________________
१५६
साहित्यदर्पणः ।
[ दशम:
तया 'सकलकलं..' इत्यादौ च नोपमाप्रतिभोत्पत्तिहेतुः श्लेषः, पूर्णोपमाया निर्विषयताऽऽपतेः । 'कमलमिव मुखं मनोज्ञमेतत् कचतितरां..' इत्याद्यस्ति पूर्णोपमाविषय इति चेन्न !" यदि 'सकलकलं..' इत्यादौ शब्दश्लेषतया नोपमा ? ताई किमपराद्धं 'मनोज्ञ...' इत्यादावर्थश्लेषेण ? स्फुटमर्थालङ्कार|वेतावुपमासमुच्चयौ, किन्तु 'आश्रित्य शब्दमात्रं सामान्यमिहार्षि सम्भवतः ।' इति रुद्रटोक्तदिशा गुणक्रियाखाम्यवत् शब्दसाम्यस्याप्युपमा प्रयोजकत्वात् । ननु गुणक्रिय साम्यस्यैवोपमाप्रयोजकता युक्ता, शब्दसाम्यस्य तु न तथा तत्र साधर्म्यस्यावास्तवस्वात् । ततश्च - पूर्णोपमाया अन्यथाऽनुपपत्तेर्गुणक्रिया साम्यस्यै वार्थ? लेष विषयतां परित्यागे पूर्णोपमाविषयता युक्ता । न तु 'सकलकलं...' इत्यादौ शब्दसाम्यस्येति चेन्न 'साधर्म्यमुपमेत्येवावि
"
नोभवेन' इत्यादौ तुल्ययोगितायाः सम्भवोऽपी' ति शेषः । अयम्भावः - 'येन वस्तमनोभवेन' इत्यादावपि 'स्वेच्छोपजात विषयोऽपि' इत्यादिवद्ययंभविष्यदनेकै धर्मिभिरेकस्यैव धर्मस्य सम्बद्धस्तत्रापि तुल्ययोगिता समभविष्यत् । नच तथेति न किञ्चिदेतदिति । अलङ्काराणां मध्ये यो यत्प्रतिभाजन्यप्रतिभाविषयः स तद्वाध्य इति नियममनुसृत्य ननु इलेषेणोपमा बाध्यते इति चन्नेत्याह 'सकळकळ इत्यादौ । च । उपमाप्रतिभोत्पत्तिहेतुरुपमाप्रतीतिजननहेतुभूत उपमाबाधक इति यावत् । श्लेषः । न नैवाभ्युपगन्तव्यः । कुत इत्याह- पूर्णोपमायाः । निर्विषयत्वापत्तेः । 'सकलकलं इत्यादावपि यदि श्लेषः तर्हि पूर्णोपमा कुत्र ? न च कुत्रापि तस्मादुपमैव श्लेषस्य बाधिकेति भावः । न 'कमलम्' इव । एतत् । 'ललनासम्बन्धी 'ति शेषः । मुखम् । मनोज्ञं मनोरमम् । 'कचतितराम् विभाति ।' इत्यादि 'वाक्य' मिति शेषः । अस्ति । पूर्णोपमाविषयः पूर्णोपमाया विषयभूतम् । इति । चेत् । न । कुत इत्याशङ्कयाह-यदि । शब्दश्लेषतया शब्दानां श्लेषो यत्र तत्तया । शब्दश्लेषवत्तयेति भावः । 'सकलकलं.' इत्यादौ । उपमा । न । 'वाध्यते' इति शेषः । तर्हि | 'मनोज्ञं' इत्यादी । 'सम्भवता' इति शेषः । अर्थश्लेषेण । मनोज्ञत्वस्योपमानोपमेयभूतयोः कमलभुखयोर्भिन्नतया श्लिष्टत्वादर्थयोः श्लेषेणेति भावः । किम् । अपराद्ध । मपराधः कृतः । अयं भावः - यथा 'सकलकलं..." इत्यादौ शब्दश्लेषेणोपमा न वाध्यते, तथा 'कमलमिव' इत्यादावर्थलेषेण कथं न सा बाधिष्यते, उभयत्र श्लेषस्य तुल्यबलत्वात् । इति । ननु शब्दश्लेषोऽर्थश्लेष इति शब्दार्थयोर्भेद एव नियामकः, उपमाया अर्थालङ्कारतया शब्दश्लेषस्यैवोपमाबाधकत्वात, अर्थश्लेषस्य चोपमाबाध्यत्वादिति चेनेत्याह - एतौ पूर्वमभिहितलक्षणौ । उपमासमुच्चयौ । स्फुटं निश्चितम् । भर्थालङ्कारौ । किन्तु । शब्दमात्रं शब्द एवेति तत्तथोक्तम् । सामान्यं साधारणं धर्मम् | आश्रित्योपजीव्य । इह 'सकलकलं...' इत्यादौ । अपि । सम्भवतः । इतीत्येवम् । रुद्रटोक्तदिशा टः काव्यालङ्कारकत्ती तेनोक्ताऽसौ दिक् मार्गदर्शन तया । गुणक्रिया साम्यवद् गुणक्रिययोः साम्यस्येव । शब्दसाम्यस्य केवलशब्दरूपसाधारणधर्मसमानतायाः । अपि । उपमाप्रयोजकत्वादुपमासाधकत्वेन स्वीकारादित्यर्थः । 'सकलकलं.' इत्यादौ नोपमा प्रतिभोत्पत्तिहेतुः श्लेषः' इति पूर्वेणान्वयः । ननु (आशङ्कते । गुणक्रिया साम्यस्य । एव नतु शब्दसाम्यस्य । उपमाप्रयोजकतोपमा निर्वाहकता । युक्ता सङ्गता । कुत इत्याह-तत्र गुणक्रियासाम्य इत्यर्थः । साधम्यस्य समानधर्मताया उपमानोपमेययोसमानतया प्रत्यायकस्य धर्मस्येति भावः । वास्तवत्वादुपमानोपमेयरूपवस्तुनः समवेतत्वादिति भावः । शब्दसाम्यस्य तु पुनः। तथा यथा गुणक्रियासाम्यस्योपमाप्रयोजकता' इति पूर्वेणान्वयः । न नैव । 'युक्ते 'ति शेषः कुत इत्या शङ्कथं तत्परिपन्थिनं हेतुमाह - साधर्म्यस्य समानधर्मतायाः । अवास्तवत्वादुपमानोपमेयरूपवस्तुनोरसमवेतत्वात् । अथानेवंस्वीकारे आपत्ति दर्शयन् स्वमतं निवेदयति- ततस्तस्मात्, गुणक्रियासाम्यमात्रस्योपमाप्रयोजकतेति स्वीकारात् । च पुनः । अन्यथा शब्दसाम्यस्याप्युपमाप्रयोजकत्वमिति स्वीकारे । पूर्णोपमायाः । अनुपपत्तेरुपपत्तेरसम्भवात् शब्दसाम्ये सादृश्यस्मावास्तवत्वान्न शब्दसाम्य उपमा पूर्णेति हेतोरिति भावः । गुणक्रियासाम्यस्य । एव नतु शब्दसाम्यस्य । अर्थश्लेषविषयता परित्यागेऽर्थश्लेषस्य विषयस्तस्य भाव इति तस्यास्तत्तायाः परित्यागस्तस्मिन्निति तथोक्ते । अत्र सत्यर्थे सप्तमी । पूर्णामाविषयता । युक्ता । न तु पुनः। सकलकलं...' इत्यादौ । शब्दसाम्यस्य 'शब्दश्लेषविषयता
I