________________
परिच्छेदः)
रुधिराख्यया व्याख्यया समेतः ।
शिष्टस्योपमालक्षणस्य शब्दसाम्याद व्यावृत्तेरभावात् । यदि च शब्दसाम्ये साधर्म्यमवास्तव. स्वानोपमाप्रयोजक, तदा कथं 'विद्धन्मानखहस' इत्यादावाधारभूते चित्तादौ सरोवराद्यारोपो राजादेहखाद्यारोपरूपकप्रयोजकः,किश्च यदि वास्तवसाम्ये एवोपमाऽङ्गीकाा , तदा कथं त्वयाऽपि 'सकळकलं' इत्यादौ बाध्यभूतोपमाऽङ्गीक्रियते? किश्चात्र श्लेषस्यैव साम्यनिर्वाहकता नतु साम्यस्य श्लेष निर्वाहकता, श्लेषवन्धतः प्रथमं साम्यस्यासम्भवादित्युपमाया एवाङ्गित्वेन व्यपदेशो ज्यायान् । परित्यागे पूर्णोपमाविषयते'ति शेषः। इतीत्येवम् । चेत । अत्रेदं हैय्यङ्गवीनम्-ननु यत्रोपमानस्योपमेयस्य च गुणैः क्रियाभिश्च सादृश्यं तत्रैवोपमा, यत्र तु न गुणैन वा क्रियाभिरुपमानोपमेययोः सादृश्य, तत्र शब्दमात्रसादृश्यं नोपमोपकृतये । अथ यदि शब्दसाम्यमुपमा निर्वहतीति स्वीक्रियेत? पूर्णोपमायाः को नाम तर्हि विषयः ? 'कमलमिव' इत्यादौ तु न शब्दसाम्यम्, अस्ति पुन:-'सकलकलं'इत्यादौ, अत्रैवं शब्दसाम्ये पूर्णोपमैव न सम्भवति, उपमानोपमेययोर्वस्तुतया सादृश्योलासानुपस्थानात् । तस्मात् 'सकलकलं...'इत्यादौ श्लेषः प्रधानः सन् कथमपि सम्भवन्तीमप्युपमा बाधते 'कमलमिव' इत्यादावुपमाप्रधानभूता कथमपि सम्भवन्तं श्लेषम् । इति चेत् ! को दोषः ? इति । उत्तरमाह-न तथाऽभिधेयमिति भावः । यतः-'साधर्म्य समानः सदृश एको वा धर्मो गुणक्रियासमानशब्दवाच्यत्वरूपो ययोः (उपमानोपमेययोः) तौ सधर्माणौ तयोर्भावः साधर्म्यमुपमानोपमेययोः समानधर्मेण सह सम्बन्ध इति भावः। 'समानस्य च्छन्दस्य मूर्धप्रभत्युदर्केषु ।'६।३।८४ इत्यत्र 'समानस्य' इति योगविभागे 'सपक्षः' इत्यादिवत्सादेशः । इति काशिकाकाराः । 'वोपसर्जनस्य ।' ६ । ३ । ८२ इति 'समानः सख्येति ससखी'ति वदस्वपदविग्रहे सहशब्दस्य समानवचनत्वात्सादेशः । इति दी देताः । धर्मादनिच केव. लात् ।' ५।४।१२४ इत्यनिच । उपमा तन्नामालङ्कारः ।' इतीत्येवम् । अविशिष्टस्य 'वास्तवं साधर्म्यमुपमा, न पुनवास्तवम्, इति विशिष्यानभिहितस्येति भावः । एव उपमालक्षणस्य । शब्दसाम्यात । व्यावृत्तेः। अभावात् । अयम्भावः-गुणक्रियाभिः साम्यं ( साधर्म्यम् ) चेदुपमा, शब्दतश्चन्नेति विशिष्य साधर्म्यस्योपमात्वेनास्वीकारात् शब्दसाम्यस्याप्युपमाप्रयोजकत्वेनाभ्युपगमात् । इति । तर्कवागीशा अप्याहुः-'अविशिष्टस्य वास्तवरूपविशेषरहितस्य । उपमालक्षणस्य काव्यप्रकाशायुक्तस्य । तथा च-येन केनापि सम्बन्धेनोपमानोपमेयवृत्तिधर्म उपमा, नतु समवायसम्बन्धेनेति निय. मः । शब्दस्योपस्थाप्यत्वसम्बन्धेनोपमानोपमेयवृत्तित्वेनोपमाप्रयोजकत्वमक्षतम् ।' इति । वास्तवमेव साधर्म्यमुपमाप्रयोजकमित्यपि नो वक्तव्यमित्याह-यदि। च । शब्दसाम्ये 'सती'ति यावत् । साधर्म्यम् । अवास्तवत्वात् । उपमाप्रयोजकम् । न । तदा । कथम् । 