________________
परिच्छे ] रुचिराख्यया ध्याख्यया समेतः।
१५५ विषयपरिहारेणापि स्थितेः, एतद्विषये श्लेषस्य प्राबल्येन चमत्कारित्वप्रतीतेश्च श्लेषेणैव व्यपदेशो भवितुं सक्तः, अन्यथा तव्यपदेशस्य सर्वथाऽभावप्रसङ्गाच्च । इति । ___ अबोच्यते-न तावत्परमार्थतः श्लेषस्यालङ्कारान्तराविविक्तविषयता, 'येन ध्वस्तमनोभवेन' इत्यादिना विविक्तविषयत्वात् , न चात्र तुल्ययोगिता, तस्यां च द्वयोरप्यर्थयोर्वाच्यत्वनियमाभा वात् । अत्र हि-माधवोमाधवयोरेकस्य वाच्यत्वनियमेऽपरस्य व्यङ्गयत्वं स्यात् , किश्च-तुल्ययोगितायामकस्यव धमस्यानेकधामसम्बद्धतया प्रतीतिः, इह तु अनकषाधामणा पृथकूपृथग्धमसम्बद्ध
णाम् । च पुनः । श्लेषविषयपरिहारेण षोदाहरणानि परित्यज्येति भावः । अपि । स्थिते: सम्भवात् । श्लेषस्तुत्ययोगितादिबाधक' इति शेषः । एतद्विषये एतेषां तुल्ययेगितायदाहरणे इति भावः । श्लेषस्यानेकार्थवाचनस्यालइकारस्थ । प्राबल्येन प्रबलतया प्रधानतयेति यावतः । चमत्कारित्वप्रतीतेश्चमत्करणशीलतायाः प्रत्यय नेत्यर्थः । च। श्लेषेण श्लेषद्वारा । एव । व्यपदेशोऽभिधानम् । तत्र तत्र श्लिष्टत्वमित्युक्तिः । भवितुम्। शक्तः । अन्यथा तुल्ययोगितादीनां श्लिष्टत्ववत्ताऽनङ्गीकारे इति भावः । तदव्यपदेशस्य तस्य श्लेषस्य व्यपदेशस्तस्य । सवेथा सविधया । अभावप्रसङ्गादभावस्य प्रसङ्गस्तस्मात् । च एतद्विषये (तुल्ययोगितायुदाहरणे ) श्लेषणैव व्यपदेशो भवितुं युक्तः' इति पूर्वेणान्वयः । अयम्भावः-समासोक्त्यादौ श्लेष एवं न, तत्र द्वितीयार्थस्य व्यङ्गयमात्रत्वात् ,रूपकादौ च लषः सन्नपि रूपकादिना वाध्यते, तत्र रूपकादेरेव प्रावल्यातू, तुल्ययोगितादौ पुनः श्लेषो बाधकः, तदपेक्षयाऽस्येव प्राबल्यात् । एवं च-'निरवकाशो विधिः सावकाशं बाधते' इति नयेन तुल्ययोगिताऽऽदिसम्भवस्थले एव श्लेषस्यापि सम्भवोऽभ्युप. गन्तव्यः असो च तत्रापवादस्वरूपेगावतिष्ठते, नच रूपकादावपि तत्रास्य तेन बाधित्वात् । इति । ___ एवं पूर्वपक्ष संदोतरपक्षं दर्शयितुमुपक्रमते-अत्रास्मिन् 'अस्य च....'इत्यादिना प्रदर्शिते पूर्वपक्षे । उच्यते सिद्धान्त। त्वेन प्रतिपाद्यत इति भावः । परमार्थतः सिद्धान्तविचारतः। श्लेषस्य । अलङ्कारान्तराविविक्तविषयताऽलङ्कारा. न्तरेभ्योऽविविक्तोऽभिन्नो विषयो यस्य तदभावस्तत्ता । न नैव । तावत् प्रथम सम्भवतीति शेषः। कुत इत्याह-'येन. ध्वम्तमनोभवन'इत्यादिना । विविक्तविषयत्वाद्विविक्तः पृथगुदाहृतो विषयो यस्य तत्त्वात् । ननु येन...'