजन्ति । यथा-रराज भूमौ वदनं मृगाझ्या नभोविभागे हरिणाकबिम्बम् ।' इत्यत्र प्रकताप्रकृतात्मकानामेकधर्मसम्बन्धो दीपकाख्यां भजते, त्यजति च-'राजते वदनं तन्व्या नभसीव निशाकरः ।' इत्यत्र । अत एवोच्यते-'प्रा (प्र) धान्ये (ने)न व्यपदेशा भवन्ति इति । एवं चालङ्कारान्तरोपस्कारकतया स्थितः लेपः कथकारं स्वगृहस्थ इव लषालङ्कारव्यपदेशं वोढुमीष्टामिति बाध्यप्राय एव ।' इत्यप्याहुः ।' इति । प्रदीपकारा अप्याहुः'ननु ग्लेषस्तावद् द्विधा सभङ्गपदोऽभापदश्च । तत्रादयः शब्दश्लेषः खरितादिगुणभेदाद्भिनप्रयत्नोच्चार्य्यतया भिन्नानां शब्दानां बन्धे 'जतुकाष्ट न्यायाच्छब्दयोरेव श्लिष्टत्वात्, द्वितीयस्त्वर्थश्लेषः खरितादिगुणाभेदादेकप्रयत्नीचार्यतया शब्दभेदाभावा देकवृन्तगतफलद्वय'न्यायेनार्थयोरेव दिलष्टत्वात् । यद्यपि-'अर्थभेदेन शब्दभेद' इति नयेन द्वितीयेऽपि शब्दस्य भेदः,तथाऽप्युपपत्त्या शब्दभेदप्रतीतावप्येकताऽध्यवसायानास्ति शब्दभेदः,स एव निरवकाशतया सर्वांलकारबाधक इत्यलङ्कारान्तराणां प्रतिभामात्रमुत्पादयति,नतु तत्पर्याप्तिम्।यथा-'स्वयं च पल्लवाताम्रभास्वत्करविराजिनी। प्रभातसन्ध्यवाखापफललुब्धे हितप्रदा।' अत्र पूर्वार्धेऽभङ्गपदः, द्वितीयाधै सभापदः। द्वयमप्युपमाप्रतिभोत्पत्तिहेतुः। साधाभावेन तस्याः प्ररोहाभावात् । एकप्रयत्नोच्चाऱ्यांणा तच्छायां चैव विभ्रमामास्वारीतादिगुणन्निबन्धः श्लिष्ट इहोच्यते॥' 'अलङ्कारान्तरगता प्रतिभा जनयेत्पदैः । द्विविधैरर्थशब्दोक्तिविशिष्टं तत्प्रतीयताम् ॥' इति। द्विविधोऽलङ्कारसर्वस्वकारादिभिरर्धाधितत्वेनार्थालकारमध्ये पठितस्तत् कथं शब्दालकारमध्ये पठ्यते।'इति।उच्यते-दोषगुणालङ्काराणां शब्दार्थगतत्वेन यो विभागः सोऽन्ध. यव्यतिरेकाभ्यामेव व्यवतिष्ठते ।...यच्चोक्तम्--'स्वयं च...' इत्यादावुदाहृते उपमाप्रतिभोत्पत्तिहेतुःश्लेषः । इति, तदप्ययुक्तम् । प्रत्युतोपमैवान श्लेषप्रतिभोत्पत्तिहेतुः । तद्बाधकत्वात् । तथा हि-साधाभावेनोपमायाः प्ररोहाभावादेव तावनोपमा बाध्या । यतः-'कमलभिव मुखं मनोज्ञभेतत् कचतितराम्' इत्यादौ मनोज्ञत्वस्य गुणस्य दीप्तिरूपायाः क्रियाया वा उभयोर्वा साम्यं यथोपमा निर्वहति तथा 'सकल कलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव ।' इत्यादावपि शब्दमात्रसाम्येनापि सा युक्तैव, साधर्म्यमात्रस्योपमापयोगकत्वात्, तस्य चार्थरूपस्येव शब्दरूपस्याविशेषेण सम्भवात् । यथा हयुक्तं रुद्रटेन-'स्फुटमर्थालङ्कारावुपमासमुच्चयौ' इति । अथात्र साधर्म्यसम्भवेऽपि नोपमा । साधारणधर्मप्रयोगशून्यो हि 'कमलमिव मुखम् ।' इत्येतावन्मात्रादिरुपमाविषयः। अत्र तु शब्दरूपसाधारणधर्मप्रयोग एवेति वैजात्याद्वक्तव्यं, तदपि न युक्तम् । पूर्णोपमाया निर्विषयत्वापत्तेः । साधारणधर्मप्रयोगे उपमात्वाभावात् तदप्रयोगे त्वपूर्णात्वात् । तदेतदुक्तम् । 'नच कमलमिव मुखम्' इत्यादि । साधारणधर्मप्रयोगशुन्य उपमाविषय इति वक्तुं युक्तम् । पूर्णोपमाया निर्विषयत्वापतेः । इति । केचित्पुनस्तदन्यथा व्याचक्षते-तथा हि 'यत्र साधारणधर्मोद्धारेऽप्युपमा सम्भवति प्रसिद्धत्वात्स उपमाविषयो न चात्र तथेत्याक्षेपार्थः । अयं पूर्णोपमाविषयो न स्यात् । इति । यद्वा-इलेषस्योपमाबाधकत्वायैतदङ्गीक्रियते तथा श्लेषस्योपमावाधकत्वे पूर्णोपमा निर्विषयैव स्यात् । 'कमलमित्र मुख मनोज्ञमेतत्' इत्यत्र मनोज्ञत्वस्य सम्बन्धिभेदान्ना नात्वेनार्थश्लेषस्वीकारात् । इति समाधानार्थः । ननु एवं श्लेषस्य निर्विषयत्वम्, असङ्कीर्णस्थलाभावात् इति चेत्, न 'देव ! त्वमेव पातालमाशानां त्वं निबन्धनम् । त्वं चामरमरुद्भमिरेको लोकत्रयायसे ॥' इत्यादावलङ्कारान्तरासम्भवात् । तथा हि-न तावदत्रोपमा । यायप्रयोगात् । नापि तुल्ययोगितादीपके । नापि पातालादिना रूपकं वाच्यम् । व्यङ्गयस्य तस्थ सम्भवेऽपि वाच्यापेक्षयैवासङ्करगवेषणम् । इति । किञ्च- येन ध्वस्तमनोभवेन' इत्यादौ नास्त्येव किञ्चिदलङ्कारान्तरमित्युपमाश्लेषयोविभक्तोदाहरणसम्भवाद्वाध्यबाधकभावानुपगमे द्वयोर्योगे सङ्कर एवेति वरमभ्युपगन्तव्यम् । उत्पत्तिपालोचने तु उपमाया एवायं विषयो नश्लेषस्य । इत्युक्तमेव । उत्पत्तिश्चेयम्-'व्यपदेशा: प्राधान्येन सम्भवन्ती' ति वस्तुस्थितिः । प्रधानं चात्रोपमा, श्लेषस्य तर्निवाहकक्ष्य तदङ्गत्वात् । नहि श्लेषं विना समानशब्दवाच्यत्वलक्षणं साध.