________________
साहित्यदर्पणः।
[दशमः
'प्राधान्येन व्यपदेशा भवन्ती' त्युक्तनयात् । ननु शब्दालङ्कारविषयेऽङ्गाङ्गिभावसङ्करो नाङ्गीक्रि. यते तत् कथमत्र श्लेषोपमयोरङ्गाङ्गिभावः खङ्कर इति चेत् ! न । अर्थानुसन्धानविरहिण्यनुप्राखादा दावेव तेथाऽनङ्गोकारात्, एवं दीपकादावपि ज्ञेयम् ।
'सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥ ८६ ॥' इत्यत्र शरदर्णनया प्रकरणे न धार्तराष्ट्रादिशब्दानां हं जाद्यर्थाभिधाने नियमनाद् दुर्योधनादिरूपोऽर्थः शब्दशक्तिमूलो वस्तुध्वनिः । इह च प्रकृतप्रचन्धाभिधेयस्य द्वितीयार्थस्य सूच्यतयैव
उपमायाः। एव (नतु श्लेषस्य) अङ्गित्वेन प्रधानत्वेन । व्यपदेशः । ज्यायान् । अत्र हेतुमाह-'प्राधान्येन । अत्र करणे तृतीया । 'प्रधानेने ति पाठे तु अभेदे इति बोध्यम् । व्यपदेशाः। भवन्ति ।' इत्युक्तनयात् । अयम्भावः'सकलकलं पुरमेतज्जातं सम्प्रति सुधांशुबिम्बमिव ' इत्यादौ 'सकलकलम्' इत्येतावत्यंशे श्लेषः, असौ च 'सुधांशुबिम्ब. मिव' इत्यौपम्यं निर्वहति, न हि 'सुधांशुबिम्बमिव' इत्येतावत्यभिहिते 'पुरमेतत्' इत्यनेनौपम्यं सङ्घटते, तस्मात् तनिर्वाहाय 'सकलकलम्' इति श्लेषः । एवं सति-श्लेषोत्तरमौपम्यम् , न त्वौपम्योत्तरं इलेषः, इत्युपमाऽणितया प्रधानभूता, श्लेषः पुनरङ्गतयाऽप्रधानभूतः इत्येव वक्तुं युक्तम् । 'अलङ्कारा हि प्राधान्येन चमत्काराधायका भवन्तो' ति च नयः । इति । ननु ( आशङ्कयते) । शब्दालङ्कारविषये शब्दालङ्काराणां मध्ये । अझाङ्गिभावबङ्करः । न । अङ्गीक्रियते 'सङ्करस्यार्थालङ्कारमात्रविषयत्वात्' इति शेषः । तत्तर्हि । कथम् । अत्र 'सकलकलं.' इत्यादौ । श्लेषोपमयोः । अङ्गाङ्गिभाव तद्रूपः । सङ्करः । इति चेत् । न । कुत इत्याह-अर्थानुसन्धानविरहिर्यालङ्कारैः शून्ये । अनुप्रासादौ । एव नतु श्लेषादौ । तथाऽझाङ्गित्वेन सङ्कर इति । अनडोकारात् । उक्तमर्थमन्यत्राप्यतिदिशति-एवम् । दीपकादौ दीपकतुल्ययोगितादो । आप । ज्ञयम् ।
दीपकादौ दीपकतुल्ययोगितादौ । अपि । नेयम् । 'प्राधान्येन व्यपदेश' इति नयानुसरणमिति शेषः । प्राधान्येन व्यपदेश इति नयः सति सन्देहे विविच्योपासनीय इति ध्वनयति'उत्पक्षाः सन्त उत्तमाः पक्षाः पत्राणि तत्सदृशाः सहायाश्च येषां ते इति तथोक्ताः । मधुरगिरो मधुरा गीर्वाक येषां यस्य वेति ते तस्येति वा । यद्वा द्वितीये पक्षे-सत्पक्षाश्च तेऽमधुरगिर इति सत्पक्षामधुर गिरः । प्रसाधिताशाः प्रसाधिता अलईकृताः, पूर्गाः कृता इति वाऽऽशा दिशो मनोरथा वा यौरति ते तथोक्ताः । मदोद्धतारम्भा मदेन शरत्काल कृतेन चित्तविकारेण, राज्यसम्पदादिकृतेन गर्वेण वाऽऽरम्भा व्यापारा येषां ते । धार • हंसविशेषा, धृतराष्टस्यात्मजा दुर्योधनादयो वा । 'धार्तराष्ट्राः सितेतरैः ।' इत्यमरः । धतराष्टस्यापत्यानि पुमांस इति धार्तराष्ट्राः । 'तस्यापत्यम्। ४।१।९२ इत्यण् । कालवशात् काल: सूत्रधारानुज्ञातसङ्गीतानुरागितया शरत्समयः, भविष्यनाटकीयवस्तुसूचनाऽनुरोधितया मृत्युसमयो वा तस्य वश इच्छा तस्मात् । क्रालेच्छामनुरुध्येत्यर्थः । 'वशः कान्तौ' इत्यमरः । 'ल्यग्लोपे कर्मण्यधिकरणे चे' ति पञ्चमी । मेदिनीपृष्ठे मेदिन्या मानससरोवरसम्बन्धिन्याः सङ्ग्रामसम्बन्धिन्या वा पृथिव्याः पृष्ठं तत्र । निपतन्ति । 'शरदि मानसं हंसा प्रयान्ती'ति कविसमयात् , 'कालेन कवलिता दुर्योदनादयो भवन्ती' ति द्योतनीयत्वाच । वेणीसंहारे सूत्रधारस्योक्तिरियम् । अत्रार्याछन्दः, तल्लक्षणं चोक्तं प्राक ॥८६॥'
इत्यत्र । शरद्धर्णनया शरदो वर्णनेन (अभेदे तृतीया) प्रकरणे नाधाराष्ट्रादिशब्दानामा अत्र'सत्पक्षादिशब्दाना' भिति वक्तव्येऽप्येतद्वनमेतत्प्राधान्य द्योतुयितुम् । वाद्यर्थाभिधाने हंसाद्यर्थानामभिधानमभिधया प्रतिपादन तत्र । तथा युक्तम्-'सूत्रधारः-(सवैलश्यस्मितम् ) मारिष ! शरत्समयवर्णनाशंसया हंसा धार्तराष्ट्रा व्यपदिश्यन्ते, तत् किं शान्तं पापम्.." इति । नियमनात् 'संयोगो"अर्थः प्रकरणं.. शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः।' इत्युक्त दिशा नियतत्वात् । दुर्योधनादिरूपः। अर्थः। व्यज्यमानत्वा 'दिति शेषः । शब्दशक्तिमूलः शब्दानामनेकार्थानां सत्पक्षादिपदानां शक्तिरनेकार्थोपस्थापनसामर्यरूपाऽभिधेति सैव मूलं (तामेवाश्रित्यात्र व्यजनायाः प्रवृत्तेः) यस्य सः । वस्तुध्वनिवस्तुनः 'दुर्योधनादयो म्रियन्ते' इत्यर्थस्य धनिः । नन्विह न कथं 'हंसा इव कालवशा दुर्योधनादयो निपतन्ती' घुपमा ध्वनिः, तदुभयार्थस्य वा शक्तिमूलत्वाच्छ्रे इत्याशझ्याह-इह 'सत्पक्षा मधुरगिरः' इत्यत्र । च । प्रकृतप्रबन्धा