'विद्न्मान खहंस' इत्यादौ । 'उपमानोपमेययोरभेदप्रति. पत्तिरूपस्य रूपकस्य (साधर्म्यस्य) अवास्तवत्वेऽपीति शेषः। आधारभते । चित्तादौ मानसपदवाच्यादौ । सरोवरा. द्यारोपः। राजादे राजपदवाच्यादेः । हंसाद्यारोपरकप्रयोजको हंसादेरारोप इति तं रूपयतीति हंसायारोपरूपकः, सोऽसौ प्रयोजक इति तथोक्तः । अयम्भावः-यथा-शब्दसाम्ये साधर्म्यस्यावास्तवत्वेऽपि 'विद्वन्मानसहंस' इत्यादी उपमानोपमेययोरभेदस्तथा स्वीक्रियतां नाम 'सकल कलं' इत्यादावपि । इयान भेदः । तत्र साधर्म्यवाचकाभावः, अत्र पुनः-साधर्म्यवाचकमपि पदम् । अत एव तत्र उपमानेन सममुपमेयस्य साक्षाद्भेदाभावार्थ आरोपः, अत्र पुनर्न तथा, किन्तु साधर्म्यमात्रम् । यद्यपि रूपकस्थले साधर्म्य नेति न वक्त शक्यते, तथाऽपि तद्वाचकपदानुपादानाद् व्यङ्गयम् । एवं च-रूपकादिषु साम्यस्य व्यङ्गयत्वम्' इति वृत्तिकारेण वक्ष्यमाणं सङ्गच्छते । एतेन-'शब्दसाम्ये साधर्म्यस्यावास्तवत्वेन नोपमाप्रयोजकत्वम् ।' इति दत्तोत्तरम् । शब्दसाम्ये साधर्म्यस्य वास्तवत्वानङ्गीकारे 'विद्वन्मानसहंस' इत्यादौ रूपकेऽप्युपमानोपमेयभावरूपवस्तुनः समवेतत्वं वक्तुमशक्यत्वात् । इति । अथ वादिनः स्ववचनविरोधं दर्शयति-किश्च । यदि । वास्तवलाम्ये गुणक्रियासाम्यरूपे वास्तवे सादृश्य इत्यर्थः । एव नतु शब्दसाम्यरूपेऽवास्तवे सादृश्य इत्यर्थः । उपमा । अङ्गीकार्याऽङ्गीकार्यत्वेनाभिमतेति भावः । तदा । कथम् । त्वया 'वादिसमाजेन' इति शेषः । वादिनां बहुत्वेऽपि समाजमुद्दिश्यैकत्वेनाभिधानमनवद्यम् । अपि । सकलकल' इत्यादौ । बाध्यभूताश्लेषकर्तृकवाधविषयकभूतेति भावः । उपमा । अङ्गीक्रियते ।अयम्भावः-शब्दसाम्ये साधर्म्य न वास्तवम् , अवास्तवत्वे च तस्य नोपमा, इत्येव यदि स्वसिद्धान्तः, तर्हि तादृशस्थले इलेषेणोपमा बाध्यते इत्यप्यभिधानं किम्मलम् ? इति । नच 'सकलकलं' इत्यादौ श्लेषस्य प्राधान्यम्, इति वर्तुमर्हमित्याह-किश्च । अत्र 'सकलकलं...' इत्यादौ । श्लेषस्य। एव । साम्यनिर्वाहकता साम्यस्योपमात्वस्य निर्वाहकस्तस्य भावस्तत्ता । न । तु । साम्यस्योपमात्वस्य । २षनिर्वाहकता। अत्र हेतुमाह-श्लेषवन्धतःप्रथमम् । साम्यस्य । असम्भवात् । एवमुत्तरयित्वोपदिशति।इत्यस्माद्धेतोः।