इत्यादौ तु प्राकरणिकयोर्माधवोमाधवयोरेकधर्माभिसम्बन्धात्तल्ययोगिताऽप्यस्तीति कथमिह तस्य विविक्तविषयत्वमित्याशङ्कयाहअत्र 'येन' इत्यत्र । चन । तुल्ययोगिता। यतः-तस्यां 'येन'इत्यत्र तथाऽभिमन्यमानायां तुल्ययोगितायामित्यर्थः । च। द्वयोः 'प्राकरणिकाप्राकरणिकयो रिति शेषः । अपि । अर्थयोः । वाच्यत्वनियमाभावाद वाच्यत्वेन नियमस्तदभावस्तस्मात् तुल्ययोगितायां द्वावप्यौँ वाच्यौ भवतः, किन्तु 'येन' इत्यादौ तन्नियमाभाव इति हेतोरिति भावः । ननु 'येने'त्यादौ कथं न द्वयोरप्यर्थयोर्वाच्यत्वं, पायेणोभयत्राप्यभिधासञ्चारात्' इत्याशङ्कयाह-अत्र 'येने'त्यादौ । हि यतः । माधवोमाधवयोः । अत्र निर्धारणे सप्तमी । एकस्य माधवोमाधवान्यतरपदार्थस्येत्यर्थः । बाच्यत्व. नियमे वाच्यत्वस्य नियमः 'संयोगो विप्रयोगश्च' इत्यायुक्तदिशा नियन्त्रणमिति यावत् तस्मिन् । अत्र सत्यर्थे सप्तमी । अपरस्य नियन्त्रितत्वविधुरस्य । व्यङ्यत्वं व्यसनयाऽभिनेयत्वम् । स्यात । अयम्भावः-'येने त्यादौ माधवोमाधवान्यतरपरार्थ एवाभिधाया विषयः, 'संयोगी विप्रयोगश्च' इत्याद्यक्तदिशैकत्रास्यानियन्त्रितत्वेऽन्यत्र विषयमभिधातुमशक्यम् , एवं च-यत्र नाभिधासञ्चारस्तत्र व्यञ्जनयोपनीयतेऽर्थ इति सिद्धान्ते माधवोमाधवयोरेकस्य वाच्यत्वेऽपरस्य व्यङ्गयत्वं निर्बाधम् । इति । एवमेकं दोषं प्रदापि असन्तष्यन दोषान्तरं दर्शयति-किश्च दोषान्तरमपीत्यर्थः । तुल्ययोगितायाम् । अत्र विषये सप्तमी। एकस्य । एव नत्वनेकेषाम् । धर्मस्य 'यथा-'स्वच्छोपजातविषयोऽ त्यादौ स्वेच्छोपजातविषयत्वादिरूपस्य तथा' इति शेषः । अनेकामबद्धतयाऽनेके च ते धर्मिण इति तैस्सम्बद्ध स्तद्भावस्तत्ता तया । 'यथा-'स्वेच्छोपजात...'इत्यादौ प्रसनविशिखरूपमिणा मढप्रभुरूपधर्मिणा च सम्वद्धतया तथे' :ति शेषः । प्रतीतिः 'सम्भवतीति शेषः । इह 'थेन'इत्यादौ । त् । अनकेषां 'माधवोमाधवादिरूपाणा'मिति शेषः । अत्र बहुवचनमविवक्षितम् । धर्मिणाम् । पृथक पृथक् । वीप्सायां द्वित्वम् । धर्मसम्बद्धतथा धर्मरनोवंसनाभवत्वादिभि. ध्वस्तमनोभवत्वादिभिश्चेति भावः । सम्वद्धास्तद्भावस्तता तया । 'प्रतीति' रिति पूर्वेणान्वयः । 'न तस्मात्-'येन वस्तम