________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। विवक्षितत्वादुपमानोपमेयभावो न विवक्षित इति नोपमाध्वनिर्न चाश्लेष इति सर्वमवदातम् ।
भिधेयस्य प्रकृतः 'शान्तं पापं, प्रतिहतममङ्गलम्' इत्यादिपारिपार्श्वकायुक्तदिशा दुर्योधनादिपतनं प्रतिपादयितुमारब्धोऽसौ प्रबन्धः 'सत्पक्षा'.." इत्यादिग्रन्थ इति तस्याभिधेयस्तद्वाराऽभिधया प्रतिपाद्य इति तस्य, तत्स्वरूपस्येति भावः । द्वितीयार्थस्य द्वितीयः शरदाशंसनरूपप्रकरणवशात्प्रथममवतिष्टमानस्य हंसाद्यर्थस्यापेक्षया पश्चादवतिष्टमानोऽसावर्थ इति तस्य तथोक्तस्य । सच्यतया सूचितु योग्य इति सूच्यस्तस्य भावस्तत्ता तया । 'अल्पमात्रं समुद्दिष्टं सर्पति । फलस्य प्रथमो हेतु/ज...' इत्यायुक्तदिशाऽस्पष्टं प्रतिपाद्यत्वेनात एवाप्रधानतयेति भावः । एव अन्यथा सूत्रधारः-(मारिष ! शरद्वर्णनाशंसया हंसा धार्तराष्ट्रा व्यपदिश्यन्ते तत् किं शान्तं पापं, प्रतिहतममङ्गलमित्यादि ) वाक्यं विरुद्ध स्यादित्यवधारणम् । विवक्षितत्वात् । उपमानोपमेयभावः । विवक्षितः । न ‘सम्भवती' ति शेषः । इत्यस्मात् । उपमाध्वनिः 'दुर्गालङ्कृतविग्रहो...' इत्यादिवदुपमाया ध्वनिः। न । श्लेषः। वा । न । इतीत्येवम् । सर्वम् । अददातं निर्दोषम् ।
अत्राहुर्गङ्गाधरकाराः-'अयं चालङ्कारः प्रायेणालङ्कारान्तरस्य विषयमभिनिविशते, तत्र किमस्य बाधकत्वं स्यादाहोस्वित्सड़कीर्णत्वम् ,उताहो बाध्यत्वम्, इति । अत्राहरुद्भटाचार्या:-'येन नाप्राप्ते य आरभ्यते स तस्य वाधक' इति न्यायेनालङ्कारान्तरविषय एवायमारभ्यमाणोऽलङ्कारान्तरं बाधते। न चास्य विविक्तः कश्चिदस्ति विषयो यत्र सावकाशोऽयं नान्यं बाधेत । तथा हि-अप्रकृतमात्रयोः प्रकृतमात्रयोर्वा तुल्ययौगितैव जागर्ति, प्रकृताप्रकृतयोस्तु दीपकम् , तदनुमोदिता उपमादयश्च । न च देव ! त्वमेव पाता(s)लमाशानां त्वं निबन्धनमात्वं चामरमरुद्भमिरेको लोकत्रयात्मकः॥'इत्यादिकाव्यप्र. काशीक्तौ विविक्तोऽस्य विषय इति वाच्यम्,रूपकस्यैवात्र स्फुटत्वात्। श्लेषस्थापितपातालाद्यर्थस्याभेदारोपमन्तरेण लोकत्रयात्मकत्वस्य दुरुपपादत्वात् । कथं तर्हि 'नदीनां सम्पदं बिभ्रद्राजाऽयं सागरी यथा।' इत्यादावुपमायाः प्रत्ययः, कथं वा तत्रव यथा शब्दस्थाने किमुशब्ददाने उत्प्रेक्षायाः, अपर इति कृते च रूपकस्य; इति चेत् । न । अत्र युपमादीनां प्रतिभानमात्रं न तु वास्तवी स्थितिः । नहि श्वैत्येन शुक्तौ रजतत्वं प्रतीयमानं वस्तुतोऽस्ति, तस्मादुपमाऽऽदिप्रतिभोत्पत्तिहेतुः श्लेष एव स्वविषये सर्वत्रालङ्कारः ।' इति । एतच्चापरे न क्षमन्ते,तथाहि-यत्तावदुच्यते- येन नाप्राप्ते''इत्यादि. तत्र प्रागुदाहृते 'पद्माख्यं तत् किमपि ललितं...'इत्यस्मत्पद्ये, 'सर्वदोमाधवः-पातु योगङ्गां समदीधरत् ।' इत्यादिपरकी यपद्ये च श्लेषातिरिक्तः कोऽलडकारः? तुल्ययोगिता तु सादृश्यप्रतीतिनियता कथमत्र शक्यते वक्तुम् । नहि-लक्ष्मीकमलयोहरिहरयोी प्रकृते सादृश्यं प्रतिविपादयिषितम् । नापि चात्रैकश्रुत्याऽर्थद्वयोपपादनं विनाऽन्यत् किञ्चिचमत्कारजनकं, येनालङ्कारान्तरमभ्युपगच्छेम । एकश्रुत्याऽर्थद्वयोपादानं तु श्लेष एव । एवं च सावकाशत्वाच्लेषस्यालङ्कारान्तरापवाद. कत्वं न युक्तम् । अत एवोपमाऽऽदीनां प्रतिभानमात्रमिति यदुक्तं, तदपि न सङ्गतम् । गुणक्रियाऽऽदेरिव शब्दमात्रस्यापि समानधर्मत्वेनोपमायां तावद्वाधकाभावात् । एवमेवालङ्कारान्तरस्यापि श्लेषविषये पारमार्थिक्येव सत्ता, न प्रातिभासिकी, प्रत्युत श्लेषस्यैव प्रतिभानमात्रमिति वक्तुं युक्तम् । पूर्णोपमाया विषयस्य सर्वस्यापि त्रिविधश्लेषेणाकान्तत्वान्निरवकाशतयाऽस्य सावकाशस्य खविषये बाधौचित्यात् । तथा-'समरार्चितोऽप्यमरार्चितः' इत्यादौ श्लेषस्य तैमरिकचन्द्रद्वयवत्प्रति. भानमात्रमेव, न त्वलकारत्वम्,तज्जीवातोद्धितीयार्थस्याप्रतिष्टानात् । विरोधस्य त्वाभासरूपस्याप्यलङ्कारत्वं नतु श्लेषस्येति स्फुटमेव । तस्मादेवमादौ श्लेषप्रतिभयोत्पाद्यो विरोध एवालङ्कारः, नतु विरोधप्रतिभयोत्पाद्यः इलेषः। किञ्च-प्रत्येकं तत्तदू. पपुरस्कारेण कस्याप्यलकारस्य नास्ति श्लेषविषये नाप्राप्तत्वमलङ्कारान्तरपुरस्कारेणेति चेत्,एवं तर्हि बाध्यसामान्यचिन्तया स्वविषये प्राप्तस्य सर्वस्यापि बाधापत्तौ श्लिष्टपरम्परितरूपकस्य श्लिष्टसमासोक्तेश्वोच्छेद एव स्यात् । तस्माच्छेषस्य नापवादकत्वं, सङ्कीर्णत्वं तु स्यात् ।' इति । अन्ये तु-'अलङ्कारा हि प्राधान्येन चमत्काराधायकाः स्वांखामाख्यां लभन्ते, त एव